धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 111

  1. [न] ऋषभस्य ततः शृङ्गे निपत्य दविज पक्षिणौ शाण्डिलीं बराह्मणीं तत्र ददृशाते तपॊऽनविताम ॥ 1 ॥

  2. अभिवाद्य सुपर्णस तु गालवश चाभिपूज्य ताम तया च सवागतेनॊक्तौ विष्टरे संनिषीदतुः ॥ 2 ॥

  3. सिद्धम अन्नं तया कषिप्रं बलिमन्त्रॊपबृंहितम भुक्त्वा तृप्ताव उभौ भूमौ सुप्तौ ताव अन्नमॊहितौ ॥ 3 ॥

  4. मुहूर्तात परतिबुद्धस तु सुपर्णॊ गमनेप्सया अथ भरष्टतनूजाङ्गम आत्मानं ददृशे खगः ॥ 4 ॥

  5. मांसपिण्डॊपमॊ ऽभूत स मुखपादान्वितः खगः गालवस तं तथा दृष्ट्वा विषण्णः पर्यपृच्छत ॥ 5 ॥

  6. किम इदं भवता पराप्तम इहागमनजं फलम वासॊ ऽयम इह कालं तु कियन्तं नौ भविष्यति ॥ 6 ॥

  7. किं नु ते मनसा धयातम अशुभं धर्मदूषणम न हय अयं भवतः सवल्पॊ वयभिचारॊ भविष्यति ॥ 7 ॥

  8. सुपर्णॊ ऽथाब्रवीद विप्रं परध्यातं वै मया दविज इमां सिद्धाम इतॊ नेतुं तत्र यत्र परजापतिः ॥ 8 ॥

  9. यत्र देवॊ महादेवॊ यत्र विष्णुः सनातनः यत्र धर्मश च यज्ञश च तत्रेयं निवसेद इति ॥ 9 ॥

  10. सॊ ऽहं भगवतीं याचे परणतः परियकाम्यया मयैतन नाम परध्यातं मनसा शॊचता किल ॥ 10 ॥

  11. तद एवं बहुमानात ते मयेहानीप्सितं कृतम सुकृतं दुष्कृतं वा तवं माहात्म्यात कषन्तुम अर्हसि ॥ 11 ॥

  12. सा तौ तदाब्रवीत तुष्टा पतगेन्द्र दविजर्षभौ न भेतव्यं सुपर्णॊ ऽसि सुपर्ण तयज संभ्रमम ॥ 12 ॥

  13. निन्दितास्मि तवया वत्स न च निन्दां कषमाम्य अहम लॊकेभ्यः स परिभ्रश्येद यॊ मां निन्देत पापकृत ॥ 13 ॥

  14. हीनयाकल्षणैः सर्वैस तथानिन्दितया मया आचारं परतिगृह्णन्त्या सिद्धिः पराप्तेयम उत्तमा ॥ 14 ॥

  15. आचाराल लभते धर्मम आचाराल लभते धनम आचाराच छरियम आप्नॊति आचारॊ हन्त्य अलक्षणम ॥ 15 ॥

  16. तदायुष्मन खग पते यथेष्टं गम्यताम इतः न च ते गर्हणीयापि हर्हितव्याः सत्रियः कव चित ॥ 16 ॥

  17. भवितासि यथापूर्वं बलवीर्यसमन्वितः बभूवतुस ततस तस्य पक्षौ दरविणवत्तरौ ॥ 17 ॥

  18. अनुज्ञातश च शाण्डिल्या यथागतम उपागमत नैव चासादयाम आस तथारूपांस तुरंगमान ॥ 18 ॥

  19. विश्वामित्रॊ ऽथ तं दृष्ट्वा गालवं चाध्वनि सथितम उवाच वदतां शरेष्ठॊ वैनतेयस्य संनिधौ ॥ 19 ॥

  20. यस तवया सवयम एवार्थः परतिज्ञातॊ मम दविज तस्य कालॊ ऽपवर्गस्य यथा वा मन्यते भवान ॥ 20 ॥

  21. परतीक्षिष्याम्य अहं कालम एतावन्तं तथा परम यथा संसिध्यते विप्र स मार्गस तु निशम्यताम ॥ 21 ॥

  22. सुपर्णॊ ऽथाब्रवीद दीनं गालवं भृशदुःखितम परत्यक्षं खल्व इदानीं मे विश्वामित्रॊ यद उक्तवान ॥ 22 ॥

  23. तद आगच्छ दविजश्रेष्ठ मन्त्रयिष्याव गालव नादत्त्वा गुरवे शक्यं कृत्स्नम अर्थं तवयासितुम ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 112

Previous: अध्याय 110