[न] तथैव सा शरियं तयक्त्वा कन्या भूत्वा यशस्विनी माधवी गालवं विप्रम अन्वयात सत्यसंगरा ॥ 1 ॥
गालवॊ विमृशन्न एव सवकार्यगतमानसः जगाम भॊजनगरं दरष्टुम औशीनरं नृपम ॥ 2 ॥
तम उवाचाथ गत्वा स नृपतिं सत्यविक्रमम इयं कन्या सुतौ दवौ ते जनयिष्यति पार्थिवौ ॥ 3 ॥
अस्यां भवान अवाप्तार्थॊ भवति परेत्य चेह च सॊमार्क परतिसंकाशौ जनयित्वा सुतौ नृप ॥ 4 ॥
शुल्कं तु सर्वधर्मज्ञ हयानां चन्द्र वर्चसाम एकतः शयाम कर्णानां देयं मह्यं चतुःशतम ॥ 5 ॥
गुर्वर्थॊ ऽयं समारम्भॊ न हयैः कृत्यम अस्ति मे यदि शक्यं महाराज करियतां मा विचार्यताम ॥ 6 ॥
अनपत्यॊ ऽसि राजर्षे पुत्रौ जनय पार्थिव पितॄन पुत्र पलवेन तवम आत्मानं चैव तारय ॥ 7 ॥
न पुत्रफलभॊक्ता हि राजर्षे पात्यते दिवः न याति नरकं घॊरं यत्र गच्छन्त्य अनात्मजाः ॥ 8 ॥
एतच चान्यच च विविधं शरुत्वा गालव भाषितम उशीनरः पतिवचॊ ददौ तस्य नराधिपः ॥ 9 ॥
शरुतवान अस्मि ते वाक्यं यथा वदसि गालव विधिस तु बलवान बरह्मन परवणं हि मनॊ मम ॥ 10 ॥
शते दवे तु ममाश्वानाम ईदृशानां दविजॊत्तम इतरेषां सहस्राणि सुबहूनि चरन्ति मे ॥ 11 ॥
अहम अप्य एकम एवास्यां जनयिष्यामि गालव पुत्रं दविज गतं मार्गं गमिष्यामि परैर अहम ॥ 12 ॥
मूल्येनापि समं कुर्यां तवाहं दविजसत्तम पौरजानपदार्थं तु ममार्थॊ नात्म भॊगतः ॥ 13 ॥
कामतॊ हि धनं राजा पारक्यं यः परयच्छति न स धर्मेण धर्मात्मन युज्यते यशसा न च ॥ 14 ॥
सॊ ऽहं पतिग्रहीष्यामि ददात्व एतां भवान मम कुमारीं देवगर्भाभाम एकपुत्र भवाय मे ॥ 15 ॥
तथा तु बहुकल्याणम उक्तवन्तं नराधिपम उशीनरं दविजश्रेष्ठॊ गालवः परत्यपूजयत ॥ 16 ॥
उशीनरं परतिग्राह्य गालवः परययौ वनम रेमे स तां समासाद्य कृतपुण्य इव शरियम ॥ 17 ॥
कन्दरेषु च शैलानां नदीनां निर्झरेषु च उद्यानेषु विचित्रेषु वनेषूपवनेषु च ॥ 18 ॥
हर्म्येषु रमणीयेषु परासादशिखरेषु च वातायनविमानेषु तथा गर्भगृहेषु च ॥ 19 ॥
ततॊ ऽसय समये जज्ञे पुत्रॊ बाल रविप्रभः शिबिर नाम्नाभिविख्यातॊ यः स पार्थिव सत्तमः ॥ 20 ॥
उपस्थाय स तं विप्रॊ गालवः परतिगृह्य च कन्यां परयातस तां राजन दृष्टवान विनतात्मजम ॥ 21 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 116
Reach this point to mark the section finished.
Continue to अध्याय 117