धर्मDharmic Data

विराटपर्व · Virata Parva

अध्याय 51

  1. [वै] तान्य अनीकान्य अदृश्यन्त कुरूणाम उग्रधन्विनाम संसर्पन्तॊ यथा मेघा घर्मान्ते मन्दमारुताः ॥ 1 ॥

  2. अभ्याशे वाजिनस तस्थुः समारूढाः परहारिभिः भीमरूपाश च मातङ्गास तॊमराङ्कुशचॊदिताः ॥ 2 ॥

  3. ततः शक्रः सुरगणैः समारुह्य सुदर्शनम सहॊपायात तदा राजन विश्वाश्वि मरुतां गणैः ॥ 3 ॥

  4. तद देव यक्षगन्धर्वमहॊरगसमाकुलम शुशुभे ऽभरविनिर्मुक्तं गरहैर इव नभस्तलम ॥ 4 ॥

  5. अस्त्राणां च बलं तेषां मानुषेषु परयुज्यताम तच च घॊरं महद युद्धं भीष्मार्जुनसमागमे ॥ 5 ॥

  6. शतं शतसहस्राणाम यत्र सथूणा हिरण्मयाः मणिरत्नमयाश चान्याः परासादम उपधारयन ॥ 6 ॥

  7. तत्र कामगमं दिव्यं सर्वरत्नविभूषितम विमानं देवराजस्य शुशुभे खेचरं तदा ॥ 7 ॥

  8. तत्र देवास तरयस तरिंशत तिष्ठन्ति सह वासवाः गन्धर्वा राक्षसाः सर्पाः पितरश च महर्षिभिः ॥ 8 ॥

  9. तथा राजा वसु मना बलाक्षः सुप्रतर्दनः अष्टकश च शिबिश चैव ययातिर नहुषॊ गयः ॥ 9 ॥

  10. मनुः कषेपॊ रघुर भानुः कृशाश्वः सगरः शलः विमाने देवराजस्य समदृश्यन्त सुप्रभाः ॥ 10 ॥

  11. अग्नेर ईशस्य सॊमस्य वरुणस्य परजापतेः तथा धातुर विधातुश च कुबेरस्य यमस्य च ॥ 11 ॥

  12. अलम्बुसॊग्रसेनस्य गर्धर्वस्य च तुम्बुरॊः यथाभागं यथॊद्देशं विमानानि चकाशिरे ॥ 12 ॥

  13. सर्वदेव निकायाश च सिद्धाश च परमर्षयः अर्जुनस्य करूणां च दरष्टुं युद्धम उपागताः ॥ 13 ॥

  14. दिव्यानां तत्र माल्यानां गन्धः पुण्यॊ ऽथ सर्वशः परससार वसन्ताग्रे वनानाम इव पुष्पिताम ॥ 14 ॥

  15. रक्तारक्तानि देवानां समदृश्यन्त तिष्ठताम आतपत्राणि वासांसि सरजश च वयजनानि च ॥ 15 ॥

  16. उपशाम्यद रजॊ भौमं सर्वं वयाप्तं मरीचिभिः दिव्यान गन्धान उपादाय वायुर यॊधान असेवत ॥ 16 ॥

  17. परभासितम इवाकाशं चित्ररूपम अलं कृतम संपतद भिः सथितैश चैव नानारत्नावभासितैः विमानैर विविधैश चित्रैर उपानीतैः सुरॊत्तमैः ॥ 17 ॥

Reach this point to mark the section finished.

Continue to अध्याय 52

Previous: अध्याय 50