[अर्ज] यत्रैषा काञ्चनी वेदी परदीप्ताग्निशिखॊपमा उच्छ्रिता काञ्चने दण्डे पताकाभिर अलं कृता तत्र मां वह भद्रं ते दरॊणानीकाय मारिष ॥ 1 ॥
अश्वाः शॊणाः परकाशन्ते बृहन्तश चारु वाहिनः सनिग्धविद्रुम संकाशास ताम्रास्याः परियदर्शनाः युक्ता रथवरे यस्य सर्वशिक्षा विशारदाः ॥ 2 ॥
दीर्घबाहुर महातेजा बलरूपसमन्वितः सर्वलॊकेषु विख्यातॊ भारद्वाजः परतापवान ॥ 3 ॥
बुद्ध्या तुल्यॊ हय उशनसा बृहस्पतिसमॊ नये वेदास तथैव चत्वारॊ बरह्मचर्यं तथैव च ॥ 4 ॥
ससंहाराणि दिव्यानि सर्वाण्य अस्त्राणि मारिष धनुर्वेदश च कार्त्स्न्येन यस्मिन नित्यं परतिष्ठितः ॥ 5 ॥
कषमा दमश च सत्यं च आनृशंस्यम अथार्जवम एते चान्ये च बहवॊ गुणा यस्मिन दविजॊत्तमे ॥ 6 ॥
तेनाहं यॊद्धुम इच्छामि महाभागेन संयुगे तस्मात तवं परापयाचार्यं कषिप्रम उत्तरवाहय ॥ 7 ॥
[वै] अर्जुनेनैवम उक्तस तु वैराटिर हेमभूषितान चॊदयाम आस तान अश्वान भारद्वाज रथं परति ॥ 8 ॥
तम आपतन्तं वेगेन पाण्डवं रथिनां वरम दरॊणः परत्युद्ययौ पार्थं मत्तॊ मत्तम इव दविपम ॥ 9 ॥
ततः परध्मापयच छङ्खं भेरी शतनिनादितम परचुक्षुभे बलं सर्वम उद्धूत इव सागरः ॥ 10 ॥
अथ शॊणान सदश्वांस तान हन्स वर्णैर मनॊजवैः मिश्रितान समरे दृष्ट्वा वयस्मयन्त रणे जनाः ॥ 11 ॥
तौ रथौ वीर्यसंपन्नौ दृष्ट्वा संग्राममूर्धनि आचार्य शिष्याव अजितौ कृतविध्यौ मनस्विनौ ॥ 12 ॥
समाश्लिष्टौ तदान्यॊन्यं दरॊणपार्थौ महाबलौ दृष्ट्वा पराकम्पत मुहुर भरतानां महद बलम ॥ 13 ॥
हर्षयुक्तस तथा पार्थः परहसन्न इव विर्यवान रथं रथेन दरॊणस्य समासाद्य महारथः ॥ 14 ॥
अभिवाद्य महाबाहुः सान्त्वपूर्वम इदं वचः उवाच शलक्ष्णया वाचा कौन्तेयः परवीर हा ॥ 15 ॥
उषिताः सम वनेवासं परतिकर्म चिकीर्षवः कॊपं नार्हसि नः कर्तुं सदा समरदुर्जय ॥ 16 ॥
अहं तु परहृते पूर्वं परहरिष्यामि ते ऽनघ इति मे वर्तते बुद्धिस तद भवान कर्तुम अर्हति ॥ 17 ॥
ततॊ ऽसमै पराहिणॊद दरॊणः शरान अधिकविंशतिम अप्राप्तांश चैव तान पार्थश चिच्छेद कृतहस्तवत ॥ 18 ॥
ततः शरसहस्रेण रथपार्थस्य वीर्यवान अवाकिरत ततॊ दरॊणः शीघ्रम अस्त्रं विदर्शयन ॥ 19 ॥
एवं परववृते युद्धं भारद्वाज किरीटिनॊः समं विमुञ्चतॊः संख्ये विशिखान दीप्ततेजसः ॥ 20 ॥
ताव उभौ खयातकर्माणाव उभौ वायुसमौ जवे उभौ दिव्यास्त्रविदुषाव उभाव उत्तमतेजसौ कषिपन्तौ शरजालानि मॊहयाम आसतुर नृपान ॥ 21 ॥
वयस्मयन्त ततॊ यॊधाः सर्वे तत्र समागताः शरान विसृजतॊस तूर्णं साधु साध्व इति पूजयन ॥ 22 ॥
दरॊणं हि समरे कॊ ऽनयॊ यॊद्धुम अर्हति फल्गुनात रौद्रः कषत्रिय धर्मॊ ऽयं गुरुणा यद अयुध्यत इत्य अब्रुवञ जनास तत्र संग्रामशिरसि सथिताः ॥ 23 ॥
