[वै] अथ संगम्य सर्वे तु कौरवाणां महारथाः अर्जुनं सहिता यत्ताः परत्ययुध्यन्त भारत ॥ 1 ॥
स सायकमयैर जालैः सर्वतस तान महारथान पराछादयद अमेयात्मा नीहार इव पर्वतान ॥ 2 ॥
नरद भिश च महानागैर हेषमाणैश च वाजिभिः भेरीशङ्खनिनादैश च स शब्दस तुमुलॊ ऽभवत ॥ 3 ॥
नराश्वकायान निर्भिद्य लॊहानि कवचानि च पार्थस्य शरजालानि विनिष्पेतुः सहस्रशः ॥ 4 ॥
तवरमाणः शरान अस्यान पाण्डवः स बभौ रणे मध्यंदिनगतॊ ऽरचिष्मान पाण्डवः स बभौ रणे ॥ 5 ॥
उपप्लवन्त वित्रस्ता रथेभ्यॊ रथिनस तदा सादिनश चाश्वपृष्ठेभ्यॊ भूमौ चापि पदातयः ॥ 6 ॥
शरैः संताड्यमानानां कवचानां महात्मनाम ताम्रराजतलॊहानां परादुरासीन महास्वनः ॥ 7 ॥
छन्नम आयॊधनं सर्वं शरीरैर गतचेतसाम गजाश्वसादिभिस तत्र शितबाणात्त जीवितैः ॥ 8 ॥
रथॊपस्थाभिपतितैर आस्तृता मानवैर मही परनृत्यद इव संग्रामे चापहस्तॊ धनंजयः ॥ 9 ॥
शरुत्वा गाण्डीवनिर्घॊषं विस्फूर्जितम इवाशनेः तरस्तानि सर्वभूतानि वयगच्छन्त महाहवात ॥ 10 ॥
कुण्डलॊष्णीष धारीणि जातरूपस्रजानि च पतितानि सम दृश्यन्ते शिरांसि रणमूर्धनि ॥ 11 ॥
विशिखॊन्मथितैर गात्रैर बाहुभिश च स कार्मुकैः स हस्ताभरणैश चान्यैः परच्छन्ना भाति मेदिनी ॥ 12 ॥
शिरसां पात्यमानानाम अन्तरा निशितैः शरैः अश्ववृष्टिर इवाकाशाद अभवद भरतर्षभ ॥ 13 ॥
दर्शयित्वा तथात्मानं रौद्रं रुद्र पराक्रमः अवरुद्धश चरन पार्थॊ दशवर्षाणि तरीणि च करॊधाग्निम उत्सृजद घॊरं धार्तराष्ट्रेषु पाण्डवः ॥ 14 ॥
तस्य तद दहतः सैन्यं दृष्ट्वा चैव पराक्रमम सर्वे शान्ति परा यॊधा धार्तराष्ट्रस्य पश्यतः ॥ 15 ॥
वित्रासयित्वा तत सैन्यं दरावयित्वा महारथान अर्जुनॊ जयतां शरेष्ठः पर्यवर्तत भारत ॥ 16 ॥
परावर्तयन नदीं घॊरां शॊणितौघतरङ्गिणीम अस्थि शैवलसंबाधां युगान्ते कालनिर्मिताम ॥ 17 ॥
शरचाप पलवां घॊरां मांसशॊणितकर्दमाम महारथमहाद्वीपां शङ्खदुन्दुभिनिस्वनाम चकार महतीं पार्थॊ नदीम उत्तरशॊणिताम ॥ 18 ॥
आददानस्य हि शरान संधाय च विमुञ्चतः विकर्षतश च गाण्डीवं न किं चिद दृश्यते ऽनतरम ॥ 19 ॥
विराटपर्व · Virata Parva
अध्याय 57
Reach this point to mark the section finished.
Continue to अध्याय 58