[कृप] सदैव तव राधेय युद्धे करूरतरा मतिः नार्थानां परकृतिं वेत्थ नानुबन्धम अवेक्षसे ॥ 1 ॥
नया हि बहवः सन्ति शास्त्राण्य आश्रित्य चिन्तिताः तेषां युद्धं तु पापिष्ठं वेदयन्ति पुरा विदः ॥ 2 ॥
देशकालेन संयुक्तं युद्धं विजयदं भवेत हीनकालं तद एवेह फलवन न भवत्य उत देशे काले च विक्रान्तं कल्याणाय विधीयते ॥ 3 ॥
आनुकूल्येन कार्याणाम अन्तरं संविधीयताम भारं हि रथकारस्य न वयवस्यन्ति पण्डिताः ॥ 4 ॥
परिचिन्त्य तु पार्थेन संनिपातॊ न नः कषमः एकः कुरून अभ्यरक्षद एकश चाग्निम अतर्पयत ॥ 5 ॥
एकश च पञ्चवर्षाणि बरह्मचर्यम अधारयत एकः सुभद्राम आरॊप्य दवैरथे कृष्णम आह्वयत अस्मिन्न एव वने कृष्णॊ हृतां कृष्णाम अवाजयत ॥ 6 ॥
एकश च पञ्चवर्षाणि शक्राद अस्त्राण्य अशिक्षत एकः साम्यमिनीं जित्वा कुरूणाम अकरॊद यशः ॥ 7 ॥
एकॊ गन्धर्वराजानं चित्रसेनम अरिंदमः विजिग्ये तरसा संख्ये सेनां चास्य सुदुर्जयाम ॥ 8 ॥
तथा निवातकवचाः कालखञ्जाश च दानवाः दैवतैर अप्य अवध्यास ते एकेन युधि पातिताः ॥ 9 ॥
एकेन हि तवया कर्ण किंनामेह कृतं पुरा एकैकेन यथा तेषां भूमिपाला वशीकृताः ॥ 10 ॥
इन्द्रॊ ऽपि हि न पार्थेन संयुगे यॊद्धुम अर्हति यस तेनाशंसते यॊद्धुं कर्तव्यं तस्य भेषजम ॥ 11 ॥
आशीविषस्य करुद्धस्य पाणिम उद्यम्य दक्षिणम अविमृश्य परदेशिण्या दंष्ट्राम आदातुम इच्छसि ॥ 12 ॥
अथ वा कुञ्जरं मत्तम एक एव चरन वने अनङ्कुशं समारुह्य नगरं गन्तुम इच्छसि ॥ 13 ॥
समिद्धं पावकं वापि घृतमेदॊ वसा हुतम घृताक्तश चीरवासास तवं मध्येनॊत्तर्तुम इच्छसि ॥ 14 ॥
आत्मानं यः समुद्बध्य कण्ढे बद्ध्वा महाशिलाम समुद्रं परतरेद दॊर्भ्यां तत्र किंनाम पौरुषम ॥ 15 ॥
अकृतास्त्रः कृतास्त्रं वै बलवन्तं सुदुर्बलः तादृशं कर्ण यः पार्थं यॊद्धुम इच्छेत स दुर्मतिः ॥ 16 ॥
अस्माभिर एष निकृतॊ वर्षाणीह तरयॊदश सिंहः पाशविनिर्मुक्तॊ न नः शेषं करिष्यति ॥ 17 ॥
एकान्ते पार्थम आसीनं कूपे ऽगनिम इव संवृतम अज्ञानाद अभ्यवस्कन्द्य पराप्ताः समॊ भयम उत्तमम ॥ 18 ॥
सह युध्यामहे पार्थम आगतं युद्धदुर्मदम सैन्यास तिष्ठन्तु संनद्धा वयूढानीकाः परहारिणः ॥ 19 ॥
दरॊणॊ दुर्यॊधनॊ भीष्मॊ भवान दरौणिस तथा वयम सर्वे युध्यामहे पार्थं कर्ण मा साहसं कृथाः ॥ 20 ॥
वयं वयवसितं पार्थं वज्रपाणिम इवॊद्यतम षड रथाः परतियुध्येम तिष्ठेम यदि संहताः ॥ 21 ॥
वयूढानीकानि सैन्यानि यत्ताः परमधन्विनः युध्यामहे ऽरजुनं संख्ये दानवा वासवं यथा ॥ 22 ॥
विराटपर्व · Virata Parva
अध्याय 44
Reach this point to mark the section finished.
Continue to अध्याय 45