धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 13

  1. [ष] अथ ताम अब्रवीद दृष्ट्वा नहुषॊ देवराट तदा तरयाणाम अपि लॊकानाम अहम इन्द्रः शुचिस्मिते भजस्व मां वरारॊहे पतित्वे वरवर्णिनि ॥ 1 ॥

  2. एवम उक्ता तु सा देवी नहुषेण पतिव्रता परावेपत भयॊद्विग्ना परवाते कदली यथा ॥ 2 ॥

  3. नमस्य सा तु बरह्माणं कृत्वा शिरसि चाञ्जलिम देवराजम अथॊवाच नहुषं घॊरदर्शनम ॥ 3 ॥

  4. कालम इच्छाम्य अहं लब्धुं किं चित तवत्तः सुरेश्वर न हि विज्ञायते शक्रः पराप्तः किं वा कव वा गतः ॥ 4 ॥

  5. तत्त्वम एतत तु विज्ञाय यदि न जञायते परभॊ ततॊ ऽहं तवाम उपस्थास्ये सत्यम एतद बरवीमि ते एवम उक्तः स इन्द्राण्या नहुषः परीतिमान अभूत ॥ 5 ॥

  6. एवं भवतु सुश्रॊणियथा माम अभिभाषसे जञात्वा चागमनं कार्यं सत्यम एतद अनुस्मरेः ॥ 6 ॥

  7. नहुषेण विसृष्टा च निश्चक्राम ततः शुभा बृहस्पतिनिकेतं सा जगाम च तपस्विनी ॥ 7 ॥

  8. तस्याः संश्रुत्य च वचॊ देवाः साग्निपुरॊगमाः मन्त्रयाम आसुर एकाग्राः शक्रार्थं राजसत्तम ॥ 8 ॥

  9. देवदेवेन संगम्य विष्णुना परभविष्णुना ऊचुश चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः ॥ 9 ॥

  10. बरह्महत्याभिभूतॊ वै शक्रः सुरगणेश्वरः गतिश च नस तवं देवेश पूर्वजॊ जगतः परभुः रक्षार्थं सर्वभूतानां विष्णुत्वम उपजग्मिवान ॥ 10 ॥

  11. तवद्वीर्यान निहते वृत्रे वासवॊ बरह्महत्यया वृतः सुरगणश्रेष्ठ मॊक्षं तस्य विनिर्दिश ॥ 11 ॥

  12. तेषां तद वचनं शरुत्वा देवानां विष्णुर अब्रवीत माम एव यजतां शक्रः पावयिष्यामि वज्रिणम ॥ 12 ॥

  13. पुण्येन हयमेधेन माम इष्ट्वा पाकशासनः पुनर एष्यति देवानाम इन्द्रत्वम अकुतॊभयः ॥ 13 ॥

  14. सवकर्मभिश च नहुषॊ नाशं यास्यति दुर्मतिः कं चित कालम इमं देवा मर्षयध्वम अतन्द्रिताः ॥ 14 ॥

  15. शरुत्वा विष्णॊः शुभां सत्यां तां वाणीम अमृतॊपमाम ततः सर्वे सुरगणाः सॊपाध्यायाः सहर्षिभिः यत्र शक्रॊ भयॊद्विग्नस तं देशम उपचक्रमुः ॥ 15 ॥

  16. तत्राश्वमेधः सुमहान महेन्द्रस्य महात्मनः ववृते पावनार्थं वै बरह्महत्यापहॊ नृप ॥ 16 ॥

  17. विभज्य बरह्महत्यां तु वृक्षेषु च नदीषु च पर्वतेषु पृथिव्यां च सत्रीषु चैव युधिष्ठिर ॥ 17 ॥

  18. संविभज्य च भूतेषु विसृज्य च सुरेश्वरः विज्वरः पूतपाप्मा च वासवॊ ऽभवद आत्मवान ॥ 18 ॥

  19. अकम्प्यं नहुषं सथानाद दृष्ट्वा च बलसूदनः तेजॊ घनं सर्वभूतानां वरदानाच च दुःसहम ॥ 19 ॥

  20. ततः शचीपतिर वीरः पुनर एव वयनश्यत अदृश्यः सर्वभूतानां कालाकाङ्क्षी चचार ह ॥ 20 ॥

  21. परनष्टे तु ततः शक्रे शची शॊकसमन्विता हा शक्रेति तदा देवी विललाप सुदुःखिता ॥ 21 ॥

  22. यदि दत्तं यदि हुतं गुरवस तॊषिता यदि एकभर्तृत्वम एवास्तु सत्यं यद्य अस्ति वा मयि ॥ 22 ॥

  23. पुण्यां चेमाम अहं दिव्यां परवृत्ताम उत्तरायणे देवीं रात्रिं नमस्यामि सिध्यतां मे मनॊरथः ॥ 23 ॥

  24. परयता चनिशां देवीम उपातिष्ठत तत्र सा पतिव्रतात्वात सत्येन सॊपश्रुतिम अथाकरॊत ॥ 24 ॥

  25. यत्रास्ते देवराजॊ ऽसौ तं देशं दर्शयस्व मे इत्य आहॊपश्रुतिं देवी सत्यं सत्येन दृश्यताम ॥ 25 ॥

Reach this point to mark the section finished.

Continue to अध्याय 14

Previous: अध्याय 12