[न] अथ परचलितः सथानाद आसनाच च परिच्युतः कम्पितेनैव मनसा धर्षितः शॊकवह्निना ॥ 1 ॥
मलानस्रग भरष्टविज्ञानः परभ्रष्ट मुकुटाङ्गदः विघूर्णन सरस्तसर्वाङ्गः परभ्रष्टाभरणाम्बरः ॥ 2 ॥
अदृश्यमानस तान पश्यन्न अपश्यंश च पुनः पुनः शून्यः शून्येन मनसा परपतिष्यन महीतलम ॥ 3 ॥
किं मया मनसा धयातम अशुभं धर्मदूषणम येनाहं चलितः सथानाद इति राजा वयचिन्तयत ॥ 4 ॥
ते तु तत्रैव राजानः सिद्धाश चाप्सरसस तथा अपश्यन्त निरालम्बं ययातिं तं परिच्युतम ॥ 5 ॥
अथैत्य पुरुषः कश चित कषीणपुण्यनिपातकः ययातिम अब्रवीद राजन देवराजस्य शासनात ॥ 6 ॥
अतीव मदमत्तस तवं न कं चिन नावमन्यसे मानेन भरष्टः सवर्गस ते नार्हस तवं पार्थिवात्मज न च परज्ञायसे गच्छ पतस्वेति तम अब्रवीत ॥ 7 ॥
पतेयं सत्स्व इति वचस तरिर उक्त्वा नहुषात्मजः पतिष्यंश चिन्तयाम आस गतिं गतिमतां वरः ॥ 8 ॥
एतस्मिन्न एव काले तु नैमिषे पार्थिवर्षभान चतुरॊ ऽपश्यत नृपस तेषां मध्ये पपात सः ॥ 9 ॥
परतर्दनॊ वसु मनाः शिबिरौशीनरॊ ऽषटकः वाजपेयेन यज्ञेन तर्पयन्ति सुरेश्वरम ॥ 10 ॥
तेषाम अध्वरजं धूमं सवर्गद्वारम उपस्थितम ययातिर उपजिघ्रन वै निपपात महीं परति ॥ 11 ॥
भूमौ सवर्गे च संबद्धां नदीं धूममयीं नृपः स गङ्गाम इव गच्छन्तीम आलम्ब्य जगतीपतिः ॥ 12 ॥
शरीमत्स्व अवभृथाग्र्येषु चतुर्षु परतिबन्धुषु मध्ये निपतितॊ राजा लॊकपालॊपमेषु च ॥ 13 ॥
चतुर्षु हुतकल्पेषु राजसिंहमहाग्निषु पपात मध्ये राजर्षिर ययातिः पुण्यसंक्षये ॥ 14 ॥
तम आहुः पार्थिवाः सर्वे परतिमानम इव शरियः कॊ भवान कस्य वा बन्धुर देशस्य नगरस्य वा ॥ 15 ॥
यक्षॊ वाप्य अथ वा देवॊ गन्धर्वॊ राक्षसॊ ऽपि वा न हि मानुषरूपॊ ऽसि कॊ वार्थः काङ्क्षितस तवया ॥ 16 ॥
ययातिर अस्मि राजर्षिः कषीणपुण्यश चयुतॊ दिवः पतेयं सत्स्व इति धयायन भवत्सु पतितस ततः ॥ 17 ॥
सत्यम एतद भवतु ते काङ्क्षितं पुरुषर्षभ सर्वेषां नः करतुफलं धर्मश च परतिगृह्यताम ॥ 18 ॥
नाहं परतिग्रह धनॊ बराह्मणः कषत्रियॊ हय अहम न च मे परवणा बुद्धिः परपुण्यविनाशने ॥ 19 ॥
एतस्मिन्न एव काले तु मृगचर्या करमागताम माधवीं परेक्ष्य राजानस ते ऽभिवाद्येदम अब्रुवन ॥ 20 ॥
किम आगमनकृत्यं ते किं कुर्वः शासनं तव आज्ञाप्या हि वयं सर्वे तव पुत्रास तपॊधने ॥ 21 ॥
तेषां तद भाषितं शरुत्वा माधवी परया मुदा पितरं समुपागच्छद ययातिं सा ववन्द च ॥ 22 ॥
दृष्ट्वा मूर्ध्ना नतान पुत्रांस तापसी वाक्यम अब्रवीत दौहित्रास तव राजेन्द्र मम पुत्रा न ते पराः इमे तवां तारयिष्यन्ति दिष्टम एतत पुरातनम ॥ 23 ॥
अहं ते दुहिता राजन माधवी मृगचारिणी मयाप्य उपचितॊ धर्मस ततॊ ऽरधं परतिगृह्यताम ॥ 24 ॥
यस्माद राजन नराः सर्वे अपत्यफलभागिनः तस्माद इच्छन्ति दौहित्रान यथा तवं वसुधाधिप ॥ 25 ॥
ततस ते पार्थिवाः सर्वे शिरसा जननीं तदा अभिवाद्य नमस्कृत्य मातामहम अथाब्रुवन ॥ 26 ॥
उच्चैर अनुपमैः सनिग्धैः सवरैर आपूय मेदिनीम मातामहं नृपतयस तारयन्तॊ दिवश चयुतम ॥ 27 ॥
अथ तस्माद उपगतॊ गालवॊ ऽपय आह पार्थिवम तपसॊ मे ऽषट भागेन सवर्गम आरॊहतां भवान ॥ 28 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 119
Reach this point to mark the section finished.
Continue to अध्याय 120