वीरौ ताव अपि संरब्धौ संनिकृष्टौ महारथौ छादयेतां शरव्रातैर अन्यॊन्यम अपराजितौ ॥ 24 ॥
विस्फार्य सुमहच चापं हेमपृष्ठं दुरासदम संरब्धॊ ऽथ भरद्वाजः फल्गुनं परत्ययुध्यत ॥ 25 ॥
स सायकमयैर जालैर अर्जुनस्य रथं परति भानुमत्ल्भिः शिला धौतैर भानॊः परच्छादयत परभाम ॥ 26 ॥
पार्थं च स महाबाहुर महावेगैर महारथः विव्याध निशितैर बाणैर मेघॊ वृष्ट्येव पर्वतम ॥ 27 ॥
तथैव दिव्यं गाण्डीवं धनुर आदाय पाण्डवः शत्रुघ्नं वेगवद धृष्टॊ भारसाधनम उत्तमम विससर्ज शरांश चित्रान सुवर्णविकृतान बहून ॥ 28 ॥
नाशयञ शरवर्षाणि भारद्वाजस्य वीर्यवान तूर्णं चापनिविर्मुक्तैस तद अद्भुतम इवाभवत ॥ 29 ॥
स रथेन चरन पार्थः परेक्षणीयॊ धनंजयः युगपद दिक्षु सर्वासु सर्वशस्त्राण्य अदर्शयत ॥ 30 ॥
एकछायम इवाकाशं बाणैश चक्रे समन्ततः नादृश्यत तदा दरॊणॊ नीहारेणेव संवृतः ॥ 31 ॥
तस्याभवत तदा रूपं संवृतस्य शरॊत्तमैः जाज्वल्यमानस्य यथा पर्वतस्येव सर्वतः ॥ 32 ॥
दृष्ट्वा तु पार्थस्य रणे शरैः सवरथम आवृतम स विस्फार्य धनुश चित्रं मेघस्तनित निस्वनम ॥ 33 ॥
अग्निचक्रॊपमं घॊरं विकर्षन परमायुधम वयशातयच छरांस तांस तु दरॊणः समितिशॊभनः महान अभूत ततः शब्दॊ वंशानाम इव दुह्यताम ॥ 34 ॥
जाम्बूनदमयैः पुङ्खैश चित्रचापवरातिगैः पराच्छादयद अमेयात्मा दिशः सूर्यस्य च परभाम ॥ 35 ॥
ततः कनकपुङ्खानां शराणां नतपर्वणाम वियच चराणां वियति दृश्यन्ते बहुशः परजाः ॥ 36 ॥
दरॊणस्य पुङ्खसक्ताश च परभवन्तः शरासनात एकॊ दीर्घ इवादृश्यद आकाशे संहतः शरः ॥ 37 ॥
एवं तौ सवर्णविकृतान विमुञ्चन्तौ महाशरान आकाशं संवृतं वीराव उल्काभिर इव चक्रतुः ॥ 38 ॥
शरास तयॊश च विबभुः कङ्कबर्हिण वाससः पङ्क्त्यः शरदि खस्थानां हंसानां चरताम इव ॥ 39 ॥
युद्धं समभवत तत्र सुसंरब्धं महात्मनॊः दरॊण पाण्डवयॊर घॊरं वृत्रवासवयॊर इव ॥ 40 ॥
तौ जगाव इव चासाद्य विषाणाग्रैः परस्परम शरैः पूर्णायतॊत्सृष्टैर अन्यॊन्यम अभिजघ्नतुः ॥ 41 ॥
तौ वयवाहरतां शूरौ संरब्धौ रणशॊभिनौ उदीरयन्तौ समरे दिव्यान्य अस्त्राणि भागशः ॥ 42 ॥
अथ तव आचार्य मुख्येन शरान सृष्टाञ शिलाशितान नयवारयच छितैर बानैर अर्जुनॊ जयतां वरः ॥ 43 ॥
दर्शयन्न ऐन्द्रिर आत्मानम उग्रम उग्रपराक्रमः इषुभिस तूर्णम आकाशं बहुभिश च समावृणॊत ॥ 44 ॥
जिघांसन्तं नरव्याघ्रम अर्जुनं तिग्मतेजसम आचार्य मुख्यः समरे दरॊणः शस्त्रभृतां वरः अर्जुनेन सहाक्रीडच छरैः संनतपर्वभिः ॥ 45 ॥
दिव्यान्य अस्त्राणि मुञ्चन्तं भारद्वाजं महारणे अस्त्रैर अस्त्राणि संवार्य पल्गुनः समयॊधयत ॥ 46 ॥
