धर्मDharmic Data

विराटपर्व · Virata Parva

अध्याय 41

  1. [वै] उत्तरं सारथिं कृत्वा शमीं कृत्वा परदक्षिणम आयुधं सर्वम आदाय ततः परायाद धनंजयः ॥ 1 ॥

  2. धवजं सिंहं रथात तस्माद अपनीय महारथः परणिधाय शमी मूले परायाद उत्तरसारथिः ॥ 2 ॥

  3. दैवीं मायां रथे युक्त्वा विहितां विश्वकर्मणा काञ्चनं सिंहलाङ्गूलं धवजं वानरलक्षणम ॥ 3 ॥

  4. मनसा चिन्तयाम आस परसादं पावकस्य च स च तच चिन्तितं जञात्वा धवजे भूतान्य अचॊदयत ॥ 4 ॥

  5. स पताकं विचित्राङ्गं सॊपासङ्गं महारथः रथम आस्थाय बीभत्सुः कौन्तेयः शवेतवाहनः ॥ 5 ॥

  6. बधासिः स तनुत्राणः परगृहीतशरासनः ततः परायाद उदीचीं स कपिप्रवर केतनः ॥ 6 ॥

  7. सवनवन्तं महाशङ्खं बलवान अरिमर्दनः पराधमद बलम आस्थाय दविषतां लॊमहर्षणम ॥ 7 ॥

  8. तत ते जवना धुर्या जानुभ्याम अगमन महीम उत्तरश चापि संत्रस्तॊ रथॊपस्थ उपाविशत ॥ 8 ॥

  9. संस्थाप्य चाश्वान कौन्तेयः समुद्यम्य च रश्मिभिः उत्तरं च परिष्वज्य समाश्वासयद अर्जुनः ॥ 9 ॥

  10. मा भैस तवं राजपुत्राग्र्य कषत्रियॊ ऽसि परंतप कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि ॥ 10 ॥

  11. शरुतास ते शङ्खशब्दाश च भेरीशब्दाश च पुष्कलाः कुञ्जराणां च नदतां वयूढानीकेषु तिष्ठताम ॥ 11 ॥

  12. स तवं कथम इहानेन शङ्खशब्देन भीषितः विषण्णरूपॊ वित्रस्तः पुरुषः पराकृतॊ यथा ॥ 12 ॥

  13. [उत्तर] शरुता मे शङ्खशब्दाश च भेरीशब्दाश च पुष्कलाः कुञ्जराणां च निनदा वयूढानीकेषु तिष्ठताम ॥ 13 ॥

  14. नैवंविधः शङ्खशब्दः पुरा जातु मया शरुतः धवजस्य चापि रूपं मे दृष्टपूर्वं न हीदृशम धनुर अश चैव निर्घॊषः शरुतपूर्वॊ न मे कव चित ॥ 14 ॥

  15. अस्य शङ्खस्य शब्देन धनुषॊ निस्वनेन च रथस्य च निनादेन मनॊ मुह्यति मे भृशम ॥ 15 ॥

  16. वयाकुलाश च दिशः सर्वा हृदयं वयथतीव मे धवजेन पिहिताः सर्वा दिशॊ न परतिभान्ति मे गाण्डीवस्य च शब्देन कौणौ मे बधिरी कृतौ ॥ 16 ॥

  17. [अर्ज] एकान्ते रथम आस्थाय पद्भ्यां तवम अवपीडय दृढं च रश्मीन संयच्छ शङ्खं धमास्याम्य अहं पुनः ॥ 17 ॥

  18. [वै] तस्य शङ्खस्य शब्देन रथनेमि सवनेन च गाण्डीवस्य च घॊषेण पृथिवीसमकम्पत ॥ 18 ॥

  19. [दरॊण] यथा रथस्य निर्घॊषॊ यथा शङ्ख उदीर्यते कम्पते च यथा भूमिर नैषॊ ऽनयः सव्यसाचिनः ॥ 19 ॥

  20. शस्त्राणि न परकाशन्ते न परहृष्यन्ति वाजिनः अग्नयश च न भासन्ते समिद्धास तन न शॊभनम ॥ 20 ॥

  21. परत्य आदित्यं च नः सर्वे मृगा घॊरप्रवादिनः धवजेषु च निलीयन्ते वायसास तन न शॊभनम शकुनाश चापसव्या नॊ वेदयन्ति महद भयम ॥ 21 ॥

  22. गॊमायुर एष सेनाया रुवन मध्ये ऽनुधावति अनाहतश च निष्क्रान्तॊ महद वेदयते भयम भवतां रॊमकूपाणि परहृष्टान्य उपलक्षये ॥ 22 ॥

  23. पराभूता च वः सेना न कश चिद यॊद्धुम इच्छति विवर्णमुख भूयिष्ठाः सर्वे यॊघा विचेतसः गाः संप्रस्थाप्य तिष्ठामॊ वयूढानीकाः परहारिणः ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 42

Previous: अध्याय 40