[वै] ततः शांतनवॊ भीष्मॊ दुराधर्षः परतापवान वध्यमानेषु यॊधेषु धनंजयम उपाद्रवत ॥ 1 ॥
परगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम शरान आदाय तीक्ष्णाग्नान मर्मभेद परमाथिनः ॥ 2 ॥
पाण्डुरेणातपत्रेण धरियमाणेन मूर्धनि शुशुभे स नरव्याघ्रॊ गिरिः सूर्यॊदये यथा ॥ 3 ॥
परध्माय शङ्खं गाङ्गेयॊ धार्तराष्ट्रान परहर्षयन परदक्षिणम उपावृत्य बीभत्सुं समवारयत ॥ 4 ॥
तम उद्वीक्ष्य तथायान्तं कौन्तेयः परवीर हा परत्यगृह्णात परहृष्टात्मा धारा धरम इवाचलः ॥ 5 ॥
ततॊ भीष्मः शरान अष्टौ धवजे पार्थस्य वीर्यवान समपर्यन महावेगाञ शवसमानान इवॊरगान ॥ 6 ॥
ते धवजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः जवलन्तः कपिम आजघ्नुर धवजाग्र निलयांश च तान ॥ 7 ॥
ततॊ भल्लेन महता पृथु धारेण पाण्डवः छत्रं चिच्छेद भीष्मस्य तूर्णं तद अपतद भुवि ॥ 8 ॥
धवजं चैवास्य कौन्तेयः शरैर अभ्यहनद दृढम शीघ्रकृद रथवाहांश च तथॊभौ पार्ष्णिसारथी ॥ 9 ॥
तयॊस तद अभवद युद्धं तुमुलं लॊमहर्षणम भीष्मस्य सह पार्थेन बलिवासवयॊर इव ॥ 10 ॥
भल्लैर भल्लाः समागम्य भीष्म पाण्डवयॊर युधि अन्तरिक्षे वयराजन्त खद्यॊताः परावृषीव हि ॥ 11 ॥
अग्निचक्रम इवाविद्धं सव्यदक्षिणम अस्यतः गाण्डीवम अभवद राजन पार्थस्य सृजतः शरान ॥ 12 ॥
स तैः संछादयाम आस भीष्मं शरशतैः शितैः पर्वतं वारिधाराभिश छादयन्न इव तॊयदः ॥ 13 ॥
तां स वेलाम इवॊद्धूतां शरवृष्टिं समुत्थिताम वयधमत सायकैर भीष्मॊ अर्जुनं संनिवारयत ॥ 14 ॥
ततस तानि निकृत्तानि शरजालानि भागशः समरे ऽभिव्यशीर्यन्त फल्गुनस्य रथं परति ॥ 15 ॥
ततः कनकपुङ्खानां शरवृष्टिं समुत्थिताम पाण्डवस्य रथात तूर्णं शलभानांम इवायतिम वयधमत तां पुनस तस्य भीष्मः शरशतैः शितैः ॥ 16 ॥
ततस ते कुरवः सर्वे साधु साध्व इति चाब्रुवन दुष्करं कृतवान भीष्मॊ यद अर्जुनम अयॊधयत ॥ 17 ॥
बलवांस तरुणॊ दक्षः कषिप्रकारी च पाण्डवः कॊ ऽनयः समर्थः पार्थस्य वेगं धारयितुं रणे ॥ 18 ॥
ऋते शांतनवाद भीष्मात कृष्णाद वा देवकी सुतात आचार्य परवराद वापि भारद्वाजान महाबलात आचार्य परवराद वापि भारद्वाजान महाबलात ॥ 19 ॥
अस्त्रैर अस्त्राणि संवार्य करीडतः पुरुषर्षभौ चक्षूंषि सर्वभूतानां मॊहयन्तौ महाबलौ ॥ 20 ॥
पराजापत्यं तथैवैन्द्रम आग्नेयं च सुदारुणम वौबेरं वारुणं चैव याम्य वायव्यम एव च परयुञ्जानौ महात्मानौ समरे तौ विचेरतुः ॥ 21 ॥
विस्मितान्य अथ भूतानि तौ दृष्ट्वा संयुगे तदा साधु पार्थ महाबाहॊ साधु बीष्मेति चाब्रुवन ॥ 22 ॥
