[वै] सहदेवॊ ऽपि गॊपानां कृत्वा वेषम अनुत्तमम भाषां चैषां समास्थाय विराटम उपयाद अथ ॥ 1 ॥
तम आयान्तम अभिप्रेक्ष्य भराजमानं नरर्षभम समुपस्थाय वै राजा पप्रच्छ कुरुनन्दनम ॥ 2 ॥
कस्य वा तवं कुतॊ वा तवं किं वा तात चिकीर्षसि न हि मे दृष्टपूर्वस तवं तत्त्वं बरूहि नरर्षभ ॥ 3 ॥
स पराप्य राजानम अमित्रतापनस; ततॊ ऽबरवीन मेघमहौघनिःस्वनः वैश्यॊ ऽसमि नाम्नाहम अरिष्टनेमिर; गॊसंख्य आसं कुरुपुंगवानाम ॥ 4 ॥
वस्तुं तवयीच्छामि विशां वरिष्ठ; तान राजसिंहान न हि वेद्मि पार्थान न शक्यते जीवितुम अन्यकर्मणा; न च तवदन्यॊ मम रॊचते नृपः ॥ 5 ॥
[विराट] तवं बराह्मणॊ यदि वा कषत्रियॊ ऽसि; समुद्रनेमीश्वर रूपवान असि आचक्ष्व मे तत्त्वम अमित्रकर्शन; न वैश्यकर्म तवयि विद्यते समम ॥ 6 ॥
कस्यासि राज्ञॊ विषयाद इहागतः; किं चापि शिल्पं तव विद्यते कृतम कथं तवम अस्मासु निवत्स्यसे सदा; वदस्व किं चापि तवेह वेतनम ॥ 7 ॥
[सह] पञ्चानां पाण्डुपुत्राणां जयेष्ठॊ राजा युधिष्ठिरः तस्याष्ट शतसाहस्रा गवां वर्गाः शतं शताः ॥ 8 ॥
अपरे दशसाहस्रा दविस तावन्तस तथापरे तेषां गॊसंख्य आसं वै तन्तिपालेति मां विदुः ॥ 9 ॥
भूतं भव्यं भविष्यच च यच च संख्या गतं कव चित न मे ऽसत्य अविदितं किं चित समन्ताद दशयॊजनम ॥ 10 ॥
गुणाः सुविदिता हय आसन मम तस्य महात्मनः आसीच च स मया तुष्टः कुरुराजॊ युधिष्ठिरः ॥ 11 ॥
कषिप्रं हि गावॊ बहुला भवन्ति; न तासु रॊगॊ भवतीह कश चित तैस तैर उपायैर विदितं मयैतद; एतानि शिल्पानि मयि सथितानि ॥ 12 ॥
वृषभांश चापि जानामि राजन पूजित लक्षणान येषां मूत्रम उपाघ्राय अपि वन्ध्या परसूयते ॥ 13 ॥
[विराट] शतं सहस्राणि समाहितानि; वर्णस्य वर्णस्य विनिश्चिता गुणैः पशून सपालान भवते ददाम्य अहं; तवदाश्रया मे पशवॊ भवन्त्व इह ॥ 14 ॥
[वै] तथा स राज्ञॊ ऽविदितॊ विशां पते; उवास तत्रैव सुखं नरेश्वरः न चैनम अन्ये ऽपि विदुः कथं चन; परादाच च तस्मै भरणं यथेप्सितम ॥ 15 ॥
विराटपर्व · Virata Parva
अध्याय 9
Reach this point to mark the section finished.
Continue to अध्याय 10