[वै] ततॊ राज्ञः सुतॊ जयेष्ठः पराविशत पृथिवीं जयः सॊ ऽभिवाद्य पितुः पादौ धर्मराजम अपश्यत ॥ 1 ॥
स तं रुधिरसंसिक्तम अनेकाग्रम अनागसम भूमाव आसीनम एकान्ते सैरन्ध्र्या समुपस्थितम ॥ 2 ॥
ततः पप्रच्छ पितरं तवरमाण इवॊत्तरः केनायं ताडितॊ राजन केन पापम इदं कृतम ॥ 3 ॥
[विराट] मयायं ताडितॊ जिह्मॊ न चाप्य एतावद अर्हति परशस्यमाने यः शूरे तवयि षण्ढं परशंसति ॥ 4 ॥
[उत्तर] अकार्यं ते कृतं राजन कषिप्रम एव परसाद्यताम मा तवा बरह्म विषं घॊरं स मूलम अपि निर्दहेत ॥ 5 ॥
[वै] सपुत्रस्य वचः शरुत्वा विराटॊ राष्ट्रवर्धनः कषमयाम आस कौन्तेयं भस्म छन्नम इवानलम ॥ 6 ॥
कषमयन्तं तु राजानं पाण्डवः परत्यभाषत चिरं कषान्तम इदं राजन न मन्युर विद्यते मम ॥ 7 ॥
यदि हय एतत पतेद भूमौ रुधिरं मम नस्ततः सराष्ट्रस तवं महाराज विनश्येथा न संशयः ॥ 8 ॥
न दूषयामि ते राजन यच च हन्याद अदूषकम बलवन्तं महाराज कषिप्रं दारुणम आप्नुयात ॥ 9 ॥
शॊणिते तु वयतिक्रान्ते परविवेश बृहन्नडा अभिवाद्य विराटं च कङ्कं चाप्य उपतिष्ठत ॥ 10 ॥
कषमयित्वा तु कौरव्यं रणाद उत्तरम आगतम परशशंस ततॊ मत्स्यः शृण्वतः सव्यसाचिनः ॥ 11 ॥
तवया दायादवान अस्मि कैकेयीनन्दिवर्धन तवया मे सदृशः पुत्रॊ न भूतॊ न भविष्यति ॥ 12 ॥
पदं पदसहस्रेण यश चरन नापराध्नुयात तेन कर्णेन ते तात कथम आसीत समागमः ॥ 13 ॥
मनुष्यलॊके सकले यस्य तुल्यॊ न विद्यते यः समुद्र इवाक्षॊभ्यः कालाग्निर इव दुःसहः तेन भीष्मेण ते तात कथम आसीत समागमः ॥ 14 ॥
आचार्यॊ वृष्णिवीराणां पाण्डवानां च यॊ दविजः सर्वक्षत्रस्य चाचार्यः सर्वशस्त भृतां वरः तेन दरॊणेन ते तात कथम आसीत समागमः ॥ 15 ॥
आचार्य पुत्रॊ यः शूरः सर्वशस्त भृताम अपि अश्वत्थामेति विख्यातः कथं तेन समागमः ॥ 16 ॥
रणे यं परेक्ष्य सीदन्ति हृतस्वा वणिजॊ यथा कृपेण तेन ते तात कथम आसीत समागमः ॥ 17 ॥
पर्वतं यॊ ऽभिविध्येत राजपुत्रॊ महेषुभिः दुर्यॊधनेन ते तात कथम आसीत समागमः ॥ 18 ॥
[उत्तर] न मया निर्जिता गावॊ न मया निर्जिताः परे कृतं तु कर्म तत सर्वं देवपुत्रेण केन चित ॥ 19 ॥
स हि भीतं दरवन्तं मां देवपुत्रॊ नयवारयत स चातिष्ठद रथॊपस्थे वज्रहस्तनिभॊ युवा ॥ 20 ॥
तेन ता निर्जिता गावस तेन ते कुरवॊ जिताः तस्य तत कर्म वीरस्य न मया तात तत कृतम ॥ 21 ॥
स हि शारद्वतं दरॊणं दरॊणपुत्रं च वीर्यवान सूतपुत्रं च भीष्मं च चकार विमुखाञ शरैः ॥ 22 ॥
दुर्यॊधनं च समरे स नागम इव यूथपम परभग्नम अब्रवीद भीतं राजपुत्रं महाबलम ॥ 23 ॥
न हास्तिनपुरे तराणं तव पश्यामि किं चन वयायामेन परीप्सस्व जीवितं कौरवात्म ज ॥ 24 ॥
न मॊक्ष्यसे पलायंस तवं राजन युद्धे मनः कुरु पृथिवीं भॊक्ष्यसे जित्वा हतॊ वा सवर्गम आप्स्यसि ॥ 25 ॥
स निवृत्तॊ नरव्याघ्रॊ मुञ्चन वज्रनिभाञ शरान सचिवैः संवृतॊ राजा रथे नाग इव शवसन ॥ 26 ॥
तत्र मे रॊमहर्षॊ ऽभूद ऊरुस्तम्भश च मारिष यद अभ्रघनसंकाशम अनीकं वयधमच छरैः ॥ 27 ॥
तत परणुद्य रथानीकं सिंहसंहननॊ युवा कुरूंस तान परहसन राजन वासांस्य अपहरद बली ॥ 28 ॥
एकेन तेन वीरेण षड रथाः परिवारिताः शार्दूलेनेव मत्तेन मृगास तृणचरा वने ॥ 29 ॥
[विराट] कव स वीरॊ महाबाहुर देवपुत्रॊ महायशाः यॊ मे धनम अवाजैषीत कुरुभिर गरस्तम आहवे ॥ 30 ॥
इच्छाम इतम अहं दरष्टुम अर्चितुं च महाबलम येन मे तवं च गावश च रक्षिता देव सूनुना ॥ 31 ॥
[उत्तर] अन्तर्धानं गतस तात देवपुत्रः परतापवान स तु शवॊ वा परष्वॊ वा मन्ये परादुर भविष्यति ॥ 32 ॥
[वै] एवम आख्यायमानं तु छन्नं सत्रेण पाण्डवम वसन्तं तत्र नाज्ञासीद विराटः पार्थम अर्जुनम ॥ 33 ॥
ततः पार्थॊ ऽभयनुज्ञातॊ विराटेन महात्मना परददौ तानिवासांसि विराट दुहितुः सवयम ॥ 34 ॥
उत्तरा तु महार्हाणि विविधानि तनूनि च परतिगृह्याभवत परीता तनि वासांसि भामिनी ॥ 35 ॥
मन्त्रयित्वा तु कौन्तेय उत्तरेण रहस तदा इतिकर्तव्यतां सर्वां राजन्य अथ युधिष्ठिरे ॥ 36 ॥
ततस तथा तद वयदधाद यथावत पुरुषर्षभ सह पुत्रेण मत्स्यस्य परहृष्टॊ भरतर्षभः ॥ 37 ॥
विराटपर्व · Virata Parva
अध्याय 64
Reach this point to mark the section finished.
Continue to अध्याय 65