[न] एवम उक्तः सुपर्णेन तथ्यं वचनम उत्तमम विमृश्यावहितॊ राजा निश्चित्य च पुनः पुनः ॥ 1 ॥
यष्टा करतुसहस्राणां दाता दानपतिः परभुः ययातिर वत्स काशीश इदं वचनम अब्रवीत ॥ 2 ॥
दृष्ट्वा परियसखं तार्क्ष्यं गालवं च दविजर्षभम निदर्शनं च तपसॊ भिक्षां शलाघ्यां च कीर्तिताम ॥ 3 ॥
अतीत्य च नृपान अन्यान आदित्यकुलसंभवान मत्सकाशम अनुप्राप्ताव एतौ बुद्धिम अवेक्ष्य च ॥ 4 ॥
अद्य मे सफलं जन्म तारितं चाद्य मे कुलम अद्यायं तारितॊ देशॊ मम तार्क्ष्य तवयानघ ॥ 5 ॥
वक्तुम इच्छामि तु सखे यथा जानासि मां पुरा न तथा वित्तवान अस्मि कषीणं वित्तं हि मे सखे ॥ 6 ॥
न च शक्तॊ ऽसमि ते कर्तुं मॊघम आगमनं खग न चाशाम अस्य विप्रर्षेर वितथां कर्तुम उत्सहे ॥ 7 ॥
तत तु दास्यामि यत कार्यम इदं संपादयिष्यति अभिगम्य हताशॊ हि निवृत्तॊ दहते कुलम ॥ 8 ॥
नातः परं वैनतेय किं चित पापिष्ठम उच्यते यथाशा नाशनम लॊके देहि नास्तीति वा वचः ॥ 9 ॥
हताशॊ हय अकृतार्थः सन हतः संभावितॊ नरः हिनस्ति तस्य पुत्रांश च पौत्रांश चाकुर्वतॊ ऽरथिनाम ॥ 10 ॥
तस्माच चतुर्णां वंशानां सथापयित्री सुता मम इयं सुरसुत परख्या सर्वधर्मॊपचायिनी ॥ 11 ॥
सदा देवमनुष्याणाम असुराणां च गालव काङ्क्षिता रूपतॊ बाला सुता मे परतिगृह्यताम ॥ 12 ॥
अस्याः शुल्कं परदास्यन्ति नृपा राज्यम अपि धरुवम किं पुनः शयाम कर्णानां हयानां दवे चतुःशते ॥ 13 ॥
स भवान परतिगृह्णातु ममेमां माधवीं सुताम अहं दौहित्रवान सयां वै वर एष मम परभॊ ॥ 14 ॥
परतिगृह्य च तां कन्यां गालवः सह पक्षिणा पुनर दरक्ष्याव इत्य उक्त्वा परतस्थे सह कन्यया ॥ 15 ॥
उपलब्धम इदं दवारम अश्वानाम इति चाण्डजः उक्त्वा गालवम आपृच्छ्य जगाम भवनं सवकम ॥ 16 ॥
गते पतगराजे तु गालवः सह कन्यया चिन्तयानः कषमं दाने राज्ञां वै शुल्कतॊ ऽगमत ॥ 17 ॥
सॊ ऽगच्छन मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम अयॊध्यायां महावीर्यं चतुरङ्ग बलान्वितम ॥ 18 ॥
कॊशधान्य बलॊपेतं परिय पौरं दविज परियम परजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम ॥ 19 ॥
तम उपागम्य विप्रः स हर्यश्वं गालवॊ ऽबरवीत कन्येयं मम राजेन्द्र परसवैः कुलवर्धिनी ॥ 20 ॥
इयं शुक्लेन भार्यार्थे हर्यश्वप्रतिगृह्यताम शुल्कं ते कीर्तयिष्यामि तच छरुत्वा संप्रधार्यताम ॥ 21 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 113
Reach this point to mark the section finished.
Continue to अध्याय 114