धर्मDharmic Data

विराटपर्व · Virata Parva

अध्याय 47

  1. [भीस्म] कलांशास तात युज्यन्ते मुहूर्ताश च दिनानि च अर्धमासाश च मासाश च नक्षत्राणि गरहास तथा ॥ 1 ॥

  2. ऋतवश चापि युज्यन्ते तथा संवत्सरा अपि एवं कालविभागेन कालचक्रं परवर्तते ॥ 2 ॥

  3. तेषां कालातिरेकेण जयॊतिषां च वयतिक्रमात पञ्चमे पञ्चमे वर्षे दवौ मासाव उपजायतः ॥ 3 ॥

  4. तेषाम अभ्यधिका मासाः पञ्च दवादश च कषपाः तरयॊदशानां वर्षाणाम इति मे वर्तते मतिः ॥ 4 ॥

  5. सर्वं यथावच चरितं यद यद एभिः परिश्रुतम एवम एतद धरुवं जञात्वा ततॊ बीभत्सुर आगतः ॥ 5 ॥

  6. सर्वे चैव महात्मानः सर्वे धर्मार्थकॊविदाः येषां युधिष्ठिरॊ राजा कस्माद धर्मे ऽपराध्नुयुः ॥ 6 ॥

  7. अलुब्धाश चैव कौन्तेयाः कृतवन्तश च दुष्करम न चापि केवलं राज्यम इच्छेयुस ते ऽनुपायतः ॥ 7 ॥

  8. तदैव ते हि विक्रान्तुम ईषुः कौरवनन्दनाः धर्मपाशनिबद्धास तु न चेलुः कषत्रिय वरतात ॥ 8 ॥

  9. यच चानृत इति खयायेद यच च गच्छेत पराभवम वृणुयुर मरणं पार्था नानृतत्वं कथं चन ॥ 9 ॥

  10. पराप्ते तु काले पराप्तव्यं नॊत्सृजेयुर नरर्षभाः अपि वज्रभृता गुप्तं तथा वीर्या हि पाण्डवाः ॥ 10 ॥

  11. परतियुध्याम समरे सर्वशस्त्रभृतां वरम तस्माद यद अत्र कल्याणं लॊके सद भिर अनुष्ठितम तत संविधीयतां कषिप्रं मा नॊ हय अर्थॊ ऽतिगात परान ॥ 11 ॥

  12. न हि पश्यामि संग्रामे कदा चिद अपि कौरव एकान्तसिद्धिं राजेन्द्र संप्राप्तश च धनंजयः ॥ 12 ॥

  13. संप्रवृत्ते तु संग्रामे भावाभावौ जयाजयौ अवश्यम एकं सपृशतॊ दृष्टम एतद असंशयम ॥ 13 ॥

  14. तस्माद युद्धावचरिकं कर्म वा धर्मसंहितम करियताम आशु राजेन्द्र संप्राप्तॊ हि धनंजयः ॥ 14 ॥

  15. [दुर] नाहं राज्यं परदास्यामि पाण्डवानां पितामह युद्धावचारिकं यत तु तच छीघ्रं संविधीयताम ॥ 15 ॥

  16. [भीस्म] अत्र या मामकी बुद्धिः शरूयतां यदि रॊचते कषिप्रं बलचतुर्भागं गृह्य गच्छ पुरं परति ततॊ ऽपरश चतुर्भागॊ गाः समादाय गच्छतु ॥ 16 ॥

  17. वयं तव अर्धेन सैन्येन परतियॊत्स्याम पाण्डवम मत्स्यं वा पुनर आयातम अथ वापि शतक्रतुम ॥ 17 ॥

  18. आचार्यॊ मध्यतस तिष्ठत्व अश्वत्थामा तु सव्यतः कृपः शारद्वतॊ धीमान पार्श्वं रक्षतु दक्षिणम ॥ 18 ॥

  19. अग्रतः सूतपुत्रस तु कर्णस तिष्ठतु दंशितः अहं सर्वस्य सैनस्य पश्चात सथास्यामि पालयन ॥ 19 ॥

Reach this point to mark the section finished.

Continue to अध्याय 48

Previous: अध्याय 46