[वै] अथापरॊ भीमबलः शरिया जवलन्न; उपाययौ सिंहविलास विक्रमः खजं च दर्वीं च करेण धारयन्न; असिं च कालाङ्गम अकॊशम अव्रणम ॥ 1 ॥
स सूदरूपः परमेण वर्चसा; रविर यथा लॊकम इमं परभासयन सुकृष्ण वासा गिरिराजसारवान; स मत्स्यराजं समुपेत्य तस्थिवान ॥ 2 ॥
तं परेक्ष्य राजा वरयन्न उपागतं; ततॊ ऽबरवीज जानपदान समागतान सिंहॊन्नतांसॊ ऽयम अतीव रूपवान; परदृश्यते कॊ नु नरर्षभॊ युवा ॥ 3 ॥
अदृष्टपूर्वः पुरुषॊ रविर यथा; वितर्कयन नास्य लभामि संपदम तथास्य चित्तं हय अपि संवितर्कयन; नरर्षभस्याद्य न यामि तत्त्वतः ॥ 4 ॥
ततॊ विराटं समुपेत्य पाण्डवः; सुदीनरूपॊ वचनं महामनाः उवाच सूदॊ ऽसमि नरेन्द्र बल्लवॊ; भजस्व मां वयञ्जन कारम उत्तमम ॥ 5 ॥
न सूदतां मानद शरद्दधामि ते; सहस्रनेत्र परतिमॊ हि दृश्यसे शरिया च रूपेण च विक्रमेण च; परभासि तातानवरॊ नरेष्व इह ॥ 6 ॥
नरेन्द्र सूदः परिचारकॊ ऽसमि ते; जानामि सूपान परथमेन केवलान आस्वादिता ये नृपते पुराभवन; युधिष्ठिरेणापि नृपेण सर्वशः ॥ 7 ॥
बलेन तुल्यश च न विद्यते मया; नियुद्ध शीलश च सदैव पार्थिव गजैश च सिंहैश च समेयिवान अहं; सदा करिष्यामि तवानघ परियम ॥ 8 ॥
ददामि ते हन्त वरं महानसे; तथा च कुर्याः कुशलं हि भाषसे न चैव मन्ये तव कर्म तत समं; समुद्रनेमिं पृथिवीं तवम अर्हसि ॥ 9 ॥
यथा हि कामस तव तत तथा कृतं; महानसे तवं भव मे पुरस्कृतः नराश च ये तत्र ममॊचिताः पुरा; भवस्व तेषाम अधिपॊ मया कृतः ॥ 10 ॥
तथा स भीमॊ विहितॊ महानसे; विराट राज्ञॊ दयितॊ ऽभवद दृढम उवास राजन न च तं पृथग्जनॊ; बुबॊध तत्रानुचरश च कश चन ॥ 11 ॥
विराटपर्व · Virata Parva
अध्याय 7
Reach this point to mark the section finished.
Continue to अध्याय 8