[वै] तं पार्थः परतिजग्राह वायुवेगम इवॊद्धतम शरजालेन महता वर्षमाणम इवाम्बुदम ॥ 1 ॥
तयॊर देवासुरसमः संनिपातॊ महान अभूत किरतॊः शरजालानि वृत्रवासवयॊर इव ॥ 2 ॥
न सम सूर्यस तदा भाति न च वाति समीरणः शरगाढे कृते वयॊम्नि छाया भूते समन्ततः ॥ 3 ॥
महांश चट चटा शब्दॊ यॊधयॊर हन्यमानयॊः दह्यताम इव वेणूनाम आसीत परपुरंजय ॥ 4 ॥
हयान अस्यार्जुनः सर्वान कृतवान अल्पजीवितान स राजन अन परजानाति दिशं कां चन मॊहितः ॥ 5 ॥
ततॊ दरौणिर महावीर्यः पार्थस्य विचरिष्यतः विवरं सूक्ष्मम आलॊक्य जयां चिच्छेद कषुरेण ह तद अस्यापूजयन देवाः कर्म दृष्ट्वाति मानुषम ॥ 6 ॥
ततॊ दरौणिर धनूंष्य अष्टौ वयपक्रम्य नरर्षभम पुनर अभ्याहनत पार्थं हृदये कङ्कपत्रिभिः ॥ 7 ॥
ततः पार्थॊ महाबाहुः परहस्य सवनवत तदा यॊजयाम आस नवया मौर्व्या गाण्डीवम ओजसा ॥ 8 ॥
ततॊ ऽरधचन्द्रम आवृत्य तेन पार्थः समागमत वारणेनेव मत्तेन मत्तॊ वारणयूथपः ॥ 9 ॥
ततः परववृते युद्धं पृथिव्याम एकवीरयॊः रणमध्ये दवयॊर एव सुमहल लॊमहर्षणम ॥ 10 ॥
तौ वीरौ कुरवः सर्वे ददृशुर विस्मयान्विताः युध्यमानौ महात्मानौ यूथपाव इव संगतौ ॥ 11 ॥
तौ समाजघ्नतुर वीराव अन्यॊन्यं पुरुषर्षभौ शरैर आशीविशाकारैर जवलद भिर इव पन्नगैः ॥ 12 ॥
अक्षय्याव इषुधी दिव्यौ पाण्डवस्य महात्मनः तेन पार्थॊ रणे शूरस तस्थौ गिरिर इवाचलः ॥ 13 ॥
अश्वत्थाम्नः पुनर बाणाः कषिप्रम अभ्यस्यतॊ रणे जग्मुः परिक्षयं शीघ्रम अभूत तेनाधिकॊ ऽरजुनः ॥ 14 ॥
ततः कर्णॊ महच चापं विकृष्याभ्यधिकं रुषा अवाक्षिपत ततः शब्दॊ हाहाकारॊ महान अभूत ॥ 15 ॥
तत्र चक्षुर दधे पार्थॊ यत्र विस्पार्यते धनुः ददर्श तत्र राधेयं तस्य कॊपॊ ऽतयवीवृधत ॥ 16 ॥
सरॊषवशम आपन्नः कर्णम एव जिघांसया अवैक्षत विवृत्ताभ्यां नेत्राभ्यां कुरुपुंगवः ॥ 17 ॥
तथा तु विमुखे पार्थे दरॊणपुत्रस्य सायकान तवरिताः पुरुषा राजन्न उपाजह्रुः सहस्रशः ॥ 18 ॥
उत्सृज्य च महाबाहुर दरॊणपुत्रं धनंजयः अभिदुद्राव सहसा कर्णम एव सपत्नजित ॥ 19 ॥
तम अभिद्रुत्य कौन्तेयः करॊधसंरक्तलॊचनः कामयन दवैरथे युद्धम इदं वचनम अब्रवीत ॥ 20 ॥
विराटपर्व · Virata Parva
अध्याय 54
Reach this point to mark the section finished.
Continue to अध्याय 55