[अर्ज] कर्ण यत ते सभामध्ये बहु वाचा विकत्थितम न मे युधि समॊ ऽसतीति तद इदं परत्युपस्थितम ॥ 1 ॥
अवॊचः परुषा वाचॊ धर्मम उत्सृज्य केवलम इदं तु दुष्करं मन्ये यद इदं ते चिकीर्षितम ॥ 2 ॥
यत तवया कथितं पूर्वं माम अनासाद्य किं चन तद अद्य कुरु राधेय कुरुमध्ये मया सह ॥ 3 ॥
यत सभायां सम पाञ्चालीं लिश्यमानां दुरात्मभिः दृष्टवान असि तस्याद्य फलम आप्नुहि केवलम ॥ 4 ॥
धर्मपाशनिबद्धेन यन मया मर्षितं पुरा तस्य राधेय कॊपस्य विजयं पश्य मे मृधे ॥ 5 ॥
एहि कर्ण मया सार्धं परतिपद्यस्व सागरम परेक्षकाः कुरवः सर्वे भवन्तु सह सैनिकाः ॥ 6 ॥
[कर्ण] बरवीषि वाचा यत पार्थ कर्मणा तत समाचर अतिशेते हि वै वाचं कर्मेति परथितं भुवि ॥ 7 ॥
यत तवया मर्षितं पूर्वं तद अशक्तेन मर्षितम इति गृह्णामि तत पार्थ तव दृष्ट्वापराक्रमम ॥ 8 ॥
धर्मपाशनिबद्धेन यदि ते मर्षितं पुरा तथैव बद्धम आत्मानम अबद्धम इव मन्यसे ॥ 9 ॥
यदि तावद वनेवासा यथॊक्तश चरितस तवया तत तवं धर्मार्थवित कलिष्टः समयं भेत्तुम इच्छसि ॥ 10 ॥
यदि शक्रः सवयं पार्थ युध्यते तव कारणात तथापि न वयथा का चिन मम सयाद विक्रमिष्यतः ॥ 11 ॥
अयं कौन्तेय कामस ते नचिरात समुपस्थितः यॊत्स्यसे तवं मया सार्धम अद्य दरक्ष्यसि मे बलम ॥ 12 ॥
[अर्ज] इदानीम एव तावत तवम अपयातॊ रणान मम तेन जीवसि राधेयनिहतस तव अनुजस तव ॥ 13 ॥
भरातरं घातयित्वा च तयक्त्वा रणशिरश च कः तवदन्यः पुरुषः सत्सु बरूयाद एवं वयवस्थितः ॥ 14 ॥
[वै] इति कर्णं बरुवन्न एव बीभत्सुर अपराजितः अभ्ययाद विसृजन बाणान कायावरण भेदिनः ॥ 15 ॥
परतिजग्राह तान कर्णः शरान अग्निशिखॊपमान शरवर्षेण महता वर्षमाण इवाम्बुदः ॥ 16 ॥
उत्पेतुः शरजालानि घॊररूपाणि सर्वशः अविध्यद अश्वान बाहॊश च हस्तावापं पृथक पृथक ॥ 17 ॥
सॊ ऽमृष्यमाणः कर्णस्य निषङ्गस्यावलम्बनम चिच्छेद निशिताग्रेण शरेण नतपर्वणा ॥ 18 ॥
उपासङ्गाद उपादाय कर्णॊ बाणान अथापरान विव्याध पाण्डवं हस्ते तस्य मुष्टिर अशीर्यत ॥ 19 ॥
ततः पार्थॊ महाबाहुः कर्णस्य धनुर अच्छिनत स शक्तिं पराहिणॊत तस्मै तां पार्थॊ वयधमच छरैः ॥ 20 ॥
ततॊ ऽभिपेतुर बहवॊ राधेयस्य पदानुगाः तांश च गाण्डीवनिर्मुक्तैः पराहिणॊद यमसादनम ॥ 21 ॥
ततॊ ऽसयाश्वाञ शरैस तीक्ष्णैर बीभत्सुर भारसाधनैः आ कर्ण मुक्तैर अभ्यघ्नंस ते हताः परापतन भुवि ॥ 22 ॥
अथापरेण बाणेन जवलितेन महाभुजः विव्याध कर्णं कौन्तेयस तीक्ष्णेनॊरसि वीर्यवान ॥ 23 ॥
तस्य भित्त्वा तनुत्राणं कायम अभ्यपतच छिरः ततः स तमसाविष्टॊ न सम किं चित परजज्ञिवान ॥ 24 ॥
स गाढवेदनॊ हित्वा रणं परायाद उदङ्मुखः ततॊ ऽरजुन उपाक्रॊशद उत्तरश च महारथः ॥ 25 ॥
विराटपर्व · Virata Parva
अध्याय 55
Reach this point to mark the section finished.
Continue to अध्याय 56