धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 114

  1. [न] हर्यश्वस तव अब्रवीद राजा विचिन्त्य बहुधा ततः दीर्घम उष्णं च निःश्वस्य परजा हेतॊर नृपॊत्तमः ॥ 1 ॥

  2. उन्नतेषून्नता षट्सु सूक्ष्मा सूक्ष्मेषु सप्तसु गम्भीरा तरिषु गम्भीरेष्व इयं रक्ता च पञ्चसु ॥ 2 ॥

  3. बहु देवासुरालॊका बहु गन्धर्वदर्शना बहु लक्षणसंपन्ना बहु परसव दारिणी ॥ 3 ॥

  4. समर्थेयं जनयितुं चक्रवर्तिनम आत्मजम बरूहि शुल्कं दविजश्रेष्ठ समीक्ष्य विभवं मम ॥ 4 ॥

  5. एकतः शयाम कर्णानां शतान्य अष्टौ ददस्व मे हयानां चन्द्र शुभ्राणां देशजानां वपुष्मताम ॥ 5 ॥

  6. ततस तव भवित्रीयं पुत्राणां जननी शुभा अरणीव हुताशानां यॊनिर आयतलॊचना ॥ 6 ॥

  7. एतच छरुत्वा वचॊ राजा हर्यश्वः काममॊहितः उवाच गालवं दीनॊ राजर्षिर ऋषिसत्तमम ॥ 7 ॥

  8. दवे मे शते संनिहिते हयानां यद विधास तव एष्टव्याः शतशस तव अन्ये चरन्ति मम वाजिनः ॥ 8 ॥

  9. सॊ ऽहम एकम अपत्यं वै जनयिष्यामि गालव अस्याम एतं भवान कामं संपादयतु मे वरम ॥ 9 ॥

  10. एतच छरुत्वा तु सा कन्या गालवं वाक्यम अब्रवीत मम दत्तॊ वरः कश चित केन चिद बरह्मवादिना ॥ 10 ॥

  11. परसूत्य अन्ते परसूत्य अन्ते कन्यैव तवं भविष्यसि स तवं ददस्व मां राज्ञे परतिगृह्य हयॊत्तमान ॥ 11 ॥

  12. नृपेभ्यॊ हि चतुर्भ्यस ते पूर्णान्य अष्टौ शतानि वै भविष्यन्ति तथा पुत्रा मम चत्वार एव च ॥ 12 ॥

  13. करियतां मम संहारॊ गुर्वर्थं दविजसत्तम एषा तावन मम परज्ञा यथा वा मन्यसे दविज ॥ 13 ॥

  14. एवम उक्तस तु स मुनिः कन्यया गालवस तदा हर्यश्वं पृथिवीपालम इदं वचनम अब्रवीत ॥ 14 ॥

  15. इयं कन्या नरश्रेष्ठ हर्यश्वप्रतिगृह्यताम चतुर्भागेन शुल्कस्य जनयस्वैकम आत्मजम ॥ 15 ॥

  16. पतिगृह्य स तां कन्यां गालवं पतिनन्द्य च समये देशकाले च लब्धवान सुतम ईप्सितम ॥ 16 ॥

  17. ततॊ वसु मना नाम वसुभ्यॊ वसुमत्तरः वसु परख्यॊ नरपतिः स बभूव वसु परदः ॥ 17 ॥

  18. अथ काले पुनर धीमान गालवः पत्युपस्थितः उपसंगम्य चॊवाच हर्यश्वं परीतिमानसम ॥ 18 ॥

  19. जातॊ नृपसुतस ते ऽयं बाल भास्करसंनिभः कालॊ गन्तुं नरश्रेष्ठ भिक्षार्थम अपरं नृपम ॥ 19 ॥

  20. हर्यश्वः सत्यवचने सथितः सथित्वा च पौरुषे दुर्लभत्वाद धयानां च परददौ माधवीं पुनः ॥ 20 ॥

  21. माधवी च पुनर दीप्तां परित्यज्य नृप शरियम कुमारी कामतॊ भूत्वा गालवं पृष्ठतॊ ऽनवगात ॥ 21 ॥

  22. तवय्य एव तावत तिष्ठन्तु हया इत्य उक्तवान दविजः परययौ कन्यया सार्धं दिवॊदासं परजेश्वरम ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 115

Previous: अध्याय 113