धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 118

  1. [न] स तु राजा पुनस तस्याः कर्तुकामः सवयंवरम उपगम्याश्रमपदं गङ्गा यमुन संगमे ॥ 1 ॥

  2. गृहीतमाल्यदामां तां रथम आरॊप्य माधवीम पूरुर यदुश च भगिनीम आश्रमे पर्यधावताम ॥ 2 ॥

  3. नागयक्षमनुष्याणां पतत्रिमृगपक्षिणाम शैलद्रुम वनौकानाम आसीत तत्र समागमः ॥ 3 ॥

  4. नाना पुरुषदेशानाम ईश्वरैश च समाकुलम ऋषिभिर बरह्मकल्पैश च समन्ताद आवृतं वनम ॥ 4 ॥

  5. निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी वरान उत्क्रम्य सर्वांस तान वनं वृतवती वरम ॥ 5 ॥

  6. अवतीर्य रथात कन्या नमस्कृत्वा च बन्धुषु उपगम्य वनं पुण्यं तपस तेपे ययातिजा ॥ 6 ॥

  7. उपवासैर्श च विविधैर दीक्षाभिर नियमैस तथा आत्मनॊ लघुतां कृत्वा बभूव मृगचारिणी ॥ 7 ॥

  8. वैडूर्याङ्कुल कल्पानि मृदूनि हरितानि च चरन्ती शष्पमुख्यानि तिक्तानि मधुराणि च ॥ 8 ॥

  9. सरवन्तीनां च पुण्यानां सुरसानि शुचीनि च पिबन्ती वारि मुख्यानि शीतानि विमलानि च ॥ 9 ॥

  10. वनेषु मृगराजेषु सिंहविप्रॊषितेषु च दावाग्निविप्रमुक्तेषु शूण्येषु गहनेषु च ॥ 10 ॥

  11. चरन्ती हरिणैः सार्धं मृगीव वनराचिणी चचार विपुलं धर्मं बरह्मचर्येण संवृता ॥ 11 ॥

  12. ययातिर अपि पूर्वेषां राज्ञां वृत्तम अनुष्ठितः बहुवर्षसहस्रायुर अयुजत कालधर्मणा ॥ 12 ॥

  13. पूरुर यदुश च दवौ वंशौ वर्धमानौ नरॊत्तमौ ताभ्यां परतिष्ठितॊ लॊके परलॊके च नाहुषः ॥ 13 ॥

  14. महीयते नरपतिर ययातिः सवर्गम आस्थितः महर्षिकल्पॊ नृपतिः सवर्गाग्र्य फलभुग विभुः ॥ 14 ॥

  15. बहुवर्षसहस्राख्ये काले बहुगुणे गते राजर्षिषु निषण्णेषु महीयःसु महर्षिषु ॥ 15 ॥

  16. अवमेने नरान सर्वन देवान ऋषिगणांस तथा ययातिर मूढ विज्ञानॊ विस्मयाविष्टचेतनः ॥ 16 ॥

  17. ततस तं बुबुधे देवः शक्रॊ बलनिषूदनः ते च राजर्षयः सर्वे धिग धिग इत्य एवम अब्रुवन ॥ 17 ॥

  18. विचारश च समुत्पन्नॊ निरीक्ष्य नहुषात्मजम कॊ नव अयं कस्य वा राज्ञः कथं वा सवर्गम आगतः ॥ 18 ॥

  19. कर्मणा केन सिद्धॊ ऽयं कव वानेन तपश चितम कथं वा जञायते सवर्गे केन वा जञायते ऽपय उत ॥ 19 ॥

  20. एवं विचारयन्तस ते राजानः सवर्गवासिनः दृष्ट्वा पप्रच्छुर अन्यॊन्यं ययातिं नृपतिं परति ॥ 20 ॥

  21. विमानपालाः शतशः सवर्गद्वाराभिरक्षिणः पृष्टा आसनपालाश च न जानीमेत्य अथाब्रुवन ॥ 21 ॥

  22. सर्वे ते हय आवृतज्ञाना नाभ्यजानन्त तं नृपम स मुहूर्ताद अथ नृपॊ हतौजा अभवत तदा ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 119

Previous: अध्याय 117