धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 105

  1. [न] एवम उक्तस तदा तेन विश्वामित्रेण धीमता नास्ते न शेते नाहारं कुरुते गालवस तदा ॥ 1 ॥

  2. तवग अस्थि भूतॊ हरिणश चिन्ताशॊकपरायणः शॊचमानॊ ऽतिमात्रं स दह्यमानश च मन्युना ॥ 2 ॥

  3. कुतः पुष्टानि मित्राणि कुतॊ ऽरथाः संचयः कुतः हयानां चन्द्र शुभ्राणां शतान्य अष्टौ कुतॊ मम ॥ 3 ॥

  4. कुतॊ मे भॊजनश्रद्धा सुखश्रद्धा कुतश च मे शरद्धा मे जीवितस्यापि छिन्ना किं जीवितेन मे ॥ 4 ॥

  5. अहं पारं समुद्रस्य पृथिव्या वा परं परात गत्वात्मानं विमुञ्चामि किं फलं जीवितेन मे ॥ 5 ॥

  6. अधनस्याकृतार्थस्य तयक्तस्य विविधैः फलैः ऋणं धारयमाणस्य कुतः सुखम अनीहया ॥ 6 ॥

  7. सुहृदां हि धनं भुक्त्वा कृत्वा परणयम ईप्सितम परतिकर्तुम अशक्तस्य जीवितान मरणं वरम ॥ 7 ॥

  8. परतिश्रुत्य करिष्येति कर्तव्यं तद अकुर्वतः मिथ्यावचनदग्धस्य इष्टापूर्तं परणश्यति ॥ 8 ॥

  9. न रूपम अनृतस्यास्ति नानृतस्यास्ति संततिः नानृतस्याधिपत्यं च कुत एव गतिः शुभा ॥ 9 ॥

  10. कुतः कृतघ्नस्य यशः कुतः सथानं कुतः सुखम अश्रद्धेयः कृतघ्नॊ हि कृतघ्ने नास्ति निष्कृतिः ॥ 10 ॥

  11. न जीवत्य अधनः पापः कुतः पापस्य तन्त्रणम पापॊ धरुवम अवाप्नॊति विनाशं नाशयन कृतम ॥ 11 ॥

  12. सॊ ऽहं पापः कृतघ्नश च कृपणश चानृतॊ ऽपि च गुरॊर यः कृतकार्यः संस तत करॊमि न भाषितम सॊ ऽहं पराणान विमॊक्ष्यामि कृत्वा यत्नम अनुत्तमम ॥ 12 ॥

  13. अर्थना च मया का चित कृतपूर्वा दिवौकसाम मानयन्ति च मां सर्वे तरिदशा यज्ञसंस्तरे ॥ 13 ॥

  14. अहं तु विबुधश्रेष्ठं देवं तरिभुवनेश्वरम विष्णुं गच्छाम्य अहं कृष्णं गतिं गतिमतां वरम ॥ 14 ॥

  15. भॊगा यस्मात परतिष्ठन्ते वयाप्य सर्वान सुरासुरान परयतॊ दरष्टुम इच्छामि महायॊगिनम अव्ययम ॥ 15 ॥

  16. एवम उक्ते सखा तस्य गरुडॊ विनतात्मजः दर्शयाम आस तं पराह संहृष्टः परियकाम्यया ॥ 16 ॥

  17. सुहृद भवान मम मतः सुहृदां च मतः सुहृत ईप्सितेनाभिलाषेण यॊक्तव्यॊ विभवे सति ॥ 17 ॥

  18. विभवश चास्ति मे विप्र वासवावरजॊ दविज पूर्वम उक्तस तवदर्थं च कृतः कामश च तेन मे ॥ 18 ॥

  19. स भवान एतु गच्छाव नयिष्ये तवां यथासुखम देशं पारं पृथिव्या वा गच्छ गालव माचिरम ॥ 19 ॥

Reach this point to mark the section finished.

Continue to अध्याय 106

Previous: अध्याय 104