धर्मDharmic Data

विराटपर्व · Virata Parva

अध्याय 40

  1. [उत्तर] आस्थाय विपुलं वीर रथं सारथिना मया कतमं यास्यसे ऽनीकम उक्तॊ यास्याम्य अहं तवया ॥ 1 ॥

  2. [अर्ज] परीतॊ ऽसमि पुरुषव्याघ्र न भयं विद्यते तव सर्वान नुदामि ते शत्रून रणे रणविशारद ॥ 2 ॥

  3. सवस्थॊ भव महाबुद्धे पश्य मां शत्रुभिः सह युध्यमानं विमर्दे ऽसमिन कुर्वाणं भैरवं महत ॥ 3 ॥

  4. एतान सर्वान उपासङ्गान कषिप्रं बध्नीहि मे रथे एतं चाहर निस्त्रिंशं जातरूपपरिष्कृतम अहं वै कुरुभिर यॊत्स्याम्य अवजेष्यामि ते पशून ॥ 4 ॥

  5. संकल्पपक्ष विक्षेपं बाहुप्राकारतॊरणम तरिदण्डतूण संबाधम अनेकध्वजसंकुलम ॥ 5 ॥

  6. जया कषेपणं करॊधकृतं नेमी निनददुन्दुभिः नगरं ते मया गुप्तं रथॊपस्थं भविष्यति ॥ 6 ॥

  7. अधिष्ठितॊ मया संख्ये रथॊ गाण्डीवधन्वना अजेयः शत्रुसैन्यानां वैराटे वयेतु ते भयम ॥ 7 ॥

  8. [उत्तर] बिभेमि नाहम एतेषां जानामि तवां सथिरं युधि केशवेनापि संग्रामे साक्षाद इन्द्रेण वा समम ॥ 8 ॥

  9. इदं तु चिन्तयन्न एव परिमुह्यामि केवलम निश्चयं चापि दुर्मेधा न गच्छामि कथं चन ॥ 9 ॥

  10. एवं वीराङ्गरूपस्य लक्षणैर उचितस्य च केन कर्म विपाकेन कलीबत्वम इदम आगतम ॥ 10 ॥

  11. मन्ये तवां कलीब वेषेण चरन्तं शूलपाणिनम गन्धर्वराजप्रतिमं देवं वापि शतक्रतुम ॥ 11 ॥

  12. [अर्ज] भरातुर नियॊगाज जयेष्ठस्य संवत्सरम इदं वरतम चरामि बरह्मचर्यं वै सत्यम एतद बरवीमि ते ॥ 12 ॥

  13. नास्मि कलीबॊ महाबाहॊ परवान धर्मसंयुतः समाप्तव्रतम उत्तीर्णं विद्धि मां तवं नृपात्मज ॥ 13 ॥

  14. [उत्तर] परमॊ ऽनुग्रहॊ मे ऽदय यत परतर्कॊ न मे वृथा न हीदृशाः कलीब रूपा भवन्तीह नरॊत्तमाः ॥ 14 ॥

  15. सहायवान अस्मि रणे युध्येयम अमरैर अपि साध्वसं तत परनष्टं मे किं करॊमि बरवीहि मे ॥ 15 ॥

  16. अहं ते संग्रहीष्यामि हयाञ शत्रुरथारुजः शिक्षितॊ हय अस्मि सारथ्ये तीर्थतः पुरुषर्षभ ॥ 16 ॥

  17. दारुकॊ वासुदेवस्य यथा शक्रस्य मातलिः तथा मां विद्धि सारथ्ये शिक्षितं नरपुंगव ॥ 17 ॥

  18. यस्य याते न पश्यन्ति भूमौ पराप्तं पदं पदम दक्षिणं यॊ धुरं युक्तः सुग्रीव सदृशॊ हयः ॥ 18 ॥

  19. यॊ ऽयं धुरं धुर्यवरॊ वामं वहति शॊभनः तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम ॥ 19 ॥

  20. यॊ ऽयं काञ्चनसंनाहः पार्ष्णिं वहति शॊभनः वामं सैन्यस्य मन्ये तं जवेन बलवत्तरम ॥ 20 ॥

  21. यॊ ऽयं वहति ते पार्ष्णिं दक्षिणाम अञ्चितॊद्यतः बलाहकाद अपि मतः स जवे वीर्यवत्तरः ॥ 21 ॥

  22. तवाम एवायं रथॊ वॊढुं संग्रामे ऽरहति धन्विनम तवं चेमं रथम आस्थाय यॊद्धुम अर्हॊ मतॊ मम ॥ 22 ॥

  23. [वै] ततॊ निर्मुच्य बाहुभ्यां वलयानि स वीर्यवान चित्रे दुन्दुभिसंनादे परत्यमुञ्चत तले शुभे ॥ 23 ॥

  24. कृष्णान भङ्गीमतः केशाञ शवेतेनॊद्ग्रथ्य वाससा अधिज्यं तरसा कृत्वा गाण्डीवं वयाक्षिपद धनुः ॥ 24 ॥

  25. तस्य विक्षिप्यमाणस्य धनुषॊ ऽभून महास्वनः यथा शैलस्य महतः शैलेनैवाभिजघ्नुर अः ॥ 25 ॥

  26. स निर्घताभवद भूमिर दिक्षु वायुर ववौ भृशम भरान्तद्विजं खं तदासीत परकम्पितमहाद्रुमम ॥ 26 ॥

  27. तं शब्दं कुरवॊ ऽजानन विस्फॊडम अशनेर इव यद अर्जुनॊ धनुःश्रेष्ठं बाहुभ्याम आक्षिपद रथे ॥ 27 ॥

Reach this point to mark the section finished.

Continue to अध्याय 41

Previous: अध्याय 39