धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 12

  1. [ष] करुद्धं तु नहुषं जञात्वा देवाः सर्षिपुरॊगमाः अब्रुवन देवराजानं नहुषं घॊरदर्शनम ॥ 1 ॥

  2. देवराजजहि करॊधं तवयि करुद्धे जगद विभॊ तरस्तं सासुरगन्धर्वं स किंनरमहॊरगम ॥ 2 ॥

  3. जहि करॊधम इमं साधॊ न करुध्यन्ति भवद्विधाः परस्य पत्नी सा देवी परसीदस्व सुरेश्वर ॥ 3 ॥

  4. निवर्तय मनः पापात परदाराभिमर्शनात देवराजॊ ऽसि भद्रं ते परजा धर्मेण पालय ॥ 4 ॥

  5. एवम उक्तॊ न जग्राह तद वचः काममॊहितः अथ देवान उवाचेदम इन्द्रं परति सुराधिपः ॥ 5 ॥

  6. अहल्या धर्षिता पूर्वम ऋषिपत्नी यशस्विनी जीवतॊ भर्तुर इन्द्रेण स वः किं न निवारितः ॥ 6 ॥

  7. बहूनि च नृशंसानि कृतानीन्द्रेण वै पुरा वैधर्म्याण्य उपधाश चैव स वः किं न निवारितः ॥ 7 ॥

  8. उपतिष्ठतु मां देवी एतद अस्या हितं परम युष्माकं च सदा देवाः शिवम एवं भविष्यति ॥ 8 ॥

  9. इन्द्राणीम आनयिष्यामॊ यथेच्छसि दिवः पते जहि करॊधम इमं वीर परीतॊ भव सुरेश्वर ॥ 9 ॥

  10. इत्य उक्त्वा ते तदा देवा ऋषिभिः सह भारत जग्मुर बृहस्पतिं वक्तुम इन्द्राणीं चाशुभं वचः ॥ 10 ॥

  11. जानीमः शरणं पराप्तम इन्द्राणीं तव वेश्मनि दत्ताभयां च विप्रेन्द्र तवया देवर्षिसत्तम ॥ 11 ॥

  12. ते तवां देवाः स गन्धर्वा ऋषयश च महाद्युते परसादयन्ति चेन्द्राणी नहुषाय परदीयताम ॥ 12 ॥

  13. इन्द्राद विशिष्टॊ नहुषॊ देवराजॊ महाद्युतिः वृणॊत्व इयं वरारॊहा भर्तृत्वे वरवर्णिनी ॥ 13 ॥

  14. एवम उक्ते तु सा देवी बाष्पम उत्सृज्य सस्वरम उवाच रुदती दीना बृहस्पतिम इदं वचः ॥ 14 ॥

  15. नाहम इच्छामि नहुषं पतिम अन्वास्य तं परभुम शरणागतास्मि ते बरह्मंस तराहि मां महतॊ भयात ॥ 15 ॥

  16. शरणागतां न तयजेयम इन्द्राणि मम निश्चितम धर्मज्ञां धर्मशीलां च न तयजे तवाम अनिन्दिते ॥ 16 ॥

  17. नाकार्यं कर्तुम इच्छामि बराह्मणः सन विशेषतः शरुतधर्मा सत्यशीलॊ जानन धर्मानुशासनम ॥ 17 ॥

  18. नाहम एतत करिष्यामि गच्छध्वं वै सुरॊत्तमाः अस्मिंश चार्थे पुरा गीतं बरह्मणा शरूयताम इदम ॥ 18 ॥

  19. न तस्य बीजं रॊहति बीजकाले; न चास्य वर्षं वर्षति वर्षकाले भीतं परपन्नं परददाति शत्रवे; न सॊ ऽनतरं लभते तराणम इच्छन ॥ 19 ॥

  20. मॊघम अन्नं विन्दति चाप्य अचेताः; सवर्गाल लॊकाद भरश्यति नष्टचेष्टः भीतं परपन्नं परददाति यॊ वै; न तस्य हव्यं परतिगृह्णन्ति देवाः ॥ 20 ॥

  21. परमीयते चास्य परजा हय अकाले; सदा विवासं पितरॊ ऽसय कुर्वते भीतं परपन्नं परददाति शत्रवे; सेन्द्रा देवाः परहरन्त्य अस्य वज्रम ॥ 21 ॥

  22. एतद एवं विजानन वै न दास्यामि शचीम इमाम इन्द्राणीं विश्रुतां लॊके शक्रस्य महिषीं परियाम ॥ 22 ॥

  23. अस्या हितं भवेद यच च मम चापि हितं भवेत करियतां तत सुरश्रेष्ठा न हि दास्याम्य अहं शचीम ॥ 23 ॥

  24. अथ देवास तम एवाहुर गुरुम अङ्गिरसां वरम कथं सुनीतं तु भवेन मन्त्रयस्व बृहस्पते ॥ 24 ॥

  25. नहुषं याचतां देवी किं चित कालान्तरं शुभा इन्द्राणी हितम एतद धि तथास्माकं भविष्यति ॥ 25 ॥

  26. बहुविघ्नकरः कालः कालः कालं नयिष्यति दर्पितॊ बलवांश चापि नहुषॊ वरसंश्रयात ॥ 26 ॥

  27. ततस तेन तथॊक्ते तु परीता देवास तम अब्रुवन बरह्मन साध्व इदम उक्तं ते हितं सर्वदिवौकसाम एवम एतद दविजश्रेष्ठ देवी चेयं परसाद्यताम ॥ 27 ॥

  28. ततः समस्ता इन्द्राणीं देवाः साग्निपुरॊगमाः ऊचुर वचनम अव्यग्रा लॊकानां हितकाम्यया ॥ 28 ॥

  29. तवया जगद इदं सर्वं धृतं सथावरजङ्गमम एकपत्न्य असि सत्या च गच्छस्व नहुषं परति ॥ 29 ॥

  30. कषिप्रं तवाम अभिकामश च विनशिष्यति पार्थिवः नहुषॊ देवि शक्रश च सुरैश्वर्यम अवाप्स्यति ॥ 30 ॥

  31. एवं विनिश्चयं कृत्वा इन्द्राणी कार्यसिद्धये अभ्यगच्छत सव्रीडा नहुषं घॊरदर्शनम ॥ 31 ॥

  32. दृष्ट्वा तां नहुषश चापि वयॊ रूपसमन्विताम समहृष्यत दुष्टात्मा कामॊपहत चेतनः ॥ 32 ॥

Reach this point to mark the section finished.

Continue to अध्याय 13

Previous: अध्याय 11