धर्मDharmic Data

विराटपर्व · Virata Parva

अध्याय 8

  1. [वै] ततः केशान समुत्क्षिप्य वेल्लिताग्रान अनिन्दितान जुगूह दक्षिणे पार्श्वे मृदून असितलॊचना ॥ 1 ॥

  2. वासश च परिधायैकं कृष्णं सुमलिनं महत कृत्वा वेषं च सैरन्ध्र्याः कृष्णा वयचरद आर्तवत ॥ 2 ॥

  3. तां नराः परिधावन्तीं सत्रियश च समुपाद्रवन अपृच्छंश चैव तां दृष्ट्वा का तवं किं च चिकीर्षसि ॥ 3 ॥

  4. सा तान उवाच राजेन्द्र सैरन्ध्र्य अहम उपागता कर्म चेच्छामि वै कर्तुं तस्य यॊ मां पुपुक्षति ॥ 4 ॥

  5. तस्या रूपेण वेषेण शलक्ष्णया च तथा गिरा नाश्रद्दधत तां दासीम अन्नहेतॊर उपस्थिताम ॥ 5 ॥

  6. विराटस्य तु कैकेयी भार्या परमसंमता अवलॊकयन्ती ददृशे परासादाद दरुपदात्मजाम ॥ 6 ॥

  7. सा समीक्ष्य तथारूपाम अनाथाम एकवाससम समाहूयाब्रवीद भद्रे का तवं किं च चिकीर्षसि ॥ 7 ॥

  8. सा ताम उवाच राजेन्द्र सैरन्ध्र्य अहम उपागता कर्म चेच्छाम्य अहं कर्तुं तस्य यॊ मां पुपुक्षति ॥ 8 ॥

  9. [सुदेस्णा] नैवंरूपा भवन्त्य एवं यथा वदसि भामिनि परेषयन्ति च वै दासीर दासांश चैवं विधान बहून ॥ 9 ॥

  10. गूढगुल्फा संहतॊरुस तरिगम्भीरा षडुन्नता रक्ता पञ्चसु रक्तेषु हंसगद्गद भाषिणी ॥ 10 ॥

  11. सुकेशी सुस्तनी शयामा पीनश्रॊणिपयॊधरा तेन तेनैव संपन्ना काश्मीरीव तुरंगमा ॥ 11 ॥

  12. सवराल पक्ष्मनयना बिम्बौष्ठी तनुमध्यमा कम्बुग्रीवा गूढसिरा पूर्णचन्द्रनिभानना ॥ 12 ॥

  13. का तवं बरूहि यथा भद्रे नासि दासी कथं चन यक्षी वा यदि वा देवी गन्धर्वी यदि वाप्सराः ॥ 13 ॥

  14. अलम्बुसा मिश्रकेशी पुण्डरीकाथ मालिनी इन्द्राणी वारुणी वा तवं तवष्टुर धातुः परजापतेः देव्यॊ देवेषु विख्यातास तासां तवं कतमा शुभे ॥ 14 ॥

  15. [दरौ] नास्मि देवी न गन्धर्वी नासुरी न च राक्षसी सैरन्ध्री तु भुजिष्यास्मि सत्यम एतद बरवीमि ते ॥ 15 ॥

  16. केशाञ जानाम्य अहं कर्तुं पिंषे साधु विलेपनम गरथयिष्ये विचित्राश च सरजः परमशॊभनाः ॥ 16 ॥

  17. आराधयं सत्यभामां कृष्णस्य महिषीं परियाम कृष्णां च भार्यां पाण्डूनां कुरूणाम एकसुन्दरीम ॥ 17 ॥

  18. तत्र तत्र चराम्य एवं लभमाना सुशॊभनम वासांसि यावच च लभे तावत तावद रमे तथा ॥ 18 ॥

  19. मालिनीत्य एव मे नाम सवयं देवी चकार सा साहम अभ्यागता देवि सुदेष्णे तवन निवेशनम ॥ 19 ॥

  20. [सुदेस्णा] मूर्ध्नि तवां वासयेयं वै संशयॊ मे न विद्यते नॊ चेद इह तु राजा तवां गच्छेत सर्वेण चेतसा ॥ 20 ॥

  21. सत्रियॊ राजकुले पश्य याश चेमा मम वेश्मनि परसक्तास तवां निरीक्षन्ते पुमांसं कं न मॊहयेः ॥ 21 ॥

  22. वृक्षांश चावस्थितान पश्य य इमे मम वेश्मनि ते ऽपि तवां संनमन्तीव पुमांसं कं न मॊहयेः ॥ 22 ॥

  23. राजा विराटः सुश्रॊणि दृष्ट्वा वपुर अमानुषम विहाय मां वरारॊहे तवां गच्छेत सर्वचेतसा ॥ 23 ॥

  24. यं हि तवम अनवद्याङ्गि नरम आयतलॊचने परसक्तम अभिवीक्षेथाः स कामवशगॊ भवेत ॥ 24 ॥

  25. यश च तवां सततं पश्येत पुरुषश चारुहासिनि एवं सर्वानवद्याङ्गि स चानङ्ग वशॊ भवेत ॥ 25 ॥

  26. यथा कर्कटकी घर्भम आधत्ते मृत्युम आत्मनः तथाविधम अहं मन्ये वासं तव शुचिस्मिते ॥ 26 ॥

  27. [दरौ] नास्मि लभ्या विराटेन नचान्येन कथं चन गन्धर्वाः पतयॊ मह्यं युवानः पञ्च भामिनि ॥ 27 ॥

  28. पुत्रा गन्धर्वराजस्य महासत्त्वस्य कस्य चित रक्षन्ति ते च मां नित्यं दुःखाचारा तथा नव अहम ॥ 28 ॥

  29. यॊ मे न दद्याद उच्छिष्टं न च पादौ परधावयेत परीयेयुस तेन वासेन गन्धर्वाः पतयॊ मम ॥ 29 ॥

  30. यॊ हि मां पुरुषॊ गृध्येद यथान्याः पराकृतस्त्रियः ताम एव स ततॊ रात्रिं परविशेद अपरां तनुम ॥ 30 ॥

  31. न चाप्य अहं चालयितुं शक्या केन चिद अङ्गने दुख शीला हि गन्धर्वास ते च मे बलवत्तराः ॥ 31 ॥

  32. [सुदेस्णा] एवं तवां वासयिष्यामि यथा तवं नन्दिनीच्छसि न च पादौ न चॊच्छिष्टं सप्रक्ष्यसि तवं कथं चन ॥ 32 ॥

  33. [वै] एवं कृष्णा विराटस्य भार्यया परिसान्त्विता न चैनां वेद तत्रान्यस तत्त्वेन जनमेजय ॥ 33 ॥

Reach this point to mark the section finished.

Continue to अध्याय 9

Previous: अध्याय 7