[न] अथाह गालवं दीनं सुपर्णः पततां वरः निर्मितं वह्निना भूमौ वायुना वैधितं तथा यस्माद धिरण्मयं सर्वं हिरण्यं तेन चॊच्यते ॥ 1 ॥
धत्ते धारयते चेदम एतस्मात कारणाद धनम तद एतत तरिषु लॊकेषु धनं तिष्ठति शाश्वतम ॥ 2 ॥
नित्यं परॊष्ठपदाभ्यां च शुक्रे धनपतौ तथा मनुष्येभ्यः समादत्ते शुक्रश चित्तार्जितं धनम ॥ 3 ॥
अजैक पाद अहिर बुध्न्यै रक्ष्यते धनदेन च एवं न शक्यते लब्धुम अलब्धव्यं दविजर्षभ ॥ 4 ॥
ऋते च धनम अश्वानां नावाप्तिर विद्यते तव अर्थं याचात्र राजानं कं चिद राजर्षिवंशजम अपीड्य राजा पौरान हि यॊ नौ कुर्यात कृताथिनौ ॥ 5 ॥
अस्ति सॊमान्ववाये मे जातः कश चिन नृपः सखा अभिगच्छावहे तं वै तस्यास्ति विभवॊ भुवि ॥ 6 ॥
ययातिर नाम राजर्षिर नाहुषः सत्यविक्रमः स दास्यति मया चॊक्तॊ भवता चार्थितः सवयम ॥ 7 ॥
विभवश चास्य सुमहान आसीद धनपतेर इव एवं स तु धनं विद्वान दानेनैव वयशॊधयत ॥ 8 ॥
तथा तौ कथयन्तौ च चिन्तयन्तौ च यत कषमम परतिष्ठाने नरपतिं ययातिं परयुपस्थितौ ॥ 9 ॥
परतिगृह्य च सत्कारम अर्घादिं भॊजनं वरम पृष्टश चागमने हेतुम उवाच विनतासुतः ॥ 10 ॥
अयं मे नाहुष सखा गालवस तपसॊ निधिः विश्वामित्रस्य शिष्यॊ ऽभूद वर्षाण्य अयुतशॊ नृप ॥ 11 ॥
सॊ ऽयं तेनाभ्यनुज्ञात उपकारेप्सया दविजः तम आह भगवान कां ते ददानि गुरु दक्षिणाम ॥ 12 ॥
असकृत तेन चॊक्तेन किं चिद आगतमन्युना अयम उक्तः परयच्छेति जानता विभवं लघु ॥ 13 ॥
एकतः शयाम कर्णानां शुभ्राणां शुद्धजन्मनाम अष्टौ शतानि मे देहि हयानां चन्द्र वर्चसाम ॥ 14 ॥
गुर्वर्थॊ दीयताम एष यदि गालव मन्यसे इत्य एवम आह सक्रॊधॊ विश्वामित्रस तपॊधनः ॥ 15 ॥
सॊ ऽयं शॊकेन महता तप्यमानॊ दविजर्षभः अशक्तः परतिकर्तुं तद भवन्तं शरणं गतः ॥ 16 ॥
पतिगृह्य नरव्याघ्र तवत्तॊ भिक्षां गतव्ययः कृत्वापवर्गं गुरवे चरिष्यति महत तपः ॥ 17 ॥
तपसः संविभागेन भवन्तम अपि यॊक्ष्यते सवेन राजर्षितपसा पूर्णं तवां पूरयिष्यति ॥ 18 ॥
यावन्ति रॊमाणि हये भवन्ति हि नरेश्वर तावतॊ वाजिदा लॊकान पराप्नुवन्ति महीपते ॥ 19 ॥
पात्रं परतिग्रहस्यायं दातुं पात्रं तथा भवान शङ्खे कषीरम इवासक्तं भवत्व एतत तथॊपमम ॥ 20 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 112
Reach this point to mark the section finished.
Continue to अध्याय 113