धर्मDharmic Data

विराटपर्व · Virata Parva

अध्याय 65

  1. [वै] ततस तृतीये दिवसे भरातरः पञ्च पाण्डवाः सनाताः शुक्लाम्बर धराः समये चरितव्रताः ॥ 1 ॥

  2. युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः अभिपद्मा यथा नागा भराजमाना महारथाः ॥ 2 ॥

  3. विराटस्य सभां गत्वा भूमिपालासनेष्व अथ निषेदुः पावकप्रख्याः सर्वे धिष्ण्येष्व इवाग्नयः ॥ 3 ॥

  4. तेषु तत्रॊपविष्टेषु विराटः पृथिवीपतिः आजगाम सभां कर्तुं राजकार्याणि सर्वशः ॥ 4 ॥

  5. शरीमतः पाण्डवान दृष्ट्वा जवलतः पावकान इव अथ मत्स्यॊ ऽबरवीत कङ्कं देवरूपम अवस्थितम मरुद्गणैर उपासीनं तरिदशानाम इवेश्वरम ॥ 5 ॥

  6. स किलाक्षाति वापस तवं सभास्तारॊ मया कृतः अथ राजासने कस्माद उपविष्टॊ ऽसय अलं कृतः ॥ 6 ॥

  7. परिहासेप्सया वाक्यं विराटस्य निशम्य त समयमानॊ ऽरजुनॊ राजन्न इदं वचनम अब्रवीत ॥ 7 ॥

  8. इन्द्रस्याप्य आसनं राजन्न अयम आरॊढुम अर्हति बरह्मण्यः शुतवांस तयागी यज्ञशीलॊ दृढव्रतः ॥ 8 ॥

  9. अयं कुरूणाम ऋषभः कुन्तीपुत्रॊ युधिष्ठिरः अस्य कीर्तिः सथिता लॊके सूर्यस्येवॊद्यतः परभा ॥ 9 ॥

  10. संसरन्ति दिशः सर्वा यशसॊ ऽसय गभस्तयः उदितस्येव सूर्यस्य तेजसॊ ऽनु गभस्तयः ॥ 10 ॥

  11. एनं दशसहस्राणि कुञ्जराणां तरस्विनाम अन्वयुः पृष्ठतॊ राजन यावद अध्यावसत कुरून ॥ 11 ॥

  12. तरिंशद एनं सहस्राणि रथाः काञ्चनमालिनः सदश्वैर उपसंपन्नाः पृत्ठतॊ ऽनुययुः सदा ॥ 12 ॥

  13. एनम अष्ट शताः सूताः सुमृष्टमणिकुण्डलाः अस्तुवन मागधैर सार्धं पुरा शक्रम इवर्षयः ॥ 13 ॥

  14. एनं नित्यम उपासन्द अकुरवः किंकरा यथा सर्वे च राजन राजानॊ धनेश्वरम इवामराः ॥ 14 ॥

  15. एष सर्वान महीपालान करम आहारयत तदा वैश्यान इव महाराज विवशान सववशान अपि ॥ 15 ॥

  16. अष्टाशीति सहस्राणि सनातकानां महात्मनाम उपजीवन्ति राजानम एनं सुचरितव्रतम ॥ 16 ॥

  17. एष वृद्धान अनाथांश च वयङ्गान पङ्गूंश च मानवान पुत्रवत पालयाम आस परजा धर्मेण चाभिभॊ ॥ 17 ॥

  18. एष धर्मे दमे चैव करॊधे चापि यतव्रतः महाप्रसाद बरह्मण्यः सत्यवादी च पार्थिवः ॥ 18 ॥

  19. शरीप्रतापेन चैतस्य तप्यते स सुयॊधनः सगणः सह कर्णेन सौबलेनापि वा विभुः ॥ 19 ॥

  20. न शक्यन्ते हय अस्य अगुणाः परसंख्यातुं नरेश्वर एष धर्मपरॊ नित्यम आनृशंस्यश च पाण्डवः ॥ 20 ॥

  21. एवं युक्तॊ महाराजः पाण्डवः पार्थिवर्षभः कथं नार्हति राजार्हम आसनं पृथिवीपतिः ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 66

Previous: अध्याय 64