धर्मDharmic Data

विराटपर्व · Virata Parva

अध्याय 45

  1. [अष्वत्थ] न च तावज जिता गावॊ न च सीमान्तरं गताः न हास्तिनपुरं पराप्तास तवं च कर्ण विकत्थसे ॥ 1 ॥

  2. संग्रामान सुबहूञ जित्वा लब्ध्वा च विपुलं धनम विजित्य च परां भूमिं नाहुः किं चन पौरुषम ॥ 2 ॥

  3. पचत्य अग्निर अवाक्यस तु तूष्णीं भाति दिवाकरः तूष्णीं धारयते लॊकान वसुधा स चराचरान ॥ 3 ॥

  4. चातुर्वर्ण्यस्य कर्माणि विहितानि मनीषिभिः धनं यैर अधिगन्तव्यं यच च कुर्वन न दुष्यति ॥ 4 ॥

  5. अधीत्य बराह्मणॊ वेदान याजयेत यजेत च कषत्रियॊ धनुर आश्रित्य जयेतैव न याजयेत वैश्यॊ ऽधिगम्य दरव्याणि बरह्मकर्माणि कारयेत ॥ 5 ॥

  6. वर्तमाना यथाशास्त्रं पराप्य चापि महीम इमाम सत कुर्वन्ति महाभागा रुगून सुविगुनान अपि ॥ 6 ॥

  7. पराप्य दयूतेन कॊ राज्यं कषत्रियस तॊष्टुम अर्हति तथा नृशंसरूपेण यथान्यः पराकृतॊ जनः ॥ 7 ॥

  8. तथावाप्तेषु वित्तेषुकॊ विकत्थेद विचक्षणः निकृत्या वञ्चना यॊगैश चरन वैतंसिकॊ यथा ॥ 8 ॥

  9. कतमद दवैरथं युद्धं यत्राजैषीर धनंजयम नकुलं सहदेवं च धनं येषां तवया हृतम ॥ 9 ॥

  10. युधिष्ठिरॊ जितः कस्मिन भीमश च बलिनां वरः इन्द्रप्रस्थं तवया कस्मिन संग्रामे निर्जितं पुरा ॥ 10 ॥

  11. कथैव कतमं युद्धं यस्मिन कृष्णा जिता तवया एकवस्त्रा सभां नीता दुष्टकर्मन रजस्वला ॥ 11 ॥

  12. मूलम एषां महत कृत्तं सारार्थी चन्दनं यथा कर्म कारयिथाः शूर तत्व किं विदुरॊ ऽबरवीत ॥ 12 ॥

  13. यथाशक्ति मनुष्याणां शमम आलक्षयामहे अन्येषां चैव सत्त्वानाम अपि कीट पिपीलिके ॥ 13 ॥

  14. दरौपद्यास तं परिक्लेशं न कषन्तुं पाण्डवॊ ऽरहति दुःखाय धार्तराष्ट्राणां परादुर्भूतॊ धनंजयः ॥ 14 ॥

  15. तवं पुनः पण्डितॊ भूत्वा वाचं वक्तुम इहेच्छसि वैरान्त करणॊ जिष्णुर न नः शेषं करिष्यति ॥ 15 ॥

  16. नैष देवान न गन्धर्वान नासुरान न च राक्षसान भयाद इह न युध्येत कुन्तीपुत्रॊ धनंजयः ॥ 16 ॥

  17. यं यम एषॊ ऽभिसंक्रुद्धः संग्रामे ऽभिपतिष्यति वृक्षं गुरुड वेगेन विनिहत्य तम एष्यति ॥ 17 ॥

  18. तवत्तॊ विशिष्टं वीर्येण धनुष्य अमर राट समम वासुदेव समं युद्धे तं पार्थं कॊ न पूजयेत ॥ 18 ॥

  19. दैवं दैवेन युध्येत मानुषेण च मानुषम अस्त्रेणास्त्रं समाहन्यात कॊ ऽरजुनेन समः पुमान ॥ 19 ॥

  20. पुत्राद अनन्तरः शिष्य इति धर्मविदॊ विदुः एतेनापि निमित्तेन परियॊ दरॊणस्य पाण्डवः ॥ 20 ॥

  21. यथा तवम अकरॊर दयूतम इन्द्रप्रस्थं यथाहरः यथानैषीः सभां कृष्णां तथा युध्यस्व पाण्डवम ॥ 21 ॥

  22. अयं ते मातुलः पराज्ञः कषत्रधर्मस्य कॊविदः दुर्द्यूत देवी गान्धारः शकुनिर युध्यताम इह ॥ 22 ॥

  23. नाक्षान कषिपति गाण्डीवं न कृतं दवापरं न च जवलतॊ निशितान बाणांस तीक्ष्णान कषिपति गाण्डिवम ॥ 23 ॥

  24. न हि गाण्डीवनिर्मुक्ता गार्ध्रपत्राः सुतेजनाः अन्तरेष्व अवतिष्ठन्ति गिरीणाम अपि दारणाः ॥ 24 ॥

  25. अन्तकः शमनॊ मृत्युस तथाग्निर वडवामुखः कुर्युर एते कव चिच छेषं न तु करुद्धॊ धनंजयः ॥ 25 ॥

  26. युध्यतां कामम आचार्यॊ नाहं यॊत्स्ये धनंजयम मत्स्यॊ हय अस्माभिर आयॊध्यॊ यद्य आगच्छेद गवां पदम ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 46

Previous: अध्याय 44