धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 104

  1. [ज] अनर्थे जातनिर्बन्धं परार्थे लॊभमॊहितम अनार्यकेष्व अभिरतं मरणे कृतनिश्चयम ॥ 1 ॥

  2. जञातीनां दुःखकर्तारं बन्धूनां शॊकवर्धनम सुहृदां कलेशदातारं दविषतां हर्षवर्धनम ॥ 2 ॥

  3. कथं नैनं विमार्गस्थं वारयन्तीह बान्धवाः सौहृदाद वा सुहृत्स्निग्धॊ भगवान वा पितामहः ॥ 3 ॥

  4. उक्तं भगवता वाक्यम उक्तं भीष्मेण यत कषमम उक्तं बहुविधं चैव नारदेनापि तच छृणु ॥ 4 ॥

  5. दुर्लभॊ वै सुहृच छरॊता दुर्लभश च हितः सुहृत तिष्ठते हि सुहृद यत्र न बन्धुस तत्र तिष्ठति ॥ 5 ॥

  6. शरॊतव्यम अपि पश्यामि सुहृदां कुरुनन्दन न कर्तव्यश च निर्बन्धॊ निर्बन्धॊ हि सुदारुणः ॥ 6 ॥

  7. अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम यथा निर्बन्धतः पराप्तॊ गालवेन पराजयः ॥ 7 ॥

  8. विश्वामित्रं तपस्यन्तं धर्मॊ जिज्ञासया पुरा अभ्यगच्छत सवयं भूत्वा वसिष्ठॊ भगवान ऋषिः ॥ 8 ॥

  9. सप्तर्षीणाम अन्यतमं वेषम अस्थाय भारत बुभुक्षुः कषुधितॊ राजन्न आश्रमं कौशिकस्य ह ॥ 9 ॥

  10. विश्वामित्रॊ ऽथ संभ्रान्तः शरपयाम आस वै चरु परमान्नस्य यत्नेन न च स परत्यपालयत ॥ 10 ॥

  11. अन्नं तेन यदा भुक्तम अन्यैर दत्तं तपस्विभिः अथ गृह्यान नमत्य उष्णं विश्वामित्रॊ ऽभयुपागमत ॥ 11 ॥

  12. भुक्तं मे तिष्ठ तावत तवम इत्य उक्त्वा भगवान ययौ विश्वामित्रस ततॊ राजन सथित एव महाद्युतिः ॥ 12 ॥

  13. भक्तं परगृह्य मूर्ध्ना तद बाहुभ्यां पार्श्वतॊ ऽगमत सथितः सथाणुर इवाभ्याशे निश्चेष्टॊ मारुताशनः ॥ 13 ॥

  14. तस्य शुश्रूषणे यत्नम अकरॊद गालवॊ मुनिः गौरवाद बहुमानाच च हार्देन परियकाम्यया ॥ 14 ॥

  15. अथ वर्षशते पूर्णे धर्मः पुनर उपागमत वासिष्ठं वेषम आस्थाय कौशिकं भॊजनेप्सया ॥ 15 ॥

  16. स दृष्ट्वा शिरसा भक्तं धरियमाणं महर्षिणा तिष्ठता वायुभक्षेण विश्वामित्रेण धीमता ॥ 16 ॥

  17. परतिगृह्य ततॊ धर्मस तथैवॊष्णं तथा नवम भुक्त्वा परीतॊ ऽसमि विप्रर्षे तम उक्त्वा स मुनिर गतः ॥ 17 ॥

  18. कषत्रभावाद अपगतॊ विश्वामित्रस तदाभवत धर्मस्य वचनात परीतॊ विश्वामित्रस तदाभवत ॥ 18 ॥

  19. विश्वामित्रस तु शिष्यस्य गालवस्य तपस्विनः शुश्रूषया च भक्त्या च परीतिमान इत्य उवाच तम अनुज्ञातॊ मया वत्स यथेष्टं गच्छ गालव ॥ 19 ॥

  20. इत्य उक्तः परत्युवाचेदं गालवॊ मुनिसत्तमम परीतॊ मधुरया वाचा विश्वामित्रं महाद्युतिम ॥ 20 ॥

  21. दक्षिणां कां परयच्छामि भवते गुरु कर्मणि दक्षिणाभिर उपेतं हि कर्म सिध्यति मानवम ॥ 21 ॥

  22. दक्षिणानां हि सृष्टानाम अपवर्गेण भुज्यते सवर्गे करतुफलं सद्भिर दक्षिणा शान्तिर उच्यते किम आहरामि गुर्वर्थं बरवीतु भगवान इति ॥ 22 ॥

  23. जानमानस तु भगवाञ जितः शुश्रूषणेन च विश्वामित्रस तम असकृद गच्छ गच्छेत्य अचॊदयत ॥ 23 ॥

  24. असकृद गच्छ गच्छेति विश्वामित्रेण भाषितः किं ददानीति बहुशॊ गालवः परत्यभाषत ॥ 24 ॥

  25. निर्बन्धतस तु बहुशॊ गालवस्य तपस्विनः किं चिद आगतसंरम्भॊ विश्वामित्रॊ ऽबरवीद इदम ॥ 25 ॥

  26. एकतः शयाम कर्णानां शतान्य अष्टौ ददस्व मे हयानां चन्द्र शुभ्राणां गच्छ गालव माचिरम ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 105

Previous: अध्याय 103