धर्मDharmic Data

विराटपर्व · Virata Parva

अध्याय 50

  1. [वै] अपयाते तु राधेये दुर्यॊधन पुरॊगमाः अनीकेन यथा सवेन शरैर आर्च्छन्त पाण्डवम ॥ 1 ॥

  2. बहुधा तस्य सैन्यस्य वयूढस्यापततः शरैः अभियानीयम आज्ञाय वैराटिर इदम अब्रवीत ॥ 2 ॥

  3. आस्थाय रुचिरं जिष्णॊ रथं सारथिना मया कतमद यास्यसे ऽनीक मुक्तॊ यास्याम्य अहं तवया ॥ 3 ॥

  4. [अर्ज] लॊहिताक्षम अरिष्टं यं वैयाघ्रम अनुपश्यसि नीलां पताकाम आश्रित्य रथे तिष्ठन्तम उत्तर ॥ 4 ॥

  5. कृपस्यैतद रथानीकं परापयस्वैतद एव माम एतस्य दर्शयिष्यामि शीघ्रास्त्रं दृढधन्विनः ॥ 5 ॥

  6. कमण्डलुर धवजे यस्य शातकुम्भमयः शुभः आचार्य एष वै दरॊणः सर्वशस्त्रभृतां वरः ॥ 6 ॥

  7. सुप्रसन्नमना वीर कुरुष्वैनं परदक्षिणम अत्रैव चाविरॊधेन एष धर्मः सनातनः ॥ 7 ॥

  8. यदि मे परथमं दरॊणः शरीरे परहरिष्यति ततॊ ऽसय परहरिष्यामि नास्य कॊपॊ भविष्यति ॥ 8 ॥

  9. अस्याविदूरे तु धनुर धवजाग्रे यस्य दृश्यते आचार्यस्यैष पुत्रॊ वै अश्वत्थामा महारथः ॥ 9 ॥

  10. सदा ममैष मान्यश च सर्वशस्त्रभृताम अपि एतस्य तवं रथं पराप्य निवर्तेथाः पुनः पुनः ॥ 10 ॥

  11. य एष तु रथानीके सुवर्णकवचावृतः सेनाग्र्येण तृतीयेन वयवहार्येण तिष्ठति ॥ 11 ॥

  12. यस्य नागॊ धवजाग्रे वै हेमकेतन संश्रितः धृतराष्ट्रात्मजः शरीमान एष राजा सुयॊधनः ॥ 12 ॥

  13. एतस्याभिमुखं वीर रथं पररथारुजः परापयस्वैष तेजॊ ऽभिप्रमाथी युद्धदुर्मदः ॥ 13 ॥

  14. एष दरॊणस्य शिष्याणां शीघ्रास्त्रः परथमॊ मतः एतस्य दर्शयिष्यामि शीघ्रास्त्रं विपुलं शरैः ॥ 14 ॥

  15. नागकक्ष्या तु रुचिरा धवजाग्रे यस्य तिष्ठति एष वैकर्तनः कर्णॊ विदितः पूर्वम एव ते ॥ 15 ॥

  16. एतस्य रथम आस्थाय राधेयस्य दुरात्मनः यत्तॊ भवेथाः संग्रामे सपर्धत्य एष मया सदा ॥ 16 ॥

  17. यस तु नीलानुसारेण पञ्च तारेण केतुना हस्तावापी बृहद धन्वा रथे तिष्ठति वीर्यवान ॥ 17 ॥

  18. यस्य तारार्क चित्रॊ ऽसौ रथे धवजवरः सथितः यस्यैतत पाण्डुरं छत्रं विमलं मूर्ध्नि तिष्ठति ॥ 18 ॥

  19. महतॊ रथवंशस्य नाना धवजपताकिनः बलाहकाग्रे सूर्यॊ वा य एष परमुखे सथिथ ॥ 19 ॥

  20. हैमं चन्द्रार्कसंकाशं कवचं यस्य दृश्यते जातरूपशिरस तराणस तरासयन्न इव मे मनः ॥ 20 ॥

  21. एष शांतनवॊ भीष्मः सर्वेषां नः पितामहः राजश्रियावबद्धस तु दुर्यॊधन वशानुगः ॥ 21 ॥

  22. पश्चाद एष परयातव्यॊ न मे विघ्नकरॊ भवेत एतेन युध्यमानस्य यत्तः संयच्छ मे हयान ॥ 22 ॥

  23. ततॊ ऽभयवहद अव्यग्रॊ वैराटिः सव्यसाचिनम यत्रातिष्ठत कृपॊ राजन यॊत्स्यमानॊ धनंजयम ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 51

Previous: अध्याय 49