[वै] तथा वयूढेष्व अनीकेषु कौरवेयैर महारथैः उपायाद अर्जुनस तूर्णं रथघॊषेण नादयन ॥ 1 ॥
ददृशुस ते धवजाग्रं वै शुश्रुवुश च रथस्वनम दॊधूयमानस्य भृशं गाण्डीवस्य च निस्वनम ॥ 2 ॥
ततस तत सर्वम आलॊक्य दरॊणॊ वचनम अब्रवीत महारथम अनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम ॥ 3 ॥
एतद धवजाग्रं पार्थस्य दूरतः संप्रकाशते एष घॊषः स जलदॊ रॊरवीति च वानरः ॥ 4 ॥
एष तिष्ठन रथश्रेष्ठॊ रथे रथवरप्रणुत उत्कर्षति धनुःश्रेष्ठं गाण्डीवम अशनिस्वनम ॥ 5 ॥
इमौ हि बाणौ सहितौ पादयॊर मे वयवस्थितौ अपरौ चाप्य अतिक्रान्तौ कर्णौ संस्पृश्य मे शरौ ॥ 6 ॥
निरुष्य हि वनेवासं कृत्वा कर्माति मानुषम अभिवादयते पार्थः शरॊत्रे च परिपृच्छति ॥ 7 ॥
[अर्ज] इषुपाते च सेनाया हयान संयच्छ सारथे यावत समीक्षे सैन्ये ऽसमिन कवासौ कुरु कुलाधमः ॥ 8 ॥
सर्वान अन्यान अनादृत्य दृष्ट्वा तम अति मानिनम तस्य मूर्ध्नि पतिष्यामि तत एते पराजिताः ॥ 9 ॥
एष वयवस्थितॊ दरॊणॊ दरौणिश च तदनन्तरम भीष्मः कृपश च कर्णश च महेष्वासा वयवस्थिताः ॥ 10 ॥
राजानं नात्र पश्यामि गाः समादाय गच्छति दक्षिणं मार्गम आस्थाय शङ्के जीव परायणः ॥ 11 ॥
उत्सृज्यैतद रथानीकं गच्छ यत्र सुयॊधनः तत्रैव यॊत्स्ये वैराटे नास्ति युद्धं निरामिषम तं जित्वा विनिवर्तिष्ये गाः समादाय वै पुनः ॥ 12 ॥
[वै] एवम उक्तः स वैराटिर हयान संयम्य यत्नतः नियम्य च ततॊ रश्मीन यत्र ते कुरुपुंगवाः अचॊदयत ततॊ वाहान यतॊ दुर्यॊधनस ततः ॥ 13 ॥
उत्सृज्य रथवंशं तु परयाते शवेतवाहने अभिप्रायं विदित्वास्य दरॊणॊ वचनम अब्रवीत ॥ 14 ॥
नैषॊ ऽनतरेण राजानं बीभत्सुः सथातुम इच्छति तस्य पार्ष्णिं गरहीष्यामॊ जवेनाभिप्रयास्यतः ॥ 15 ॥
न हय एनम अभिसंक्रुद्धम एकॊ युध्येत संयुगे अन्यॊ देवात सहस्राक्षात कृष्णाद वा देवकी सुतात ॥ 16 ॥
किं नॊ गावः करिष्यन्ति धनं वा विपुलं तथा दुर्यॊधनः पार्थ जले पुरा नौर इव मज्जति ॥ 17 ॥
तथैव गत्वा बीभत्सुर नाम विश्राव्य चात्मनः शलभैर इव तां सेनां शरैः शीघ्रम अवाकिरत ॥ 18 ॥
कीर्यमाणाः शरौघैस तु यॊधास ते पार्थ चॊदितैः नापश्यन नावृतां भूमिम अन्तरिक्षं च पत्रिभिः ॥ 19 ॥
तेषां नात्मनिनॊ युद्धे नापयाने ऽभवन मतिः शीघ्रत्वम एव पार्थस्य पूजयन्ति सम चेतसा ॥ 20 ॥
ततः शङ्खं परदध्मौ स दविषतां लॊमहर्षणम विस्फार्य च धनुःश्रेष्ठं धवजे भूतान्य अचॊदयत ॥ 21 ॥
तस्य शङ्खस्य शब्देन रथनेमि सवनेन च अमानुषाणां तेषां च भूतानां धवजवासिनाम ॥ 22 ॥
ऊर्ध्वं पुच्छान विधुन्वाना रेभमाणाः समन्ततः गावः परतिन्यवर्तन्त दिशम आस्थाय दक्षिणाम ॥ 23 ॥
विराटपर्व · Virata Parva
अध्याय 48
Reach this point to mark the section finished.
Continue to अध्याय 49