धर्मDharmic Data

विराटपर्व · Virata Parva

अध्याय 6

  1. [वै] ततॊ विराटं परथमं युधिष्ठिरॊ; राजा सभायाम उपविष्टुम आव्रजत वैडूर्य रूपान परतिमुच्य काञ्चनान; अक्षान स कक्षे परिगृह्य वाससा ॥ 1 ॥

  2. नराधिपॊ राष्ट्रपतिं यशस्विनं; महायशाः कौरव वंशवर्धनः महानुभावॊ नरराज सत्कृतॊ; दुरासदस तीक्ष्णविषॊ यथॊरगः ॥ 2 ॥

  3. बालेन रूपेण नरर्षभॊ महान; अथार्चि रूपेण यथामरस तथा महाभ्रजालैर इव संवृतॊ रविर; यथानलॊ भस्म वृतश च वीर्यवान ॥ 3 ॥

  4. तम आपतन्तं परसमीक्ष्य पाण्डवं; विराट राड इन्दुम इवाभ्रसंवृतम मन्त्रिद्विजान सूत मुखान विशस तथा; ये चापि के चित परिषत समासते पप्रच्छ कॊ ऽयं परथमं समेयिवान; अनेन यॊ ऽयं परसमीक्षते सभाम ॥ 4 ॥

  5. न तु दविजॊ ऽयं भविता नरॊत्तमः; पतिः पृथिव्या इति मे मनॊगतम न चास्य दासॊ न रथॊ न कुण्डले; समीपतॊ भराजति चायम इन्द्रवत ॥ 5 ॥

  6. शरीरलिङ्गैर उपसूचितॊ हय अयं; मूर्धाभिषिक्तॊ ऽयम इतीव मानसम समीपम आयाति च मे गतव्यथॊ; यथा गजस तामरसीं मदॊत्कटः ॥ 6 ॥

  7. वितर्कयन्तं तु नरर्षभस तदा; यिधिष्ठिरॊ ऽभयेत्य विराटम अब्रवीत सम्राड विजानात्व इह जीवितार्थिनं; विनष्ट सर्वस्वम उपागतं दविजम ॥ 7 ॥

  8. इहाहम इच्छामि तवानघान्तिके; वस्तुं यथा कामचरस तथा विभॊ तम अब्रवीत सवागतम इत्य अनन्तरं; राजा परहृष्टः परतिसंगृहाण च ॥ 8 ॥

  9. कामेन ताताभिवदाम्य अहं तवां; कस्यासि राज्ञॊ विषयाद इहागतः गॊत्रं च नामापि च शंस तत्त्वतः; किं चापि शिल्पं तव विद्यते कृतम ॥ 9 ॥

  10. युधिष्ठिरस्यासम अहं पुरा सखा; वैयाघ्रपद्यः पुनर अस्मि बराह्मणः अक्षान परवप्तुं कुशलॊ ऽसमि देविता; कङ्केति नाम्नास्मि विराट विश्रुतः ॥ 10 ॥

  11. ददामि ते हन्त वरं यम इच्छसि; परशाधि मत्स्यान वशगॊ हय अहं तव परिया हि धूर्ता मम देविनः सदा; भवांश च देवॊपम राज्यम अर्हति ॥ 11 ॥

  12. आप्तॊ विवादः परमॊ विशां पते; न विद्यते किं चन मत्स्यहीनतः न मे जितः कश चन धारयेद धनं; वरॊ ममैषॊ ऽसतु तव परसादतः ॥ 12 ॥

  13. हन्याम अवध्यं यदि ते ऽपरियं चरेत; परव्राजयेयं विषयाद दविजांस तथा शृण्वन्तु मे जानपदाः समागताः; कङ्कॊ यथाहं विषये परभुस तथा ॥ 13 ॥

  14. समानयानॊ भवितासि मे सखा; परभूतवस्त्रॊ बहु पानभॊजनः पश्येस तवम अन्तश च बहिश च सर्वदा; कृतं च ते दवारम अपावृतं मया ॥ 14 ॥

  15. ये तवानुवादेयुर अवृत्ति कर्शिता; बरूयाश च तेषां वचनेन मे सदा दास्यामि सर्वं तद अहं न संशयॊ; न ते भयं विद्यति संनिधौ मम ॥ 15 ॥

  16. एवं स लब्ध्वा तु वरं समागमं; विराट राजेन नरर्षभस तदा उवास वीरः परमार्चितः सुखी; न चापि कश चिच चरितं बुबॊध तत ॥ 16 ॥

Reach this point to mark the section finished.

Continue to अध्याय 7

Previous: अध्याय 5