[वै] ते वीरा बद्धनिस्त्रिंशास ततायुध कलापिनः बद्धगॊधाङ्गुलि तराणाः कालिन्दीम अभितॊ ययुः ॥ 1 ॥
ततस ते दक्षिणं तीरम अन्वगच्छन पदातयः वसन्तॊ गिरिदुर्गेषु वनदुर्गेषु धन्विनः ॥ 2 ॥
विध्यन्तॊ मृगजातानि महेष्वासा महाबलाः उत्तरेण दशार्णांस ते पाञ्चालान दक्षिणेन तु ॥ 3 ॥
अन्तरेण यकृल्लॊमाञ शूरसेनांश च पाण्डवाः लुब्धा बरुवाणा मत्स्यस्य विषयं पराविशन वनात ॥ 4 ॥
ततॊ जनपदं पराप्य कृष्णा राजानम अब्रवीत पश्यैकपद्यॊ दृश्यन्ते कषेत्राणि विविधानि च ॥ 5 ॥
वयक्तं दूरे विराटस्य राजधानी भविष्यति वसामेह परां रात्रिं बलवान मे परिश्रमः ॥ 6 ॥
धनंजय समुद्यम्य पाञ्चालीं वह भारत राजधान्यां निवत्स्यामॊ विमुक्ताश च वनादितः ॥ 7 ॥
ताम आदायार्जुनस तूर्णं दरौपदीं गजराड इव संप्राप्य नगराभ्याशम अवतारयद अर्जुनः ॥ 8 ॥
स राजधानीं संप्राप्य कौन्तेयॊ ऽरजुनम अब्रवीत कवायुधानि समासज्य परवेश्यामः पुरं वयम ॥ 9 ॥
सायुधाश च वयं तात परवेक्ष्यामः पुरं यति समुद्वेगं जनस्यास्य करिष्यामॊ न संशयः ॥ 10 ॥
ततॊ दवादश वर्षाणि परवेष्टव्यं वनं पुनः एकस्मिन्न अपि विज्ञाते परतिज्ञातं हि नस तथा ॥ 11 ॥
इयं कूटे मनुष्येन्द्र गहहा महती शमी भीम शाखा दुरारॊहा शमशानस्य समीपतः ॥ 12 ॥
न चापि विद्यते कश चिन मनुष्य इह पार्थिव उत्पथे हि वने जाता मृगव्यालनिषेविते ॥ 13 ॥
समासज्यायुधान्य अस्यां गच्छामॊ नगरं परति एवम अत्र यथाजॊषं विहरिष्याम भारत ॥ 14 ॥
एवम उक्त्वा स राजानं धर्मात्मानं युधिष्ठिरम परचक्रमे निधानाय शस्त्राणां भरतर्षभ ॥ 15 ॥
येन देवान मनुष्यांश च सर्पांश चैकरथॊ ऽजयत सफीताञ्जनपदांश चान्यान अजयत कुरुनन्दनः ॥ 16 ॥
तद उदारं महाघॊषं सपत्नगणसूदनम अपज्यम अकरॊत पार्थॊ गाण्डीवम अभयंकरम ॥ 17 ॥
येन वीरः कुरुक्षेत्रम अभ्यरक्षत परंतपः अमुञ्चद धनुर अस तस्य जयाम अक्षय्यां युधिष्ठिरः ॥ 18 ॥
पाञ्चालान येन संग्रामे भीमसेनॊ ऽजयत परभुः परत्यषेधद बहून एकः सपत्नांश चैव दिग जये ॥ 19 ॥
निशम्य यस्य विस्फारं वयद्रवन्त रणे परे पर्वतस्येव दीर्णस्य विस्फॊटम अशनेर इव ॥ 20 ॥
सैन्धवं येन राजानं परामृषत चानघ जया पाशं धनुर अस तस्य भीमसेनॊ ऽवतारयत ॥ 21 ॥
अजयत पश्चिमाम आशां धनुषा येन पाण्डवः तस्य मौर्वीम अपाकर्षच छूरः संक्रन्दनॊ युधि ॥ 22 ॥
दक्षिणां दक्षिणाचारॊ दिशं येनाजयत परभुः अपज्यम अकरॊद वीरः सहदेवस तदायुधम ॥ 23 ॥
खड्गांश च पीतान दीर्घांश च कलापांश च महाधनान विपाठान कषुर धारांश च धनुर भिर निदधुः सह ॥ 24 ॥
ताम उपारुह्य नकुलॊ धनूंषि निदधत सवयम यानि तस्यावकाशानि दृढरूपाण्य अमन्यत ॥ 25 ॥
यत्र चापश्यत स वै तिरॊ वर्षाणि वर्षति तत्र तानि दृढैः पाशैः सुगाढं पर्यबन्धत ॥ 26 ॥
शरीरं च मृतस्यैकं समबध्नन्त पाण्डवाः विवर्जयिष्यन्ति नरा दूराद एवं शमीम इमाम आबद्धं शवम अत्रेति गन्धम आघ्राय पूतिकम ॥ 27 ॥
अशीतिशत वर्षेयं माता न इति वादिनः कुलधर्मॊ ऽयम अस्माकं पूर्वैर आचरितॊ ऽपि च समासजाना वृक्षे ऽसमिन्न इति वै वयाहरन्ति ते ॥ 28 ॥
आ गॊपालावि पालेभ्य आचक्षाणाः परंतपाः आजग्मुर नगराभ्याशं पार्थाः शत्रुनिबर्हणाः ॥ 29 ॥
जयॊ जयन्तॊ विजयॊ जयत्सेनॊ जयद्बलः इति गुह्यानि नामानि चक्रे तेषां युधिष्ठिरः ॥ 30 ॥
ततॊ यथाप्रतिज्ञाभिः पराविशन नगरं महत अज्ञातचर्यां वत्स्यन्तॊ राष्ट्रं वर्षं तरयॊदशम ॥ 31 ॥
विराटपर्व · Virata Parva
अध्याय 5
Reach this point to mark the section finished.
Continue to अध्याय 6