[न] इदं रसातलं नाम सप्तमं पृथिवीतलम यत्रास्ते सुरभिर माता गवाम अमृतसंभवा ॥ 1 ॥
कषरन्ती सततं कषीरं पृथिवी सारसंभवम षण्णां रसानां सारेण रसम एकम अनुत्तमम ॥ 2 ॥
अमृतेनाभितृप्तस्य सारम उद्गिरतः पुरा पितामहस्य वदनाद उदतिष्ठद अनिन्दिता ॥ 3 ॥
यस्याः कषीरस्य धाराया निपतन्त्या महीतले हरदः कृतः कषीरनिधिः पवित्रं परम उत्तमम ॥ 4 ॥
पुष्पितस्येव फेनस्य पर्यन्तम अनुवेष्टितम पिबन्तॊ निवसन्त्य अत्र फेनपा मुनिसत्तमाः ॥ 5 ॥
फेनपा नाम नाम्ना ते फेनाहाराश च मातले उग्रे तपसि वर्तन्ते येषां बिभ्यति देवताः ॥ 6 ॥
अस्याश चतस्रॊ धेन्वॊ ऽनया दिक्षु सर्वासु मातले निवसन्ति दिशापाल्यॊ धारयन्त्यॊ दिशः समृताः ॥ 7 ॥
पूर्वां दिशं धारयते सुरूपा नाम सौरभी दक्षिणां हंसका नाम धारयत्य अपरां दिशम ॥ 8 ॥
पश्चिमा वारुणी दिक च धार्यते वै सुभद्रया महानुभावया नित्यं मातले विश्वरूपया ॥ 9 ॥
सर्वकामदुघा नाम धेनुर धारयते दिशम उत्तरां मातले धर्म्यां तथैलविल संज्ञिताम ॥ 10 ॥
आसां तु पयसा मिश्रं पयॊ निर्मथ्य सागरे मन्थानं मन्दरं कृत्वा देवैर असुरसंहितैः ॥ 11 ॥
उद्धृता वारुणी लक्ष्मीर अमृतं चापि मातले उच्चैःश्रवाश चाश्वराजॊ मणिरत्नं च कौस्तुभम ॥ 12 ॥
सुधा हारेषु च सुधां सवधा भॊजिषु च सवधाम अमृतं चामृताशेषु सुरभिः कषरते पयः ॥ 13 ॥
अत्र गाथा पुरा गीता रसातलनिवासिभिः पौराणी शरूयते लॊके गीयते या मनीषिभिः ॥ 14 ॥
न नागलॊके न सवर्गे न विमाने तरिविष्टपे परिवासः सुखस तादृग रसातलतले यथा ॥ 15 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 100
Reach this point to mark the section finished.
Continue to अध्याय 101