धर्मDharmic Data

विराटपर्व · Virata Parva

अध्याय 66

  1. [विराट] यद्य एष राजा कौरव्यः कुन्तीपुत्रॊ युधिष्ठिरः कतमॊ ऽसयार्जुनॊ भराता भीमश च कतमॊ बली ॥ 1 ॥

  2. नकुलः सहदेवॊ वा दरौपदी वा यशस्विनी यदा दयूते जिताः पार्था न परज्ञायन्त ते कव चित ॥ 2 ॥

  3. [अर्ज] य एष बल्लवॊ बरूते सूदस तव नराधिप एष भीमॊ महाबाहुर भीमवेगपराक्रमः ॥ 3 ॥

  4. एष करॊधवशान हत्वा पर्वते गन्धमादने सौगन्धिकानि दिव्यानि कृष्णार्थे समुपाहरत ॥ 4 ॥

  5. गङ्घर्व एष वै हन्ता कीचकानां दुरात्मनाम वयाघ्रान ऋक्षान वराहांश च हतवान सत्री पुरे तव ॥ 5 ॥

  6. यश चासीद अश्वबन्धस ते नकुलॊ ऽयं परंतपः गॊसंख्यः सहदेवश च माद्रीपुत्रौ महारथौ ॥ 6 ॥

  7. शृङ्गारवेषाभरणौ रूपवन्तौ यशस्विनौ नाना रथसहस्राणां समर्थौ पुरुषर्षभौ ॥ 7 ॥

  8. एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी सैरन्ध्री दरौपदी राजन यत्कृते कीचका हताः ॥ 8 ॥

  9. अर्जुनॊ ऽहं महाराज वयक्तं ते शरॊत्रम आगतः भीमाद अवरजः पार्थॊ यमाभ्यां चापि पूर्वजः ॥ 9 ॥

  10. उषिताः सम महाराज सुखं तव निवेशने अज्ञातवासम उषिता गर्भवास इव परजाः ॥ 10 ॥

  11. [वै] यदार्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः तदार्जुनस्य वैराटिः कथयाम आस विक्रमम ॥ 11 ॥

  12. अयं स दविषतां मध्ये मृगाणाम इव केसरी अचरद रथवृन्देषु निघ्नंस तेषां वरान वरान ॥ 12 ॥

  13. अनेन विद्धॊ मातङ्गॊ महान एक्केषुणा हतः हिरण्यकक्ष्यः संग्रामे दन्ताभ्याम अगमन महीम ॥ 13 ॥

  14. अनेन विजिता गावॊ जिताश च कुरवॊ युधि अस्य शङ्खप्रणादेन कर्णौ मे बधिरी कृतौ ॥ 14 ॥

  15. तस्य तद वचनं शरुत्वा मत्स्यराजः परतापवान उत्तरं परत्युवाचेदम अभिपन्नॊ युधिष्ठिरे ॥ 15 ॥

  16. परसादनं पाण्डवस्य पराप्तकालं हि रॊचये उत्तरां च परयच्छामि पार्थाय यदि ते मतम ॥ 16 ॥

  17. [उत्तर] अर्च्याः पूज्याश च मान्याश च पराप्तकालं च मे मतम पूज्यन्तां पूजनार्हाश च महाभागाश च पाण्डवाः ॥ 17 ॥

  18. [विराट] अहं खल्व अपि संग्रामे शत्रूणां वशम आगतः मॊक्षितॊ भीमसेनेन गावश च विजितास तथा ॥ 18 ॥

  19. एतेषां बाहुवीर्येण यद अस्माकं जयॊ मृधे वयं सर्वे सहामात्याः कुन्तीपुत्रं युधिष्ठिरम परसादयामॊ भद्रं ते सानुजं पाण्डवर्षभम ॥ 19 ॥

  20. यद अस्माभिर अजानद भिः किं चिद उक्तॊ नराधिपः कषन्तुम अर्हति तत सर्वं धर्मात्मा हय एष पाण्डवः ॥ 20 ॥

  21. [वै] ततॊ विराटः परमाभितुष्टः; समेत्य राज्ञा समयं चकार राज्यं च सर्वं विससर्ज तस्मै; स दण्डकॊशं स पुरं महात्मा ॥ 21 ॥

  22. पाण्डवांश च ततः सर्वान मत्स्यराजः परतापवान धनंजयं पुरस्कृत्य दिष्ट्या दिष्ट्येति चाब्रचीत ॥ 22 ॥

  23. समुपाघ्राय मूर्धानं संश्लिष्य च पुनः पुनः युधिष्ठिरं च भीमं च माद्रीपुत्रौ च पाण्डवौ ॥ 23 ॥

  24. नातृप्यद दर्शने तेषां विराटॊ वाहिनीपतिः संप्रीयमाणॊ राजानं युधिष्ठिरम अथाब्रवीत ॥ 24 ॥

  25. दिष्ट्या भवन्तः संप्राप्ताः सर्वे कुशलिनॊ वनात दिष्ट्या च पारितं कृच्छ्रम अज्ञातं वै दुरात्मभिः ॥ 25 ॥

  26. इदं च राज्यं नः पार्था यच चान्यद वसु किं चन परतिगृह्णन्तु सत सर्वं कौन्तेया अविशङ्कया ॥ 26 ॥

  27. उत्तरां परतिगृह्णातु सव्यसाची धनंजयः अयं हय औपयिकॊ भर्ता तस्याः पुरुषसत्तमः ॥ 27 ॥

  28. एवम उक्तॊ धर्मराजः पार्थम ऐक्षद धनंजयम ईक्षितश चार्जुनॊ भरात्रा मत्स्यं वचनम अब्रवीत ॥ 28 ॥

  29. परतिगृह्णाम्य अहं राजन सनुषां दुहितरं तव युक्तश चावां हि संबन्धॊ मत्स्यभारतसत्तमौ ॥ 29 ॥

Reach this point to mark the section finished.

Continue to अध्याय 67

Previous: अध्याय 65