धर्मDharmic Data

विराटपर्व · Virata Parva

अध्याय 63

  1. [वै] अवजित्य धनं चापि विराटॊ वाहिनीपतिः पराविशन नगरं हृष्टश चतुर्भिः सह पाण्डवैः ॥ 1 ॥

  2. जित्वा तरिगर्तान संग्रामे गाश चैवादाय केवलाः अशॊभत महाराजः सह पार्थैः शरिया वृतः ॥ 2 ॥

  3. तम आसनगतं वीरं सुहृदां परीतिवर्धनम उपतस्थुः परकृतयः समस्ता बराह्मणैः सह ॥ 3 ॥

  4. सभाजितः स सैन्यस तु परतिनन्द्याथ मत्स्यराज विसर्जयाम आस तदा दविजांश च परकृतीस तथा ॥ 4 ॥

  5. ततः स राजा मत्स्यानां विराटॊ वाहिनीपतिः उत्तरं परिपप्रच्छ कव यात इति चाब्रवीत ॥ 5 ॥

  6. आचख्युस तस्य संहृष्टाः सत्रियः कन्याश च वेश्मनि अन्तःपुर चराश चैव कुरुभिर गॊधनं हृतम ॥ 6 ॥

  7. विजेतुम अभिसंरब्ध एक एवाति साहसात बृहन्नडा सहायश च निर्यातः पृथिवीं जयः ॥ 7 ॥

  8. उपयातान अति रथान दरॊणं शांतनवं कृपम कर्णं दुर्यॊधनं चैव दरॊणपुत्रं च षड रथान ॥ 8 ॥

  9. राजा विराटॊ ऽथ भृशं परतप्तः; शरुत्वा सुतं हय एकरथेन यातम बृहन्नडा सारथिम आजिवर्धनं; परॊवाच सर्वान अथ मन्त्रिमुख्यान ॥ 9 ॥

  10. सर्वथा कुरवस ते हि ये चान्ये वसुधाधिपाः तरिगर्तान निर्जिताञ शरुत्वा न सथास्यन्ति कदा चन ॥ 10 ॥

  11. तस्माद गच्छन्तु मे यॊधा बलेण महता वृताः उत्तरस्य परीप्सार्थं ये तरिगर्तैर अविक्षताः ॥ 11 ॥

  12. हयांश च नागांश च रथांश च शीघ्रं; पदातिसंघांश च ततः परवीरान परस्थापयाम आस सुतस्य हेतॊर; विचित्रशस्त्राभरणॊपपन्नान ॥ 12 ॥

  13. एवं स राजा मत्स्यानां विराटॊ ऽकषौहिणीपतिः वयादिदेशाथ तां कषिप्रं वाहिनीं चतुरग्निणीम ॥ 13 ॥

  14. कुमारम आशु जानीत यदि जीवति वा न वा यस्य यन्ता गतः षण्ढॊ मन्ये ऽहं न स जीवति ॥ 14 ॥

  15. तम अब्रवीद धर्मराजः परहस्य; विराटम आर्तं कुरुभिः परतप्तम बृहन्नडा सारथिश चेन नरेन्द्र; परे न नेष्यन्ति तवाद्य गास ताः ॥ 15 ॥

  16. सर्वान मही पान सहितान कुरूंश च; तथैव देवासुरयक्षनागान अलं विजेतुं समरे सुतस ते; सवनुष्ठितः सारथिना हि तेन ॥ 16 ॥

  17. अथॊत्तरेण परहिता दूतास ते शीघ्रगामिनः विराटनगरं पराप्य जयम आवेदयंस तदा ॥ 17 ॥

  18. राज्ञस ततः समाचख्यौ मन्त्री विजयम उत्तमम पराजयं कुरूणां चाप्य उपायान्तं तथॊत्तरम ॥ 18 ॥

