धर्मDharmic Data

विराटपर्व · Virata Parva

अध्याय 4

  1. [य] कर्माण्य उक्तानि युष्माभिर यानि तानि करिष्यथ मम चापि यथाबुद्धिरुचितानि विनिश्चयात ॥ 1 ॥

  2. पुरॊहितॊ ऽयम अस्माकम अग्निहॊत्राणि रक्षतु सूदपौरॊगवैः सार्धं दरुपदस्य निवेशने ॥ 2 ॥

  3. इन्द्रसेन मुखाश चेमे रथान आदाय केवलान यान्तु दवारवतीं शीघ्रम इति मे वर्तते मतिः ॥ 3 ॥

  4. इमाश च नार्यॊ दरौपद्याः सर्वशः परिचारिकाः पाञ्चालान एव गच्छन्तु सूदपौरॊगवैः सह ॥ 4 ॥

  5. सर्वैर अपि च वक्तव्यं न परज्ञायन्त पाण्डवाः गता हय अस्मान अपाकीर्य सर्वे दवैतवनाद इति ॥ 5 ॥

  6. विदिते चापि वक्तव्यं सुहृद्भिर अनुरागतः अतॊ ऽहम अपि वक्ष्यामि हेतुमात्रं निबॊधत ॥ 6 ॥

  7. हन्तेमां राजवसतिं राजपुत्रा बरवीमि वः यथा राजकुलं पराप्य चरन परेष्यॊ न रिष्यति ॥ 7 ॥

  8. दुर्वसं तव एव कौरव्या जानता राजवेश्मनि अमानितैः सुमानार्हा अज्ञातैः परिवत्सरम ॥ 8 ॥

  9. दिष्ट दवारॊ लभेद दवारं न च राजसु विश्वसेत तद एवासनम अन्विच्छेद यत्र नाभिषजेत परः ॥ 9 ॥

  10. नास्य यानं न पर्यङ्कं न पीठं न जगं रथम आरॊहेत संमतॊ ऽसमीति स राजवसतिं वसेत ॥ 10 ॥

  11. अथ यत्रैनम आसीनं शङ्केरन दुष्टचारिणः न तत्रॊपविशेज जातु स राजवसतिं वसेत ॥ 11 ॥

  12. न चानुशिष्येद राजानम अपृच्छन्तं कदा चन तूष्णीं तव एनम उपासीत काले समभिपूजयन ॥ 12 ॥

  13. असूयन्ति हि राजानॊ जनान अनृतवादिनः तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा ॥ 13 ॥

  14. नैषां दारेषु कुर्वीत मैत्रीं पराज्ञः कथं चन अन्तःपुर चरा ये च दवेष्टि यानहिताश च ये ॥ 14 ॥

  15. विदिते चास्य कुर्वीत कर्याणि सुलघून्य अपि एवं विचरतॊ राज्ञॊ न कषतिर जायते कव चित ॥ 15 ॥

  16. यत्नाच चॊपचरेद एनम अग्निवद देववच च ह अनृतेनॊपचीर्णॊ हि हिंस्याद एनम असंशयम ॥ 16 ॥

  17. यच च भर्तानुयुञ्जीत तद एवाभ्यनुवर्तयेत परमादम अवलेहां च कॊपं च परिवर्जयेत ॥ 17 ॥

  18. समर्थनासु सर्वासु हितं च परियम एव च संवर्णयेत तद एवास्य परियाद अपि हितं वदेत ॥ 18 ॥

  19. अनुकूलॊ भवेच चास्य सर्वार्थेषु कथासु च अप्रियं चाहितं यत सयात तद अस्मै नानुवर्णयेत ॥ 19 ॥

  20. नाहम अस्य परियॊ ऽसमीति मत्वा सेवेत पण्डितः अप्रमत्तश च यत्तश च हितं कुर्यात परियं च यत ॥ 20 ॥

  21. नास्यानिष्टानि सेवेत नाहितैः सह संवसेत सवस्थानान न विकम्पेत स राजवसतिं वसेत ॥ 21 ॥

  22. दक्षिणं वाथ वामं वा पार्श्वम आसीत पण्डितः रक्षिणां हय आत्तशस्त्राणां सथानं पश्चाद विधीयते नित्यं विप्रतिषिद्धं तु पुरस्ताद आसनं महत ॥ 22 ॥

  23. न च संदर्शने किं चित परवृद्धम अपि संजपेत अपि हय एतद दरिद्राणां वयलीक सथानम उत्तमम ॥ 23 ॥

  24. न मृषाभिहितं राज्ञॊ मनुष्येषु परकाशयेत यं चासूयन्ति राजानः पुरुषं न वदेच च तम ॥ 24 ॥

  25. शूरॊ ऽसमीति न दृप्तः सयाद बुद्धिमान इति वा पुनः परियम एवाचरन राज्ञः परियॊ भवति भॊगवान ॥ 25 ॥

