[विरट] किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम परतिग्रहीतुं नेमां तवं मया दत्ताम इहेच्छसि ॥ 1 ॥
[अर्ज] अन्तःपुरे ऽहम उषितः सदा पश्यन सुतां तव रहस्यं च परकाशं च विश्वस्ता पितृवन मयि ॥ 2 ॥
परियॊ बहुमतश चाहं नर्तकॊ गीतकॊविदः आचार्यवच च मां नित्यं मन्यते दुहिता तव ॥ 3 ॥
वहः सथया तया राजन सह संवत्सरॊषितः अति शङ्का भवेत सथाने तव लॊकस्य चाभिभॊ ॥ 4 ॥
तस्मान निमन्त्रये तवाहं दुहितुः पृथिवीपते शुद्धॊ जितेन्द्रियॊ दान्तस तस्याः शुद्धिः कृता मया ॥ 5 ॥
सनुषाया दुहितुर वापि पुत्रे चात्मनि वा पुनः अत्र शङ्कां न पश्यामि तेन अशुद्धिर भविष्यति ॥ 6 ॥
अभिषङ्गाद अहं भीतॊ मिथ्याचारात परंतप सनुषार्थम उत्तरां राजन परतिगृह्णामि ते सुताम ॥ 7 ॥
सवस्रीयॊ वासुदेवस्य साक्षाद देव शिशुर यथा दयितश चक्रहस्तस्य बाल एवास्त्र कॊविदः ॥ 8 ॥
अभिमन्युर महाबाहुः पुत्रॊ मम विशां पतौ जामाता तव युक्तॊ वै भर्ता च दुहितुस तव ॥ 9 ॥
[विराट] उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनंजये य एवं धर्मनित्यश च जातज्ञानश च पाण्डवः ॥ 10 ॥
यत्कृत्यं मन्यसे पार्थ करियतां तदनन्तरम सर्वे कामाः समृद्धा मे संबन्धी यस्य मे ऽरजुनः ॥ 11 ॥
[वै] एवं बरुवति राजेन्द्रे कुन्तीपुत्रॊ युधिष्ठिरः अन्वजानात स संयॊगं समये मत्स्यपार्थयॊः ॥ 12 ॥
ततॊ मित्रेषु सर्वेषु वासुदेवे च भारत परेषयाम आस कौन्तेयॊ विराटश च महीपतिः ॥ 13 ॥
ततस तरयॊदशे वर्षे निवृत्ते पञ्च पाण्डवाः उपप्लव्ये विराटस्य समपद्यन्त सर्वशः ॥ 14 ॥
तस्मिन वसंश च बीभत्सुर आनिनाय जनार्दनम आनर्तेभ्यॊ ऽपि दाशार्हान अभिमन्युं च पाण्डवः ॥ 15 ॥
काशिराजश च शैब्यश च परीयमाणौ युधिष्ठिरे अक्षौहिणीभ्यां सहिताव आगतौ पृथिवीपते ॥ 16 ॥
अक्षौहिण्या च तेजस्वी यज्ञसेनॊ महाबलः दरौपद्याश च सुता वीराः शिखण्डी चापराजितः ॥ 17 ॥
धृष्टद्युम्नश च दुर्धर्षः सव शस्त्रभृतां वरः समस्ताक्षौहिणी पाला यज्वानॊ भूरिदक्षिणाः सर्वे शस्त्रास्त्रसंपन्नाः सर्वे शूरास तनुत्यजः ॥ 18 ॥
तान आगतान अभिप्रेक्ष्य मत्स्यॊ धर्मभृतां वरः परीतॊ ऽभवद दुहितरं दत्त्वा ताम अभिमन्यवे ॥ 19 ॥
ततः परयुपयातेषु पार्थिवेषु ततस ततः तत्रागमद वासुदेव वनमाली हलायुधः कृतवर्मा च हार्दिक्यॊ युयुधानश च सात्यकिः ॥ 20 ॥
अनाधृष्टिस तथाक्रूरः साम्बॊ निशठ एव च अभिमन्युम उपादाय सह मात्रा परंतपाः ॥ 21 ॥
इन्द्रसेनादयश चैव रथैस तैः सुसमाहितैः आययुः सहिताः सर्वे परिसंवत्सरॊषिताः ॥ 22 ॥
दशनागसहस्राणि हयानां च शतायुतम रथानाम अर्बुदं पूर्णं निखर्वं च पदातिनाम ॥ 23 ॥
वृष्ण्यन्धकाश च बहवॊ भॊजाश च परमौजसः अन्व्ययुर वृष्णिशार्दूलं वासुदेवं महाद्युतिम ॥ 24 ॥
पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम सत्रियॊ रत्नानि वासांसि पृथक्पृथग अनेकशः ततॊ विवाहॊ विधिवद ववृते मत्स्यपार्थयॊः ॥ 25 ॥
ततः शङ्खाश च भेर्यश च गॊमुखाडम्बरास तथा पार्थैः संयुज्यमानस्य नेदुर मत्स्यस्य वेश्मनि ॥ 26 ॥
उच्चावचान मृगाञ जघ्नुर मेध्यांश च शतशः पशून सुरा मैरेय पानानि परभूतान्य अभ्यहारयन ॥ 27 ॥
गायनाख्यान शीलाश च नटा वैतालिकास तथा सतुवन्तस तान उपातिष्ठन सूताश च सह मागधैः ॥ 28 ॥
सुदेष्णां च पुरस्कृत्य मत्स्यानां च वरस्त्रियः आजग्मुश चारुसर्वाङ्ग्यः सुमृष्टमणिकुण्डलाः ॥ 29 ॥
वर्णॊपपन्नास ता नार्यॊ रूपवत्यः सवलं कृताः सर्वाश चाभ्यभवत कृष्णा रूपेण यशसा शरिया ॥ 30 ॥
परिवार्यॊत्तरां तास तु राजपुत्रीम अलं कृताम सुताम इव महेन्द्रस्य पुरस्कृत्यॊपतस्थिरे ॥ 31 ॥
तां परत्यगृह्णात कौन्तेयः सुतस्यार्थे धनंजयः सौभद्रस्यानवद्याङ्गीं विराट तनयां तदा ॥ 32 ॥
तत्रातिष्ठन महाराजॊ रूपम इन्द्रस्य धारयन सनुषां तां परतिजग्राह कुन्तीपुत्रॊ युधिष्ठिरः ॥ 33 ॥
परतिगृह्य च तां पार्थः पुरस्कृत्य जनार्दनम विवाहं कारयाम आस सौभद्रस्य महात्मनः ॥ 34 ॥
तस्मै सप्त सहस्राणि हयानां वातरंहसाम दवे च नागशते मुख्ये परादाद बहुधनं तदा ॥ 35 ॥
कृते विवाहे तु तदा धर्मपुत्रॊ युधिष्ठिरः बराह्मणेभ्यॊ ददौ वित्तं यद उपाहरद अच्युतः ॥ 36 ॥
गॊसहस्राणि रत्नानि वस्त्राणि विविधानि च भूषणानि च मुख्यानि यानानि शयनानि च ॥ 37 ॥
तन महॊत्सव संकाशं हृष्टपुष्ट जनावृतम नगरं मत्स्यराजस्य शुशुभे भरतर्षभ ॥ 38 ॥
विराटपर्व · Virata Parva
अध्याय 67
Reach this point to mark the section finished.
Continue to अध्याय 1