धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 117

  1. [न] गालवं वैनतेयॊ ऽथ परहसन्न इदम अब्रवीत दिष्ट्या कृतार्थं पश्यामि भवन्तम इह वै दविज ॥ 1 ॥

  2. गालवस तु वचः शरुत्वा वैनतेयेन भाषितम चतुर्भागावशिष्टं तद आचख्यौ कार्यम अस्य हि ॥ 2 ॥

  3. सुपर्णस तव अब्रवीद एनं गालवं पततां वरः परयत्नस ते न कर्तव्यॊ नैष संपत्स्यते तव ॥ 3 ॥

  4. पुरा हि कन्यकुब्जे वै गाधेः सत्यवतीं सुताम भार्यार्थे ऽवरयत कन्याम ऋचीकस तेन भाषितः ॥ 4 ॥

  5. एकतः शयाम कर्णानां हयानां चन्द्र वर्चसाम भगवन दीयतां मह्यं सहस्रम इति गालव ॥ 5 ॥

  6. ऋचीकस तु तथेत्य उक्त्वा वरुणस्यालयं गतः अश्वतीर्थे हयाँल लब्ध्वा दत्तवान पार्थिवाय वै ॥ 6 ॥

  7. इष्ट्वा ते पुण्डरीकेण दत्ता राज्ञा दविजातिषु तेभ्यॊ दवे दवे शते करीत्वा पराप्तास ते पार्थिवैस तदा ॥ 7 ॥

  8. अपराण्य अपि चत्वारि शतानि दविजसत्तम नीयमानानि संतारे हृतान्य आसन वितस्तया एवं न शक्यम अप्राप्यं पराप्तुं गालव कर्हि चित ॥ 8 ॥

  9. इमाम अश्वशताभ्यां वै दवाभ्यं तस्मै निवेदय विश्वामित्राय धर्मात्मन षड्भिर अश्वशतैः सह ततॊ ऽसि गतसंमॊहः कृतकृत्यॊ दविजर्षभ ॥ 9 ॥

  10. गालवस तं तथेत्य उक्त्वा सुपर्णसहितस ततः आदायाश्वांश च कन्यां च विश्मामित्रम उपागमत ॥ 10 ॥

  11. अश्वानां काङ्क्षितार्थानां षड इमानि शतानि वै शतद्वयेन कन्येयं भवता परतिगृह्यताम ॥ 11 ॥

  12. अस्यां राजर्षिभिः पुत्रा जाता वै धार्मिकास तरयः चतुर्थं जनयत्व एकं भवान अपि नरॊत्तम ॥ 12 ॥

  13. पूर्णान्य एवं शतान्य अष्टौ तुरगाणां भवन्तु ते भवतॊ हय अनृणॊ भूत्वा तपः कुर्यां यथासुखम ॥ 13 ॥

  14. [न] विश्वामित्रस तु तं दृष्ट्वा गालवं सह पक्षिणा कन्यां च तां वरारॊहाम इदम इत्य अब्रवीद वचः ॥ 14 ॥

  15. किम इयं पूर्वम एवेह न दत्ता मम गालव पुत्रा ममैव चत्वारॊ भवेयुः कुलभावनाः ॥ 15 ॥

  16. परतिगृह्णामि ते कन्याम एकपुत्र फलाय वै अश्वाश चाश्रमम आसाद्य तिष्ठन्तु मम सर्वशः ॥ 16 ॥

  17. स तया रममाणॊ ऽथ विश्वामित्रॊ महाद्युतिः आत्मजं जनयाम आस माधवी पुत्रम अष्टकम ॥ 17 ॥

  18. जातमात्रं सुतं तं च विश्वामित्रॊ महाद्युतिः संयॊज्यार्थैस तथा धर्मैर अश्वैस तैः समयॊजयत ॥ 18 ॥

  19. अथाष्टकः पुरं परायात तदा सॊमपुरप्रभम निर्यात्य कन्यां शिष्याय कौशिकॊ ऽपि वनं ययौ ॥ 19 ॥

  20. गालवॊ ऽपि सुपर्णेन सह निर्यात्य दक्षिणाम मनसाभिप्रतीतेन कन्याम इदम उवाच ह ॥ 20 ॥

  21. जातॊ दानपतिः पुत्रस तवया शूरस तथापरः सत्यधर्मरतश चान्यॊ यज्वा चापि तथापरः ॥ 21 ॥

  22. तद आगच्छ वरारॊहे तारितस ते पिता सुतैः चत्वारश चैव राजानस तथाहं च सुमध्यमे ॥ 22 ॥

  23. गालवस तव अभ्यनुज्ञाय सुपर्णं पन्नगाशनम पितुर निर्यात्य तां कन्यां परययौ वनम एव ह ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 118

Previous: अध्याय 116