धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 11

  1. [ष] ऋषयॊ ऽथाब्रुवन सर्वे देवाश च तरिदशेश्वराः अयं वै नहुषः शरीमान देवराज्ये ऽभिषिच्यताम ते गत्वाथाब्रुवन सर्वे राजा नॊ भव पार्थिव ॥ 1 ॥

  2. स तान उवाच नहुषॊ देवान ऋषिगणांस तथा पितृभिः सहितान राजन परीप्सन हितम आत्मनः ॥ 2 ॥

  3. दुर्बलॊ ऽहं न मे शक्तिर भवतां परिपालने बलवाञ जायते राजा बलं शक्रे हि नित्यदा ॥ 3 ॥

  4. तम अब्रुवन पुनः सर्वे देवाः सर्षिपुरॊगमाः अस्माकं तपसा युक्तः पाहि राज्यं तरिविष्टपे ॥ 4 ॥

  5. परस्परभयं घॊरम अस्माकं हि न संशयः अभिषिच्यस्व राजेन्द्र भव राजा तरिविष्टपे ॥ 5 ॥

  6. देवदानव यक्षाणाम ऋषीणां रक्षसां तथा पितृगन्धर्वभूतानां चक्षुर्विषयवर्तिनाम तेज आदास्यसे पश्यन बलवांश च भविष्यसि ॥ 6 ॥

  7. धर्मं पुरस्कृत्य सदा सर्वलॊकाधिपॊ भव बरह्मर्षींश चापि देवांश च गॊपायस्व तरिविष्टपे ॥ 7 ॥

  8. सुदुर्लभं वरं लब्ध्वा पराप्य राज्यं तरिविष्टपे धर्मात्मा सततं भूत्वा कामात्मा समपद्यत ॥ 8 ॥

  9. देवॊद्यानेषु सर्वेषु नन्दनॊपवनेषु च कैलासे हिमवत्पृष्ठे मन्दरे शवेतपर्वते सह्ये महेन्द्रे मलये समुद्रेषु सरित्सु च ॥ 9 ॥

  10. अप्सरॊभिः परिवृतॊ देवकन्या समावृतः नहुषॊ देवराजः सन करीडन बहुविधं तदा ॥ 10 ॥

  11. शृण्वन दिव्या बहुविधाः कथाः शरुतिमनॊहराः वादित्राणि च सर्वाणि गीतं च मधुरस्वरम ॥ 11 ॥

  12. विश्वावसुर नारदश च गन्धर्वाप्सरसां गणाः ऋतवः षट च देवेन्द्रं मूर्तिमन्त उपस्थिताः मारुतः सुरभिर वाति मनॊज्ञः सुखशीतलः ॥ 12 ॥

  13. एवं हि करीडतस तस्य नहुषस्य महात्मनः संप्राप्ता दर्शनं देवी शक्रस्य महिषी परिया ॥ 13 ॥

  14. स तां संदृश्य दुष्टात्मा पराह सर्वान सभासदः इन्द्रस्य महिषी देवी कस्मान मां नॊपतिष्ठति ॥ 14 ॥

  15. अहम इन्द्रॊ ऽसमि देवानां लॊकानां च तथेश्वरः आगच्छतु शची मह्यं कषिप्रम अद्य निवेशनम ॥ 15 ॥

  16. तच छरुत्वा दुर्मना देवी बृहस्पतिम उवाच ह रक्ष मां नहुषाद बरह्मंस तवास्मि शरणं गता ॥ 16 ॥

  17. सर्वलक्षणसंपन्नां बरह्मस तवं मां परभाषसे देवराजस्य दयिताम अत्यन्तसुखभागिनीम ॥ 17 ॥

  18. अवैधव्येन संयुक्ताम एकपत्नीं पतिव्रताम उक्तवान असि मां पूर्वम ऋतां तां कुरु वै गिरम ॥ 18 ॥

  19. नॊक्तपूर्वं च भगवन मृषा ते किं चिद ईश्वर तस्माद एतद भवेत सत्यं तवयॊक्तं दविजसत्तम ॥ 19 ॥

  20. बृहस्पतिर अथॊवाच इन्द्राणीं भयमॊहिताम यद उक्तासि मया देवि सत्यं तद भविता धरुवम ॥ 20 ॥

  21. दरक्ष्यसे देवराजानम इन्द्रं शीघ्रम इहागतम न भेतव्यं च नहुषात सत्यम एतद बरवीमि ते समानयिष्ये शक्रेण नचिराद भवतीम अहम ॥ 21 ॥

  22. अथ शुश्राव नहुष इन्द्राणीं शरणं गताम बृहस्पतेर अङ्गिरसश चुक्रॊध स नृपस तदा ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 12

Previous: अध्याय 10