[नारद] सूतॊ ऽयं मातलिर नाम शक्रस्य दयितः सुहृत शुचिः शीलगुणॊपेतस तेजस्वी वीर्यवान बली ॥ 1 ॥
शक्रस्यायं सखा चैव मन्त्री सारथिर एव च अल्पान्तरप्रभावश च वासवेन रणे रणे ॥ 2 ॥
अयं हरिसहस्रेण युक्तं जैत्रं रथॊत्तमम देवासुरेषु युद्धेषु मनसैव नियच्छति ॥ 3 ॥
अनेन विजितान अश्वैर दॊर्भ्यां जयति वासवः अनेन परहृते पूर्वं बलभित परहरत्य उत ॥ 4 ॥
अस्य कन्या वरारॊहा रूपेणासदृशी भुवि सत्त्वशीलगुणॊपेता गुणकेशीति विश्रुता ॥ 5 ॥
तस्यास्य यत्नाच चरतस तरैलॊक्यम अमर दयुते सुमुखॊ भवतः पौत्रॊ रॊचते दुहितुः पतिः ॥ 6 ॥
यदि ते रॊचते सौम्य भुजगॊत्तम माचिरम करियताम आर्यक कषिप्रं बुद्धिः कन्या परतिग्रहे ॥ 7 ॥
यथा विष्णुकुले लक्ष्मीर यथा सवाहा विभावसॊः कुले तव तथैवास्तु गुणकेशी परतीच्छतु ॥ 8 ॥
पौत्रस्यार्थे भवांस तस्माद गुणकेशी परतीच्छतु सदृशीं परतिरूपस्य वासवस्य शचीम इव ॥ 9 ॥
पितृहीनम अपि हय एनं गुणतॊ वरयामहे बहुमानाच च भवतस तथैवैरावतस्य च सुमुखस्य गुणैश चैव शीलशौचदमादिभिः ॥ 10 ॥
अभिगम्य सवयं कन्याम अयं दातुं समुद्यतः मालतेस तस्य संमानं कर्तुम अर्हॊ भवान अपि ॥ 11 ॥
स तु दीनः परहृष्टश च पराह नारदम आर्यकः वरियमाणे तथा पौत्रे पुत्रे च निधनं गते ॥ 12 ॥
न मे नैतद बहुमतं देवर्षे वचनं तव सखा शक्रस्य संयुक्तः कस्यायं नेप्सितॊ भवेत ॥ 13 ॥
कारणस्य तु दौर्बल्याच चिन्तयामि महामुने भक्षितॊ वैनतेयेन दुःखार्तास तेन वै वयम ॥ 14 ॥
पुनर एव च तेनॊक्तं वैनतेयेन गच्छता मासेनान्येन सुमुखं भक्षयिष्य इति परभॊ ॥ 15 ॥
धरुवं तथा तद भविता जानीमस तस्य निश्चयम तेन हर्षः परनष्टॊ मे सुपर्णवचनेन वै ॥ 16 ॥
मातलिस तव अब्रवीद एनं बुद्धिर अत्र कृता मया जामातृभावेन वृतः सुमुखस तव पुत्रजः ॥ 17 ॥
सॊ ऽयं मया च सहितॊ नारदेन च पन्नगः तरिलॊकेशं सुरपतिं गत्वा पश्यतु वासवम ॥ 18 ॥
शेषेणैवास्य कार्येण परज्ञास्याम्य अहम आयुषः सुपर्णस्य विघाते च परयतिष्यामि सत्तम ॥ 19 ॥
सुमुखश च मया सार्धं देवेशम अभिगच्छतु कार्यसंसाधनार्थाय सवस्ति ते ऽसतु भुजंगम ॥ 20 ॥
ततस ते सुमुखं गृह्य सर्व एव महौजसः ददृशुः शक्रम आसीनं देवराजं महाद्युतिम ॥ 21 ॥
संगत्या तत्र भगवान विष्णुर आसीच चतुर्भुजः ततस तत सर्वम आचख्यौ नारदॊ मातलिं परति ॥ 22 ॥
ततः पुरंदरं विष्णुर उवाच भुवनेश्वरम अमृतं दीयताम अस्मै करियताम अमरैः समः ॥ 23 ॥
मातलिर नारदश चैव सुमुखश चैव वासव लभन्तां भवतः कामात कामम एतं यथेप्सितम ॥ 24 ॥
पुरंदरॊ ऽथ संचिन्त्य वैनतेय पराक्रमम विष्णुम एवाब्रवीद एनं भवान एव ददात्व इति ॥ 25 ॥
ईशस तवम असि लॊकानां चराणाम अचराश च ये तवया दत्तम अदत्तं कः कर्तुम उत्सहते विभॊ ॥ 26 ॥
परादाच छक्रस ततस तस्मै पन्नगायायुर उत्तमम न तव एनम अमृतप्राशं चकार बलवृत्रहा ॥ 27 ॥
लब्ध्वा वरं तु सुमुखः सुमुखः संबभूव ह कृतदारॊ यथाकामं जगाम च गृहान परति ॥ 28 ॥
नारदस तव आर्यकश चैव कृतकार्यौ मुदा युतौ परतिजग्मतुर अभ्यर्च्य देवराजं महाद्युतिम ॥ 29 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 102
Reach this point to mark the section finished.
Continue to अध्याय 103