  26. ऐश्वर्यं पराप्य दुष्प्रापं परियं पराप्य च राजतः अप्रमत्तॊ भवेद राज्ञः परियेषु च हितेषु च ॥ 26 ॥

  27. यस्य कॊपॊ महाबाधः परसादश च महाफलः कस तस्य मनसापीच्छेद अनर्थं पराज्ञसंमतः ॥ 27 ॥

  28. न चौष्ठौ निर्भुजेज जातु न च वाक्यं समाक्षिपेत सदा कषुतं च वातं च षठीवनं चाचरेच छनैः ॥ 28 ॥

  29. हास्यवस्तुषु चाप्य अस्य वर्तमानेषु केषु चित नातिगाढं परहृष्येत न चाप्य उन्मत्तवद धसेत ॥ 29 ॥

  30. न चातिधैर्येण चरेद गुरुतां हि वरजेत तथा समितं तु मृदुपूर्वेण दर्शयेत परसादजम ॥ 30 ॥

  31. लाभे न हर्षयेद यस तु न वयथेद यॊ ऽवमानितः असंमूढश च यॊ नित्यं स राजवसतिं वसेत ॥ 31 ॥

  32. राजानं राजपुत्रं वा संवर्तयति यः सदा अमात्यः पण्डितॊ भूत्वा स चिरं तिष्ठति शरियम ॥ 32 ॥

  33. परगृहीतश च यॊ ऽमात्यॊ निगृहीतश च कारणैः न निर्बध्नाति राजानं लभते परग्रहं पुनः ॥ 33 ॥

  34. परत्यक्षं च परॊक्षं च गुणवादी विचक्षणः उपजीवी भवेद राज्ञॊ विषये चापि यॊ वसेत ॥ 34 ॥

  35. अमात्यॊ हि बलाद भॊक्तुं राजानं परार्थयेत तु यः न स तिष्ठेच चिरं सथानं गच्छेच च पराणसंशयम ॥ 35 ॥

  36. शरेयः सदात्मनॊ दृष्ट्वा परं राज्ञा न संवदेत विशेषयेन न राजानं यॊग्या भूमिषु सर्वदा ॥ 36 ॥

  37. अम्लानॊ बलवाञ शूरश छायेवानपगः सदा सत्यवादी मृदुर दान्तः स राजवसतिं वसेत ॥ 37 ॥

  38. अन्यस्मिन परेष्यमाणे तु पुरस्ताद यः समुत्पतेत अहं किं करवाणीति स राजवसतिं वसेत ॥ 38 ॥

  39. उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा आदिष्टॊ न विकल्पेत स राजवसतिं वसेत ॥ 39 ॥

  40. यॊ वै गृहेभ्यः परवसन परियाणां नानुसंस्मरेत दुःखेन सुखम अन्विच्छेत स राजवसतिं वसेत ॥ 40 ॥

  41. समवेषं न कुर्वीत नात्युच्चैः संनिधौ हसेत मन्त्रं न बहुधा कुर्याद एवं राज्ञः परियॊ भवेत ॥ 41 ॥

  42. न कर्मणि नियुक्तः सन धनं किं चिद उपस्पृशेत पराप्नॊति हि हरन दरव्यं बन्धनं यदि वा वधम ॥ 42 ॥

  43. यानं वस्त्रम अलंकारं यच चान्यत संप्रयच्छति तद एव धारयेन नित्यम एवं परियतरॊ भवेत ॥ 43 ॥

  44. संवत्सरम इमं तात तथा शीला बुभूषवः अथ सवविषयं पराप्य यथाकामं चरिष्यथ ॥ 44 ॥

  45. अनुशिष्टाः सम भद्रं ते नैतद वक्तास्ति कश चन कुन्तीम ऋते मातरं नॊ विदुरं च महामतिम ॥ 45 ॥

  46. यद एवानन्तरं कार्यं तद भवान कर्तुम अर्हति तारणायास्य दुःखस्य परस्थानाय जयाय च ॥ 46 ॥

  47. [वै] एवम उक्तस ततॊ राज्ञा धौम्यॊ ऽथ दविजसत्तमः अकरॊद विधिवत सर्वं परस्थाने यद विधीयते ॥ 47 ॥

  48. तेषां समिध्य तान अग्नीन मन्त्रवच च जुहाव सः समृद्धि वृद्धिलाभाय पृथिवी विजयाय च ॥ 48 ॥

  49. अग्निं परदक्षिणं कृत्वा बराह्मणांश च तपॊधनान याज्ञसेनीं पुरस्कृत्य षड एवाथ परवव्रजुः ॥ 49 ॥

Reach this point to mark the section finished.

Continue to अध्याय 5

Previous: अध्याय 3