  19. सर्वा विनिर्जिता गावः कुरवश च पराजिताः उत्तरः सह सूतेन कुशली च परंतप ॥ 19 ॥

  20. [कन्क] दिष्ट्या ते निर्जिता गावः कुरवश च पराजिताः दिष्ट्या ते जीवितः पुत्रः शरूयते पार्थिवर्षभ ॥ 20 ॥

  21. नाद्भुतं तव एव मन्ये ऽहं यत ते पुत्रॊ ऽजयत कुरून धरुव एव जयस तस्य यस्य यन्ता बृहन्नडा ॥ 21 ॥

  22. [वै] ततॊ विराटॊ नृपतिः संप्रहृष्टतनू रुहः शरुत्वा तु विजयं तस्य कुमारस्यामितौजसः आछादयित्वा दूतांस तान मन्त्रिणः सॊ ऽभयचॊदयत ॥ 22 ॥

  23. राजमार्गाः करियन्तां मे पताकाभिर अलं कृताः पुष्पॊपहारैर अर्च्यन्तां देवताश चापि सर्वशः ॥ 23 ॥

  24. कुमारा यॊधमुख्याश च गणिकाश च सवलं कृताः वादित्राणि च सर्वाणि परत्युद्यान्तु सुतं मम ॥ 24 ॥

  25. घण्डा पणवकः शीघ्रं मत्तम आरुह्य वारणम शृङ्गाटकेषु सर्वेषु आख्यातु विजयं मम ॥ 25 ॥

  26. उत्तरा च कुमारीभिर बह्वीभिर अभिसंवृता शृङ्गारवेषाभरणा परत्युद्यातु बृहन्नडाम ॥ 26 ॥

  27. शरुत्वा तु तद वचनं पार्थिवस्य; सर्वे पुनः सवस्तिकपाणयश च भेर्यश च तूर्याणि च वारिजाश च; वेषैः परार्ध्यैः परमदाः शुभाश च ॥ 27 ॥

  28. तथैव सूताः सह मागधैश च; नन्दी वाद्याः परणवास तूर्यवाद्याः पुराद विराटस्य महाबलस्य; परत्युद्ययुः पुत्रम अनन्तवीर्यम ॥ 28 ॥

  29. परस्थाप्य सेनां कन्याश च गणिकाश च सवलंकृताः मत्स्यराजॊ महाप्राज्ञः परहृष्ट इदम अब्रवीत अक्षान आहर सैरन्धिर कङ्कद्यूतं परवर्तताम ॥ 29 ॥

  30. तं तथा वादिनं दृष्ट्वा पाण्डवः परत्यभाषत न देवितव्यं हृष्टेन कितवेनेति नः शरुतम ॥ 30 ॥

  31. न तवाम अद्य मुदा युक्तम अहं देवितुम उत्सहे परियं तु ते चिकीर्षामि वर्ततां यदि मन्यसे ॥ 31 ॥

  32. [विराट] सत्रियॊ गावॊ हिरण्यं च यच चान्यद वसु किं चन न मे किं चित तवया रक्ष्यम अन्तरेणापि देवितुम ॥ 32 ॥

  33. [कन्क] किं ते दयूतेन राजेन्द्र बहुदॊषेण मानद देवने बहवॊ दॊषास तस्मात तत्परिवर्जयेत ॥ 33 ॥

  34. शरुतस ते यदि वा दृष्टः पाण्डवॊ वै युधिष्ठिरः स राज्यं सुमहत सफीतं भरातॄंश च तरिदशॊपमान ॥ 34 ॥

  35. दयूते हारितवान सर्वं तस्माद दयूतं न रॊचये अथ वा मन्यसे राजन दीव्याव यदि रॊचते ॥ 35 ॥

  36. [वै] परवर्तमाने दयूते तु मत्स्यः पाण्डवम अब्रवीत पश्य पुत्रेण मे युद्धे तादृशाः कुरवॊ जिताः ॥ 36 ॥

