[वै] एतस्मिन्न अन्तरे तत्र महावीर्यपराक्रमः आजगाम महासत्त्वः कृपः शस्त्रभृतां वरः अर्जुनं परति संयॊद्धुं युद्धार्थी स महारथः ॥ 1 ॥
तौ रथौ सूर्यसंकाशौ यॊत्स्यमानौ महाबलौ शारदाव इव जीमूतौ वयरॊचेतां वयवस्थितौ ॥ 2 ॥
पार्थॊ ऽपि विश्रुतं लॊके गाण्डीवं परमायुधम विकृष्य चिक्षेप बहून नाराचान मर्मभेदिनः ॥ 3 ॥
तान अप्राप्ताञ शितैर बाणैर नाराचान रक्तभॊजनान कृपश चिच्छेद पार्थस्य शतशॊ ऽथ सहस्रशः ॥ 4 ॥
ततः पार्थश च संक्रुद्धश चित्रान मार्गान परदर्शयन दिशः संछादयन बाणैः परदिशश च महारथः ॥ 5 ॥
एकछायम इवाकाशं परकुर्वन सर्वतः परभुः परधादयद अमेयात्मा पार्थः शरशतैः कृपम ॥ 6 ॥
स शरैर अर्पितः करुद्धः शितैर अग्निशिखॊपमैः तूर्णं शरसहस्रेण पार्थम अप्रतिमौजसम अर्पयित्वा महात्मानं ननाद समरे कृपः ॥ 7 ॥
ततः कनकपुङ्खाग्रैर वीरः संनतपर्वभिः तवरन गाण्डीवनिर्मुक्तैर अर्जुनस तस्य वाजिनः चतुर्भिश चतुरस तीक्ष्णैर अविध्यत परमेषुभिः ॥ 8 ॥
ते हया निशितैर विद्धा जवलद भिर इव पन्नगैः उत्पेतुः सहसा सर्वे कृपः सथानाद अथाच्यवत ॥ 9 ॥
चयुतं तु गौतमं सथानात समीक्ष्य कुरुनन्दनः नाविध्यत परवीरघ्नॊ रक्षमाणॊ ऽसय गौरवम ॥ 10 ॥
स तु लब्ध्वा पुनः सथानं गौतमः सव्यसाचिनम विव्याध दशभिर बाणैस तवरितः कङ्कपत्रिभिः ॥ 11 ॥
ततः पार्थॊ धनुस तस्य भल्लेन निशितेन च चिच्छेदैकेन भूयश च हस्ताच चापम अथाहरत ॥ 12 ॥
अथास्य कवचं बाणैर निशितैर मर्मभेदिभिः वयधमन न च पार्थॊ ऽसय शरीरम अवपीडयत ॥ 13 ॥
तस्य निर्मुच्यमानस्य कवचात काय आबभौ समये मुच्यमानस्य सर्पस्येव तनुर यथा ॥ 14 ॥
छिन्ने धनुषि पार्थेन सॊ ऽनयद आदाय कार्मुकम चकार गौतमः सज्यं तद अद्भुतम इवाभवत ॥ 15 ॥
स तद अप्य अस्य कौन्तेयश चिच्छेद नतपर्वणा एवम अन्यानि चापानि बहूनि कृतहस्तवत शारद्वतस्य चिच्छेद पाण्डवः परवीह्र हा ॥ 16 ॥
स छिन्नधनुर आदाय अथ शक्तिं परतापवान पराहिणॊत पाण्डुपुत्राय परदीप्ताम अशनीम इव ॥ 17 ॥
ताम अर्जुनस तदायान्तीं शक्तिं हेमविभूषिताम वियद गतां महॊल्काभं चिच्छेद दशभिः शरैः सापतद दशधा छिन्ना भूमौ पार्थेन धीमता ॥ 18 ॥
युगमध्ये तु भल्लैस तु ततः स सधनुः कृपः तम आशु निशितैः पार्थं बिभेद दशभिः शरैः ॥ 19 ॥
ततः पार्थॊ महातेजा विशिखान अग्नितेजसः चिक्षेप समरे करुद्धस तरयॊदश शिलाशितान ॥ 20 ॥
अथास्य युगम एकेन चतुर्भिश चतुरॊ हयान षष्ठेन च शिरः कायाच छरेण रथसारथेः ॥ 21 ॥
तरिभिस तरिवेणुं समरे दवाभ्याम अक्षौ महाबलः दवादशेन तु भल्लेन चकर्तास्य धवजं तथा ॥ 22 ॥
ततॊ वर्ज निकाशेन फल्गुनः परहसन्न इव तरयॊदशेनेन्द्रसमः कृपं वक्षस्य अताडयत ॥ 23 ॥
स छिन्नधन्वा विरथॊ हताश्वॊ हतसारथिः गदापाणिर अवप्लुत्य तूर्णं चिक्षेप तां गदाम ॥ 24 ॥
सा तु मुक्ता गदा गुर्वी कृपेण सुपरिष्कृता अर्जुनेन शरैर नुन्ना परति मार्गम अथागमत ॥ 25 ॥
ततॊ यॊधाः परीप्सन्तः शारद्वतम अमर्षणम सर्वतः समरे पार्थं शरवर्षैर अवाकिरन ॥ 26 ॥
ततॊ विराटस्य सुतः सव्यम आवृत्य वाजिनः यमकं मण्डलं कृत्वा तान यॊधान परत्यवारयत ॥ 27 ॥
ततः कृपम उपादाय विरथं ते नरर्षभाः अजाजह्रुर महावेगाः कुन्तीपुत्राद धनंजयात ॥ 28 ॥
विराटपर्व · Virata Parva
अध्याय 52
Reach this point to mark the section finished.
Continue to अध्याय 53