तयॊर आसीत संप्रहारः करुद्धयॊर नरसिंहयॊः अमर्षिणॊस तदान्यॊन्यं देवदानवयॊर इव ॥ 47 ॥
ऐन्द्रं वायव्यम आग्नेयम अस्त्रम अस्त्रेण पाण्डवः दरॊणेन मुक्तं मुक्तं तु गरसते सम पुनः पुनः ॥ 48 ॥
एवं शूरौ महेष्वासौ विसृजन्तौ शिताञ शरान एकछायं चक्रतुस ताव आकाशं शरवृष्टिभिः ॥ 49 ॥
ततॊ ऽरजुनेन मुक्तानां पततां च शरीरिषु पर्वतेष्व इव वर्जाणां शराणां शरूयते सवनः ॥ 50 ॥
ततॊ नागा रथाश चैव सादिनश च विशां पते शॊणिताक्ता वयदृश्यन्त पुष्पिता इव किंशुकाः ॥ 51 ॥
बाहुभिश च स केयूरैर विचित्रैश च महारथैः सुवर्णचित्रैः कवचैर धवजैश च विनिपातितैः ॥ 52 ॥
यॊधैश चनिहतैस तत्र पार्थ बाणप्रपीडितैः बलम आसीत समुद्भ्रान्तं दरॊणार्जुन समागमे ॥ 53 ॥
विधुन्वानौ तु तौ वीरौ धनुर ई भारसाधने आच्छायदेताम अन्यॊन्यं तितक्षन्तौ रणेषुभिः ॥ 54 ॥
अथान्तरिक्षे नादॊ ऽभूद दरॊणं तत्र परशंसताम दुष्करं कृतवान दरॊणॊ यद अर्जुनम अयॊधयत ॥ 55 ॥
परमाथिनं महावीर्यं दृढमुष्टिं दुरासदम जेतारं देव दैत्यानां सर्पाणां च महारथम ॥ 56 ॥
अविश्रमं च शिक्षां च लाघवं दूरपातिताम पार्थस्य समरे दृष्ट्वा दरॊणस्याभूच च विस्मयः ॥ 57 ॥
अथ गाण्डीवम उद्यम्य दिव्यं धनुर अमर्षणः विचकर्ष रणे पार्थॊ बाहुभ्यां भरतर्षभ ॥ 58 ॥
तस्य बाणमयं वर्षं शलभानाम इवायतम न च बाणान्तरे वायुर अस्य शक्नॊति सर्पितुम ॥ 59 ॥
अनिशं संदधानस्य शरान उत्सृजतस तदा ददृशे नान्तरं किं चित पार्थस्याददतॊ ऽपि च ॥ 60 ॥
तथा शीघ्रास्त्र युद्धे तु वर्तमाने सुदारुणे शीघ्राच छीघ्रतरं पार्थः शरान अन्यान उदीरयत ॥ 61 ॥
ततः शतसहस्राणि शराणां नतपर्वणाम युगपत परापतंस तत्र दरॊणस्य रथम अन्तिकात ॥ 62 ॥
अवकीर्यमाणे दरॊणे तु शरैर गाण्डीवधन्वना हाहाकारॊ महान आसीत सैन्यानां भरतर्षभ ॥ 63 ॥
पाण्डवस्य तु शीघ्रास्त्रं मघवान समपूजयत गन्धर्वाप्सरसश चैव ये च तत्र समागताः ॥ 64 ॥
ततॊ वृन्देन महता रथानां रथयूथपः आचार्य पुत्रः सहसा पाण्डवं परत्यवारयत ॥ 65 ॥
अश्वत्थामा तु तत कर्म हृदयेन महात्मनः पूजयाम आस पार्थस्य कॊपं चास्याकरॊद भृशम ॥ 66 ॥
स मन्युवशम आपन्नः पार्थम अभ्यद्रवद रणे किरञ शरसहस्राणि पर्जन्य इव वृष्टिमान ॥ 67 ॥
आवृत्य तु महाबाहुर यतॊ दरौणिस ततॊ हयान अन्तरं परददौ पार्थॊ दरॊणस्य वयपसर्पितुम ॥ 68 ॥
स तु लब्ध्वान्तरं तूर्णम अपायाज जवनैर हयैः छिन्नवर्म धवजः शूरॊ निकृत्तः परमेषुभिः ॥ 69 ॥
विराटपर्व · Virata Parva
अध्याय 53
Reach this point to mark the section finished.
Continue to अध्याय 54