  37. ततॊ ऽबरवीन मत्स्यराजं धर्मपुत्रॊ युधिष्ठिरः बृहन्नडा यस्य यन्ता कथं स न विजेष्यति ॥ 37 ॥

  38. इत्य उक्तः कुपितॊ राजा मत्स्यः पाण्डवम अब्रवीत समपुत्रेण मे षण्ढं बरह्म बन्धॊ परशंसति ॥ 38 ॥

  39. वाच्यावाच्यं न जानीषे नूनं माम अवमन्यसे भीष्मद्रॊणमुखान सर्वान कस्मान न स विजेष्यति ॥ 39 ॥

  40. वयस्यत्वात तु ते बरह्मन्न अपराधम इमं कषमे नेदृशं ते पुनर वाच्यं यदि जीवितुम इच्छसि ॥ 40 ॥

  41. [युधिस्ठिर] यत्र दरॊणस तथा भीष्मॊ दरौणिर वैकर्तनः कृपः दुर्यॊधनश च राजेन्द्र तथान्ये च महारथाः ॥ 41 ॥

  42. मरुद्गणैः परिवृतः साक्षाद अपि शतक्रतुः कॊ ऽनयॊ बृहन्नडायास तान परतियुध्येत संगतान ॥ 42 ॥

  43. [विराट] बहुशः परतिषिद्धॊ ऽसि न च वाचं नियच्छसि नियन्ता चेन न विद्येत न कश चिद धर्मम आचरेत ॥ 43 ॥

  44. [वै] ततः परकुपितॊ राजा तम अक्षेणाहनद भृशम मुखे युधिष्ठिरं कॊपान नैवम इत्य एव भर्त्सयन ॥ 44 ॥

  45. बलवत परतिविद्धस्य नस्तः शॊणितम आगमत तद अप्राप्तं महीं पार्थः पाणिभ्यां परत्यगृह्णत ॥ 45 ॥

  46. अवैक्षत च धर्मात्मा दरौपदीं पार्श्वतः सथिताम सा वेद तम अभिप्रायं भर्तुश चित्तवशानुगा ॥ 46 ॥

  47. पूरयित्वा च सौवर्णं पात्रं कांस्यम अनिन्दिता तच छॊणितं परत्यगृह्णाद यत परसुस्राव पाणवात ॥ 47 ॥

  48. अथॊत्तरः शुभैर गन्धैर माल्यैश च विविधैस तथा अवकीर्यमाणः संहृष्टॊ नगरं सवैरम आगमत ॥ 48 ॥

  49. सभाज्यमानः पौरैश च सत्रीभिर जानपदैस तथा आसाद्य भवनद्वारं पित्रे स परत्यहारयत ॥ 49 ॥

  50. ततॊ दवार सथः परविश्यैव विराटम इदम अब्रवीत बृहन नडा सहायस ते पुत्रॊ दवार्य उत्तरः सथितः ॥ 50 ॥

  51. ततॊ हृष्टॊ मत्स्यराजः कषत्तारम इदम अब्रवीत परवेश्यताम उभौ तूर्णं दर्शनेप्सुर अहं तयॊः ॥ 51 ॥

  52. कषत्तारं कुरुराजस तु शनैः कर्ण उपाजपत उत्तरः परविशत्व एकॊ न परेवेश्या बृहन्नडा ॥ 52 ॥

  53. एतस्य हि महाबाहॊ वरतम एतत समाहितम यॊ ममाङ्गे वरणं कुर्याच छॊणितं वापि दर्शयेत अन्यत्र संग्रामगनान न स जीवेद असंशयम ॥ 53 ॥

  54. न मृष्याद भृशसंक्रुद्धॊ मां दृष्ट्वैव स शॊणितम विराटम इह सामात्यं हन्यात सबलवाहनम ॥ 54 ॥

Reach this point to mark the section finished.

Continue to अध्याय 64

Previous: अध्याय 62