नेदं युक्तं मनुष्येषु यॊ ऽयं संदृश्यते महान महास्त्राणां संप्रयॊगः समरे भीष्मपार्थयॊः ॥ 23 ॥
एवं सर्वास्त्रविदुषॊर अस्त्रयुद्धम अवर्तत अथ जिष्णुर उपावृत्य पृथु धारेण कार्मुकम चकर्त भीष्मस्य तदा जातरूपपरिष्कृतम ॥ 24 ॥
निमेषान्तरमात्रेण भीष्मॊ ऽनयत कार्मुकं रणे समादाय महाबाहुः स जयं चक्रे महाबलः शरांश च सुबहून करुद्धॊ मुमॊचाशु धनंजये ॥ 25 ॥
अर्जुनॊ ऽपि शरांश चित्रान भीष्माय निशितान बहून चिक्षेप सुमहातेजास तथा भीष्मश च पाण्डवे ॥ 26 ॥
तयॊर दिव्यास्त्रविदुषॊर अस्यतॊर अनिशं शरान न विशेषस तदा राजँल लक्ष्यते सम महात्मनॊः ॥ 27 ॥
अथावृणॊद दश दिशः शरैर अति रथैस तदा किरीटमाली कौन्तेयः शूरः शांतनवस तथा ॥ 28 ॥
अतीव पाण्डवॊ भीष्मं भीष्मश चातीव पाण्डवम बभूव तस्मिन संग्रामे राजँल लॊके तद अद्भुतम ॥ 29 ॥
पाण्डवेन हताः शूरा भीष्मस्य रथरक्षिणः शेरते सम तदा राजन कौन्तेयस्याभितॊ रथम ॥ 30 ॥
ततॊ गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः आगच्छन पुङ्खसंश्लिष्टाः शवेतवाहन पत्रिणः ॥ 31 ॥
निष्पतन्तॊ रथात तस्य धौता हैरण्यवाससः आकाशे समदृश्यन्त हंसानाम इव पङ्क्तयः ॥ 32 ॥
तस्य तद दिव्यम अस्त्रं हि परगाढं चित्रम अस्यतः परेक्षन्ते समान्तरिक्ष सथाः सर्वे देवाः स वासवाः ॥ 33 ॥
तद दृष्ट्वा परमप्रीतॊ गन्धर्वश चित्रम अद्भुतम शशंस देवराजाय चित्रसेनः परतापवान ॥ 34 ॥
पश्येमान अरिनिर्दारान संसक्तान इव गच्छतः चित्ररूपम इदं जिष्णॊर दिव्यम अस्त्रम उदीर्यतः ॥ 35 ॥
नेदं मनुष्याः शरद्दध्युर न हीदं तेषु विद्यते पौराणानां महास्त्राणां विचित्रायं समागमः ॥ 36 ॥
मध्यंदिनगतं सूर्यं परतपन्तम इवाम्बरे न शक्नुवन्ति सैन्यानि पाण्डवं परतिवीक्षितुम ॥ 37 ॥
उभौ विश्रुतकर्माणाव उभौ युद्धविशारदौ उभौ सदृशकर्माणाव उभौ युधि दुरासदौ ॥ 38 ॥
इत्य उक्तॊ देवराजस तु पार्थ भीष्म समागमम पूजयाम आस दिव्येन पुष्पवर्षेण भारत ॥ 39 ॥
ततॊ भीष्मः शांतनवॊ वामे पार्श्वे समर्पयत अस्यतः परतिसंधाय विवृतं सव्यसाचिनः ॥ 40 ॥
ततः परहस्य बीभत्सुः पृथु धारेण कार्मुकम नयकृन्तद गार्ध्रपत्रेण भीष्मस्यामिततेजसः ॥ 41 ॥
अथैनं दशभिर बाणैर परत्यविध्यत सतनान्तरे यतमानं पराक्रान्तं कुन्तीपुत्रॊ धनंजयः ॥ 42 ॥
स पीडितॊ महाबाहुर गृहीत्वा रथकूबरम गाङ्गेयॊ युधि दुर्धर्षस तस्थौ दीर्घम इवातुरः ॥ 43 ॥
तं विसंज्ञम अपॊवाह संयन्ता रथवाजिनाम उपदेशम अनुस्मृत्य रक्षमाणॊ महारथम ॥ 44 ॥
विराटपर्व · Virata Parva
अध्याय 59
Reach this point to mark the section finished.
Continue to अध्याय 60