[ग] महावीर्यॊ महीपालः काशीनाम ईश्वरः परभुः दिवॊदास इति खयातॊ भैमसेनिर नराधिपः ॥ 1 ॥
तत्र गच्छावहे भद्रे शनैर आगच्छ मा शुचः धार्मिकः संयमे युक्तः सत्यश चैव जनेश्वरः ॥ 2 ॥
तम उपागम्य स मुनिर नयायतस तेन सत्कृतः गालवः परसवस्यार्थे तं नृपं परत्यचॊदयत ॥ 3 ॥
शरुतम एतन मया पूर्वं किम उक्त्वा विस्तरं दविज काङ्क्षितॊ हि मयैषॊ ऽरथः शरुत्वैतद दविजसत्तम ॥ 4 ॥
एतच च मे बहुमतं यद उत्सृज्य नराधिपान माम एवम उपयातॊ ऽसि भावि चैतद असंशयम ॥ 5 ॥
स एव विभवॊ ऽसमाकम अश्वानाम अपि गालव अहम अप्य एकम एवास्यां जनयिष्यामि पार्थिवम ॥ 6 ॥
तथेत्य उक्त्वा दविजश्रेष्ठः परादात कन्यां महीपतेः विधिपूर्वं च तां राजा कन्यां परतिगृहीतवान ॥ 7 ॥
रेमे स तस्यां राजर्षिः परभावत्यां यथा रविः सवाहायां च यथा वह्निर यथा शच्यां स वासवः ॥ 8 ॥
यथा चन्द्रश च रॊहिण्यां यथा धूमॊर्णया यमः वरुणश च यथा गौर्यां यथा चर्द्ध्यां धनेश्वरः ॥ 9 ॥
यथा नारायणॊ लक्ष्यां जाह्नव्यां च यथॊदधिः यथा रुद्रश च रुद्राण्यां यथा वेद्यां पितामहः ॥ 10 ॥
अदृश्यन्त्यां च वासिष्ठॊ वसिष्ठश चाक्षमालया चयवनश च सुकन्यायां पुलस्त्यः संध्यया यथा ॥ 11 ॥
अगस्त्यश चापि वैदर्भ्यां सावित्र्यां सत्यवान यथा यथा भृगुः पुलॊमायाम अदित्यां कश्यपॊ यथा ॥ 12 ॥
रेणुकायां यथर्चीकॊ हैमवत्यां च कौशिकः बृहस्पतिश च तारायां शुक्रश च शतपर्वया ॥ 13 ॥
यथा भूम्यां भूमिपतिर उर्वश्यां च पुरूरवाः ऋचीकः सत्यवत्यां च सरस्वत्यां यथा मनुः ॥ 14 ॥
तथा तु रममाणस्य दिवॊदासस्य भूपतेः माधवी जनयाम आस पुत्रम एकं परतर्दनम ॥ 15 ॥
अथाजगाम भगवान दिवॊदासं स गालवः समये समनुप्राप्ते वचनं चेदम अब्रवीत ॥ 16 ॥
निर्यातयतु मे कन्यां भवांस तिष्ठन्तु वाजिनः यावद अन्यत्र गच्छामि शुक्लार्थं पृथिवीपते ॥ 17 ॥
दिवॊदासॊ ऽथ धर्मात्मा समये गालवस्य ताम कन्यां निर्यातयाम आस सथितः सत्ये महीपतिः ॥ 18 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 115
Reach this point to mark the section finished.
Continue to अध्याय 116