[वै] अथ दुर्यॊधनॊ राजा समरे भीष्मम अब्रवीत दरॊणं च रथशार्दूलं कृक्पं च सुमहारथम ॥ 1 ॥
उक्तॊ ऽयम अर्थ आचार्यॊ मया कर्णेन चासकृत पुनर एव च वक्ष्यामि न हि तृप्यामि तं बरुवन ॥ 2 ॥
पराजितैर हि वस्तव्यं तैश च दवादश वत्सरान वने जनपदे ऽजञातैर एष एव पणॊ हि नः ॥ 3 ॥
तेषां न तावन निर्वृत्तं वर्तते तु तरयॊदशम अज्ञातवासं बीभत्सुर अथास्माभिः समागतः ॥ 4 ॥
अनिवृत्ते तु निर्वासे यदि बीभत्सुर आगतः पुनर दवादश वर्षाणि वने वत्स्यन्ति पाण्डवाः ॥ 5 ॥
लॊभाद वा ते न जानीयुर अस्मान वा मॊह आविशत हीनातिरिक्तम एतेषां भीष्मॊ वेदितुम अर्हति ॥ 6 ॥
अर्थानां तु पुनर दवैधे नित्यं भवति संशयः अन्यथा चिन्तितॊ हय अर्थः पुनर भवति चान्यथा ॥ 7 ॥
उत्तरं मार्गमाणानां मत्स्यसेनां युयुत्सताम यदि बीभत्सुर आयातस तेषां कः सयात पराङ्मुखः ॥ 8 ॥
तरिगर्तानां वयं हेतॊर मत्स्यान यॊद्धुम इहागताः मत्स्यानां विप्रकारांस ते बहून अस्मान अकीर्तयन ॥ 9 ॥
तेषां भयाभिपन्नानां तद अस्माभिः परतिश्रुतम परथमं तैर गरहीतव्यं मत्स्यानां गॊधनं महत ॥ 10 ॥
सप्तमीम अपराह्णे वै तथा नस तैः समाहितम अष्टम्यां पुनर अस्माभिर आदित्यस्यॊदयं परति ॥ 11 ॥
ते वा गावॊ न पश्यन्ति यदि व सयुः पराजिताः अस्मान वाप्य अतिसंधाय कुर्युर मत्स्येन संगतम ॥ 12 ॥
अथ वा तान उपायातॊ मत्स्यॊ जानपदैः सह सर्वया सेनया सार्धम अस्मान यॊद्धुम उपागतः ॥ 13 ॥
तेषाम एव महावीर्यः कश चिद एव पुरःसरः अस्माञ जेतुम इहायातॊ मत्स्यॊ वापि सवयं भवेत ॥ 14 ॥
यद्य एष राजा मत्स्यानां यदि बीभत्सुर आगतः सर्वैर यॊद्धव्यम अस्माभिर इति नः समयः कृतः ॥ 15 ॥
अथ कस्मात सथिता हय एते रथेषु रथसत्तमाः भीष्मॊ दरॊणः कृपश चैव विकर्णॊ दरौणिर एव च ॥ 16 ॥
संभ्रान्तमनसः सर्वे काले हय अस्मिन महारथाः नान्यत्र युद्धाच छरेयॊ ऽसति तथात्मा परणिधीयताम ॥ 17 ॥
आच्छिन्ने गॊधने ऽसमाकम अपि देवेन वर्जिणा यमेन वापि संग्रामे कॊ हास्तिनपुरं वरजेत ॥ 18 ॥
शरैर अभिप्रणुन्नानां भग्नानां गहने वने कॊ हि जीवेत पदातीनां भवेद अश्वेषु संशयः आचार्यं पृष्ठतः कृत्वा तथा नीतिर विधीयताम ॥ 19 ॥
जानाति हि मतं तेषाम अतस तरासयतीव नः अर्जुनेनास्य संप्रीतिम अधिकाम उपलक्षये ॥ 20 ॥
तथा हि दृष्ट्वा बीभत्सुम उपायान्तं परशंसति यथा सेना न भज्येत तथा नीतिर विधीयताम ॥ 21 ॥
अदेशिका महारण्ये गरीष्मे शत्रुवशं गता यथा न विभ्रमेत सेना तथा नीतिर विधीयताम ॥ 22 ॥
अश्वानां हेषितं शरुत्वा का परशंसा भवेत परे सथाने वापि वरजन्तॊ वा सदा हेषन्ति वाजिनः ॥ 23 ॥
सदा च वायवॊ वान्ति नित्यं वर्षति वासवः सतनयित्नॊश च निर्घॊषः शरूयते बहुशस तथा ॥ 24 ॥
किम अत्र कार्यं पार्थस्य कथं वा स परशस्यते अन्यत्र कामाद दवेषाद वा रॊषाद वास्मासु केवलात ॥ 25 ॥
आचार्या वै कारुणिकाः पराज्ञाश चापाय दर्शिनः नैते महाभये पराप्ते संप्रष्टव्याः कथं चन ॥ 26 ॥
परासादेषु विचित्रेषु गॊष्ठीष्व आवसथेषु च कथा विचित्राः कुर्वाणाः पिण्डितास तत्र शॊभनाः ॥ 27 ॥
बहून्य आश्चर्यरूपाणि कुर्वन्तॊ जनसंसदि इष्वस्त्रे चारु संधाने पण्डितास तत्र शॊभनाः ॥ 28 ॥
परेषां विवर जञाने मनुष्याचरितेषु च अन्नसंस्कार दॊषेषु पण्डितास तत्र शॊभनाः ॥ 29 ॥
पण्डितान पृष्ठतः कृत्वा परेषां गुणवादिनः विधीयतां तथा नीतिर यथ वध्येत वै परः ॥ 30 ॥
गावश चैव परतिष्ठन्तां सेनां वयूहन्तु माचिरम आरक्षाश च विधीयन्तां यत्र यॊत्स्यामहे परान ॥ 31 ॥
विराटपर्व · Virata Parva
अध्याय 42
Reach this point to mark the section finished.
Continue to अध्याय 43