धर्मDharmic Data

विराटपर्व · Virata Parva

अध्याय 10

  1. [वै] अथापरॊ ऽदृश्यत रूपसंपदा; सत्रीणाम अलंकारधरॊ बृहत पुमान पराकारवप्रे परतिमुच्य कुण्डले; दीर्घे च कम्बू परिहाटके शुभे ॥ 1 ॥

  2. बहूंश च दीर्घांश च विकीर्य मूर्धजान; महाभुजॊ वारणमत्तविक्रमः गतेन भूमिम अभिकम्पयंस तदा; विराटम आसाद्य सभा समीपतः ॥ 2 ॥

  3. तं परेक्ष्य राजॊपगतं सभा तले; सत्र परतिच्छन्नम अरिप्रमाथिनम विराजमानं परमेण वर्चसा; सुतं महेन्द्रस्य गजेन्द्रविक्रमम ॥ 3 ॥

  4. सर्वान अपृच्छच च समीपचारिणः; कुतॊ ऽयम आयाति न मे पुराश्रुतः न चैनम ऊचुर विदितं तदा नराः; स विस्मितं वाक्यम इदं नृपॊ ऽबरवीत ॥ 4 ॥

  5. सर्वॊपपन्नः पुरुषॊ मनॊरमः; शयामॊ युवा वारणयूथपॊपमाः विमुच्य कम्बू परिहाटके; शुभे विमुच्य वेणीम अपिनह्य कुण्डले ॥ 5 ॥

  6. शिखी सुकेशः परिधाय चान्यथा; भवस्व धन्वी कवची शरी तथा आरुह्य यानं परिधावतां भवान; सुतैः समॊ मे भव वा मया समः ॥ 6 ॥

  7. वृद्धॊ हय अहं वै परिहार कामः; सर्वान मत्स्यांस तरसा पालयस्व नैवंविधाः कलीब रूपा भवन्ति; कथं चनेति परतिभाति मे मनः ॥ 7 ॥

  8. [अर्जुन] गायामि नृत्याम्य अथ वादयामि; भद्रॊ ऽसमि नृत्ते कुशलॊ ऽसमि गीते तवम उत्तरायाः परिदत्स्व मां सवयं; भवामि देव्या नरदेव नर्तकः ॥ 8 ॥

  9. इदं तु रूपं मम येन किं नु तत; परकीर्तयित्वा भृशशॊकवर्धनम बृहन्नडां वै नरदेव विद्धि मां; सुतं सुतां वा पितृमातृवर्जिताम ॥ 9 ॥

  10. [विराट] ददामि ते हन्त वरं बृहन्नडे; सुतां च मे नर्तय याश च तादृशीः इदं तु ते कर्म समं न मे मतं; समुद्रनेमिं पृथिवीं तवम अर्हसि ॥ 10 ॥

  11. [वै] बृहन्नडां ताम अभिवीक्ष्य मत्स्यराट; कलासु नृत्ते च तथैव वादिते अपुंस्त्वम अप्य अस्य निशम्य च सथिरं; ततः कुमारी पुरम उत्ससर्ज तम ॥ 11 ॥

  12. स शिक्षयाम आस च गीतवादितं; सुतां विराटस्य धनंजयः परभुः सखीश च तस्याः परिचारिकास तथा; परियश च तासां स बभूव पाण्डवः ॥ 12 ॥

  13. तथा स सत्रेण धनंजयॊ ऽवसत; परियाणि कुर्वन सह ताभिर आत्मवान तथागतं तत्र न जज्ञिरे जना; बहिश्चरा वाप्य अथ वान्तरे चराः ॥ 13 ॥

Reach this point to mark the section finished.

Continue to अध्याय 11

Previous: अध्याय 9