[गालव] गरुत्मन भुजगेन्द्रारे सुपर्णविनतात्मज नयमां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी ॥ 1 ॥
पूर्वम एतां दिशं गच्छ या पूर्वं परिकीर्तिता दैवतानां हि सांनिध्यम अत्र कीर्तितवान असि ॥ 2 ॥
अत्र सत्यं च धर्मश च तवया सम्यक परकीर्तितः इच्छेयं तु समागन्तुं समस्तैर दैवतैर अहम भूयश च तान सुरान दरष्टुम इच्छेयम अरुणानुज ॥ 3 ॥
तम आह विनता सूनुर आरॊहस्वेति वै दविजम आरुरॊहाथ स मुनिर गरुडं गालवस तदा ॥ 4 ॥
करममाणस्य ते रूपं दृश्यते पन्नगाशन भास्करस्येव पूर्वाह्णे सहस्रांशॊर विवस्वतः ॥ 5 ॥
पक्षवातप्रणुन्नानां वृक्षाणाम अनुगामिनाम परस्थितानाम इव समं पश्यामीह गतिं खग ॥ 6 ॥
ससागरवनाम उर्वीं सशैलवनकाननाम आकर्षन्न इव चाभासि पक्षवातेन खेचर ॥ 7 ॥
समीननागनक्रं च खम इवारॊप्यते जलम वायुना चैव महता पक्षवातेन चानिशम ॥ 8 ॥
तुल्यरूपाननान मत्स्यांस तिमिमत्स्यांस तिमिंगिलान नागांश च नरवक्त्रांश च पश्याम्य उन्मथितान इव ॥ 9 ॥
महार्णवस्य च रवैः शरॊत्रे मे बधिरी कृते न शृणॊमि न पश्यामि नात्मनॊ वेद्मि कारणम ॥ 10 ॥
शनैः साधु भवान यातु बरह्महत्याम अनुस्मरन न दृश्यते रविस तात न दिशॊ न च खं खग ॥ 11 ॥
तम एव तु पश्यामि शरीरं ते न लक्षये मणीव जात्यौ पश्यामि चक्षुषी ते ऽहम अण्डज ॥ 12 ॥
शरीरे तु न पश्यामि तव चैवात्मनश च ह पदे पदे तु पश्यामि सलिलाद अग्निम उत्थितम ॥ 13 ॥
स मे निर्वाप्य सहसा चक्षुषी शाम्यते पुनः तन निवर्त महान कालॊ गच्छतॊ विनतात्मज ॥ 14 ॥
न मे परयॊजनं किं चिद गमने पन्नगाशन संनिवर्त महावेगन वेगं विषहामि ते ॥ 15 ॥
गुरवे संश्रुतानीह शतान्य अष्टौ हि वाजिनाम एकतः शयाम कर्णानां शुभ्राणां चन्द्र वर्चसाम ॥ 16 ॥
तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज ततॊ ऽयं जीवितत्यागे दृष्टॊ मार्गॊ मयात्मनः ॥ 17 ॥
नैव मे ऽसति धनं किं चिन न धनेनान्वितः सुहृत न चार्थेनापि महता शक्यम एतद वयपॊहितुम ॥ 18 ॥
एवं बहु च दीनं च बरुवाणं गालवं तदा परत्युवाच वरजन्न एव परहसन विनतात्मजः ॥ 19 ॥
नातिप्रज्ञॊ ऽसि विप्रर्षे यॊ ऽऽतमानं तयक्तुम इच्छसि न चापि कृत्रिमः कालः कालॊ हि परमेश्वरः ॥ 20 ॥
किम अहं पूर्वम एवेह भवता नाभिचॊदितः उपायॊ ऽतर महान अस्ति येनैतद उपपद्यते ॥ 21 ॥
तद एष ऋषभॊ नाम पर्वतः सागरॊरसि अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव ॥ 22 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 110
Reach this point to mark the section finished.
Continue to अध्याय 111