[भीस्म] साधु पश्यति वै दरॊणः कृपः साध्व अनुपश्यति कर्णस तु कषत्रधर्मेण यथावद यॊद्धुम इच्छति ॥ 1 ॥
आचार्यॊ नाभिषक्तव्यः पुरुषेण विजानता देशकालौ तु संप्रेक्ष्य यॊद्धव्यम इति मे मतिः ॥ 2 ॥
यस्य सूर्यसमाः पञ्च सपत्नाः सयुः परहारिणः कथम अभ्युदये तेषां न परमुह्येत पण्डितः ॥ 3 ॥
सवार्थे सर्वे विमुह्यन्ति ये ऽपि धर्मविदॊ जनाः तस्माद राजन बरवीम्य एष वाक्यं ते यदि रॊचते ॥ 4 ॥
कर्णॊ यद अभ्यवॊचन नस तेजः संजननाय तत आचार्य पुत्रः कषमतां महत कार्यम उपस्थितम ॥ 5 ॥
नायं कालॊ विरॊधस्य कौन्तेये समुपस्थिते कषन्तव्यं भवता सर्वम आचार्येण कृपेण च ॥ 6 ॥
भवतां हि कृतास्त्रत्वं यथादित्ये परभा तथा यथा चन्द्रमसॊ लक्ष्म सर्वथा नापकृष्यते एवं भवत्सु बराह्मण्यं बरह्मास्त्रं च परतिष्ठितम ॥ 7 ॥
चत्वार एकतॊ वेदाः कषात्रम एकत्र दृश्यते नैतत समस्तम उभयं कश्मिंश चिद अनुशुश्रुमः ॥ 8 ॥
अन्यत्र भारताचार्यात सपुत्राद इति मे मतिः बरह्मास्त्रं चैव वेदाश च नैतद अन्यत्र दृश्यते ॥ 9 ॥
आचार्य पुत्रः कषमतां नायं कालः सवभेदने सर्वे संहत्य युध्यामः पाकशासनिम आगतम ॥ 10 ॥
बलस्य वयसनानीह यान्य उक्तानि मनीषिभिः मुख्यॊ भेदॊ हि तेषां वै पापिष्ठॊ विदुषां मतः ॥ 11 ॥
[अष्वत्थ] आचार्य एव कषमतां शान्तिर अत्र विधीयताम अभिषज्यमाने हि गुरौ तद्वृत्तं रॊषकारितम ॥ 12 ॥
[वै] ततॊ दुर्यॊधनॊ दरॊणं कषमयाम आस भारत सह कर्णेन भीष्मेण कृपेण च महात्मना ॥ 13 ॥
[दरॊण] यद एव परथमं वाक्यं भीष्मः शांतनवॊ ऽबरवीत तेनैवाहं परसन्नॊ वै परमम अत्र विधीयताम ॥ 14 ॥
यथा दुर्यॊधने ऽयत्ते नागः सपृशति सैनिकान साहसद यदि वा मॊहात तथा नीतिर विधीयताम ॥ 15 ॥
वनवासे हय अनिर्वृत्ते दर्शयेन न धनंजयः धनं वालभमानॊ ऽतर नाद्य नः कषन्तुम अर्हति ॥ 16 ॥
यथा नायं समायुज्याद धार्तराष्ट्रान कथं चन यथा च न पराजय्यात तथा नीतिर विधीयताम ॥ 17 ॥
उक्तं दुर्यॊधनेनापि पुरस्ताद वाक्यम ईदृशम तद अनुस्मृत्य गाङ्गेय यथावद वक्तुम अर्हसि ॥ 18 ॥
विराटपर्व · Virata Parva
अध्याय 46
Reach this point to mark the section finished.
Continue to अध्याय 47