[न] इयं भॊगवती नाम पुरी वासुकिपालिता यादृशी देवराजस्य पुरी वर्यामरावती ॥ 1 ॥
एष शेषः सथितॊ नागॊ येनेयं धार्यते सदा तपसा लॊकमुख्येन परभावमहता मही ॥ 2 ॥
शवेतॊच्चय निभाकारॊ नानाविध विभूषणः सहस्रं धारयन मूर्ध्ना जवाला जिह्वॊ महाबलः ॥ 3 ॥
इह नानाविधाकारा नानाविध विभूषणाः सुरसायाः सुता नागा निवसन्ति गतव्यथाः ॥ 4 ॥
मणिस्वस्तिक चक्राङ्काः कमण्डलुक लक्षणाः सहस्रसंख्या बलिनः सर्वे रौद्राः सवभावतः ॥ 5 ॥
सहस्रशिरसः के चित के चित पञ्चशताननाः शतशीर्षास तथा के चित के चित तरिशिरसॊ ऽपि च ॥ 6 ॥
दविपञ्च शिरसः के चित के चित सप्त मुखास तथा महाभॊगा महाकायाः पर्वताभॊगभॊगिनः ॥ 7 ॥
बहूनीह सहस्राणि परयुतान्य अर्बुदानि च नागानाम एकवंशानां यथा शरेष्ठांस तु मे शृणु ॥ 8 ॥
वासुकिस तक्षकश चैव कर्कॊटक धनंजयौ कालीयॊ नहुषश चैव कम्बलाश्वतराव उभौ ॥ 9 ॥
बाह्यकुण्डॊ मणिर नागस तथैवापूरणः खगः वामनश चैल पत्रश च कुकुरः कुकुणस तथा ॥ 10 ॥
आर्यकॊ नन्दकश चैव तथा कलशपॊतकौ कैलासकः पिञ्जरकॊ नागश चैरावतस तथा ॥ 11 ॥
सुमनॊमुखॊ दधिमुखः शङ्खॊ नन्दॊपनन्दकौ आप्तः कॊटनकश चैव शिखी निष्ठूरिकस तथा ॥ 12 ॥
तित्तिरिर हस्तिभद्रश च कुमुदॊ माल्यपिण्डकः दवौ पद्मौ पुण्डरीकश च पुष्पॊ मुद्गरपर्णकः ॥ 13 ॥
करवीरः पीठरकः संवृत्तॊ वृत्त एव च पिण्डारॊ बिल्वपत्रश च मूषिकादः शिरीषकः ॥ 14 ॥
दिलीपः शङ्खशीर्षश च जयॊतिष्कॊ ऽथापराजितः कौरव्यॊ धृतराष्ट्रश च कुमारः कुशकस तथा ॥ 15 ॥
विरजा धारणश चैव सुबाहुर मुखरॊ जयः बधिरान्धौ विकुण्डश च विरसः सुरसस तथा ॥ 16 ॥
एते चान्ये च बहवः कश्यपस्यात्मजाः समृताः मातले पश्य यद्य अत्र कश चित ते रॊचते वरः ॥ 17 ॥
[कण्व] मातलिस तव एकम अव्यग्रः सततं संनिरीक्ष्य वै पप्रच्छ नारदं तत्र परीतिमान इव चाभवत ॥ 18 ॥
सथितॊ य एष पुरतः कौरव्यस्यार्यकस्य च दयुतिमान दर्शनीयश च कस्यैष कुलनन्दनः ॥ 19 ॥
कः पिता जननी चास्य कतमस्यैष भॊगिनः वंशस्य कस्यैष महान केतुभूत इव सथितः ॥ 20 ॥
परणिधानेन धैर्येण रूपेण वयसा च मे मनः परविष्टॊ देवर्षे गुणकेश्याः पतिर वरः ॥ 21 ॥
मातलिं परीतिमनसं दृष्ट्वा सुमुख दर्शनात निवेदयाम आस तदा माहात्म्यं जन्म कर्म च ॥ 22 ॥
ऐरावत कुले जातः सुमुखॊ नाम नागराट आर्यकस्य मतः पौत्रॊ दौहित्रॊ वामनस्य च ॥ 23 ॥
एतस्य हि पिता नागश चिकुरॊ नाम मातले नचिराद वैनतेयेन पञ्चत्वम उपपादितः ॥ 24 ॥
ततॊ ऽबरवीत परीतमना मातलिर नारदं वचः एष मे रुचितस तात जामाता भुजगॊत्तमः ॥ 25 ॥
करियताम अत्र यत्नॊ हि परीतिमान अस्म्य अनेन वै अस्य नागपतेर दातुं परियां दुहितरं मुने ॥ 26 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 101
Reach this point to mark the section finished.
Continue to अध्याय 102