[वै] स शत्रुसेनां तरसा परणुद्य; गास ता विजित्याथ धनुर्धराग्र्यः दुर्यॊधनायाभिमुखं परयातॊ; भूयॊ ऽरजुनः परियम आजौ चिकीर्षन ॥ 1 ॥
गॊषु परयातासु जवेन मत्स्यान; किरीटिनं कृतकार्यं च मत्वा दुर्यॊधनायाभिमुखं परयान्तं; कुरुप्रवीराः सहसाभिपेतुः ॥ 2 ॥
तेषाम अनीकानि बहूनि गाड्ढं; वयूढानि दृष्ट्वा बलुल धवजानि मत्स्यस्य पुत्रं दविषतां निहन्ता; वैराटिम आमन्त्र्य ततॊ ऽभयुवाच ॥ 3 ॥
एतेन तूर्णं परतिपादयेमाञ; शवेतान हयान काञ्चनरश्मि यॊक्त्रान जवेन सर्वेण कुरु परयत्नम; आसादयैतद रथसिंहवृन्दम ॥ 4 ॥
गजॊ गजेनेव मया दुरात्मा; यॊ यॊद्धुम आकाङ्क्षति सूतपुत्रः तम एव मां परापय राजपुत्र; दुर्यॊधनापाश्रय जातदर्पम ॥ 5 ॥
स तैर हयैर वातजवैर बृहद भिः; पुत्रॊ विराटस्य सुवर्णकक्ष्यैः विध्वंसयंस तद्रथिनाम अनीकं; ततॊ ऽवहत पाण्डवम आजिमध्ये ॥ 6 ॥
तं चित्रसेनॊ विशिखैर विपाठैः; संग्रामजिच छत्रुसहॊ जयश च परत्युद्ययुर भारतम आपतन्तं; महारथाः कर्णम अभीप्समानाः ॥ 7 ॥
ततः स तेषां पुरुषप्रवीरः; शरासनार्चिः शरवेगतापः वरातान रथानाम अदहत स मन्युर; वनं यथाग्निः कुरुपुंगवानाम ॥ 8 ॥
तस्मिंस तु युद्धे तुमुले परवृत्ते; पार्थं विकर्णॊ ऽतिरथं रथेन विपाठ वर्षेण कुरुप्रवीरॊ; भीमेन भीमानुजम आससाद ॥ 9 ॥
ततॊ विकर्णस्य धनुर विकृष्य; जाम्बूनदाग्र्यॊपचितं दृढज्यम अपातयद धवजम अस्य परमथ्य; छिन्नध्वजः सॊ ऽपय अपयाज जवेन ॥ 10 ॥
तं शात्रवाणां गणबाधितारं; कर्माणि कुर्वाणम अमानुषाणि शत्रुं तपः कॊपम अमृष्यमाणः; समर्पयत कूर्मनखेन पार्थम ॥ 11 ॥
स तेन राज्ञातिरथेन विद्धॊ; विगाहमानॊ धवजिनीं कुरूणाम शत्रुं तपं पञ्चभिर आशु विद्ध्वा; ततॊ ऽसय सूतं दशभिर जघान ॥ 12 ॥
ततः स विद्धॊ भरतर्षभेण; बाणेन गात्रावरणातिगेन गतासुर आजौ निपपात भूमौ; नगॊ गनाग्राद इव वातरुग्णः ॥ 13 ॥
रथर्षभास ते तु रथर्षभेण; वीरा रणे वीरतरेण भग्नाः चकम्पिरे वातवशेन काले; परकमिप्तानीव महावनानि ॥ 14 ॥
हतास तु पार्थेन नरप्रवीरा; भूमौ युवानः सुषुपुः सुवेषाः वसु परदा वासवतुल्यवीर्याः; पराजिता वासव जेन संख्ये सुवर्णकार्ष्णायस वर्म नद्धा; नागा यथा हैववताः परवृद्धाः ॥ 15 ॥
तथा स शत्रून समरे विनिघ्नन; गाण्डीवधन्वा पुरुषप्रवीरः चचार संख्ये परदिशॊ दिशश च; दहन्न इवाग्निर वनम आतपान्ते ॥ 16 ॥
परकीर्णपर्णानि यथा वसन्ते; विशातयित्वात्यनिलॊ नुदन खे तथा सपत्नान विकिरन किरीटी; चचार संख्ये ऽति रथॊ रथेन ॥ 17 ॥
शॊणाश्ववाहस्य हयान निहत्य; वैकर्तन भरातुर अदीनसत्त्वः एकेन संग्रामजितः शरेण; शिरॊ जहाराथ किरीटमाली ॥ 18 ॥
तस्मिन हते भरातरि सूतपुत्रॊ; वैकर्तनॊ वीर्यम अथाददानः परगृह्य दन्ताव इव नागराजॊ; महर्षभं वयाघ्र इवाभ्यधावत ॥ 19 ॥
स पाण्डवं दवादशभिः पृषत्कैर; वैकर्तनः शीघ्रम उपाजघान विव्याध गात्रेषु हयांश च सर्वान; विराट पुत्रं च शरैर निजघ्ने ॥ 20 ॥
स हस्तिनेवाभिहतॊ गजेन्द्रः; परगृह्य भल्लान निशितान निषङ्गात आ कर्ण पूर्णं च धनुर विकृष्य; विव्याध बाणैर अथ सूतपुत्रम ॥ 21 ॥
अथास्य बाहूरुशिरॊ ललाटं; गरीवां रथाङ्गानि परावमर्दी सथितस्य बाणैर युधि निर्बिभेद; गाण्डीवमुक्तैर अशनिप्रकाशैः ॥ 22 ॥
स पार्थ मुक्तैर विशिखैः परणुन्नॊ; गजॊ गजेनेव जितस तरस्वी विहाय संग्रामशिरः परयातॊ; वैकर्तनः पाण्डव बाणतप्तः ॥ 23 ॥
विराटपर्व · Virata Parva
अध्याय 49
Reach this point to mark the section finished.
Continue to अध्याय 50