[कर्ण] सर्वान आयुष्मतॊ भीतान संत्रस्तान इव लक्षये अयुद्धमनसश चैव सर्वांश चैवानवस्थितान ॥ 1 ॥
यद्य एष राजा मत्स्यानां यदि बीभत्सुर आगतः अहम आवारयिष्यामि वेलेव मकरालयम ॥ 2 ॥
मम चापप्रमुक्तानां शराणां नतपर्वणाम नावृत्तिर गच्छताम अस्ति सर्पाणाम इव सर्पताम ॥ 3 ॥
रुक्मपुङ्खाः सुतीक्ष्णाग्रा मुक्ता हस्तवता मया छादयन्तु शराः पार्थं शलभा इव पादपम ॥ 4 ॥
शराणां पुङ्खसक्तानां मौर्व्याभिहतया दृढम शरूयतां तलयॊः शब्दॊ भेर्यॊर आहतयॊर इव ॥ 5 ॥
समाहितॊ हि बीभत्सुर वर्षाण्य अष्टौ च पञ्च च जातस्नेहश च युद्धस्य मयि संप्रहरिष्यति ॥ 6 ॥
पात्री भूतश च कौन्तेयॊ बराह्मणॊ गुणवान इव शरौघान परतिगृह्णातु मया मुक्तान सहस्रशः ॥ 7 ॥
एष चैव महेष्वासस तरिषु लॊकेषु विश्रुतः अहं चापि कुरुश्रेष्ठा अर्जुनान नावरः कव चित ॥ 8 ॥
इतश चेतश च निर्मुक्तैः काञ्चनैर गार्ध्रवाजितैः दृश्यताम अद्य वै वयॊम खद्यॊतैर इव संवृतम ॥ 9 ॥
अद्याहम ऋणम अक्षय्यं पुरा वाचा परतिश्रुतम धार्तराष्ट्रस्य दास्यामि निहत्य समरे ऽरजुनम ॥ 10 ॥
अन्तरा छिद्यमानानां पुङ्खानां वयतिशीर्यताम शलभानाम इवाकाशे परचारः संप्रदृश्यताम ॥ 11 ॥
इन्द्राशनिसमस्पर्शं महेन्द्रसमतेजसम अर्दयिष्याम्य अहं पार्थम उल्काभिर इव कुञ्जरम ॥ 12 ॥
तम अग्निम इव दुर्धर्षम असि शक्तिशरेन्धनम पाण्डवाग्निम अहं दीप्तं परदहन्तम इवाहितान ॥ 13 ॥
अव वेगपुरॊ वातॊ रथौघस्तनयित्नुमान शरधारॊ महामेघः शमयिष्यामि पाण्डवम ॥ 14 ॥
मत्कार्मुकविनिर्मुक्ताः पार्थम आशीविषॊपमाः शराः समभिसर्पन्तु वल्मीकम इव पन्नगाः ॥ 15 ॥
जामदग्न्यान मया हय अस्त्रं यत पराप्तम ऋषिसत्तमात तद उपाश्रित्य वीर्यं च युध्येयम अपि वासवम ॥ 16 ॥
धवजाग्रे वानरस तिष्ठन भल्लेन निहतॊ मया अद्यैव पततां भूमौ विनदन भैरवान रवान ॥ 17 ॥
शत्रॊर मयाभिपन्नानां भूतानां धवजवासिनाम दिशः परतिष्ठमानानाम अस्तु शब्दॊ दिवं गतः ॥ 18 ॥
अद्य दुर्यॊधनस्याहं शल्यं हृदि चिरस्थितम स मूलम उद्धरिष्यामि बीभत्सुं पातयन रथात ॥ 19 ॥
हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम निःश्वसन्तं यथा नागम अद्य पश्यन्तु कौरवाः ॥ 20 ॥
कामं गच्छन्तु कुरवॊ धनम आदाय केवलम रथेषु वापि तिष्ठन्तॊ युद्धं पश्यन्तु मामकम ॥ 21 ॥
विराटपर्व · Virata Parva
अध्याय 43
Reach this point to mark the section finished.
Continue to अध्याय 44