[वै] अथ दुर्यॊधनः कर्णॊ दुःशासनविविंशती दरॊणश च सह पुत्रेण कृपश चातिरथॊ रणे ॥ 1 ॥
पुनर ईयुः सुसंरब्धा धनंजय जिघांसया विस्फारयन्तश चापानिबलवन्ति दृढानि च ॥ 2 ॥
तान परकीर्णपताकेन रथेनादित्यवर्चसा परत्युद्ययौ महाराजन समस्तान वानरध्वजः ॥ 3 ॥
ततः कृपश च कर्णश च दरॊणश च रथिनां वरः तं महास्त्रैर महावीर्यं परिवार्य धनंजयम ॥ 4 ॥
शरौघान सम्यग अस्यन्तॊ जीमूता इव वार्षिकाः ववर्षुः शरवर्षाणि परपतन्तं किरीटिनम ॥ 5 ॥
इषुभिर बहुभिस तूर्णं समरे लॊमवाहिभिः अदूरात पर्यवस्थाय पूरयाम आसुर आदृताः ॥ 6 ॥
तथावकीर्णस्य हि तैर दिव्यैर अस्त्रैः समन्ततः न तस्य दव्यङ्गुलम अपि विवृतं समदृश्यत ॥ 7 ॥
ततः परहस्य बीभत्सुर दिव्यम ऐन्द्रं महारथः अस्त्रम आदित्यसंकाशं गाण्डीवे समयॊजयत ॥ 8 ॥
स रश्मिभिर इवादित्यः परतपन समरे बली किरीटमाली कौन्तेयः सर्वान पराच्छादयत कुरून ॥ 9 ॥
यथाबलाहके विद्यूत पावकॊ वा शिलॊच्चये तथा गाण्डीवम अभवद इन्द्रायुधम इवाततम ॥ 10 ॥
यथा वर्षति पर्जन्ये विद्युद विभ्राजते दिवि तथा दश दिशः सर्वाः पतद गाण्डीवम आवृणॊत ॥ 11 ॥
तरस्ताश च रथिनः सर्वे बभूवुस तत्र सर्वशः सर्वे शान्ति परा भूत्वा सवचित्तानि न लेभिरे संग्रामविमुखाः सर्वे यॊधास ते हतचेतसः ॥ 12 ॥
एवं सर्वाणि सैन्यानि भग्नानि भरतर्षभ पराद्रवन्त दिशः सर्वा निराशानि सवजीविते ॥ 13 ॥
विराटपर्व · Virata Parva
अध्याय 58
Reach this point to mark the section finished.
Continue to अध्याय 59