धर्मDharmic Data

विराटपर्व · Virata Parva

अध्याय 39

  1. [उत्तर] सुवर्णविकृतानीमान्य आयुधानि महात्मनाम रुचिराणि परकाशन्ते पार्थानाम आशु कारिणाम ॥ 1 ॥

  2. कव नु सविद अर्जुनः पार्थः पौरव्यॊ वा युधिष्ठिरः नकुलः सहदेवश च भीमसेनश च पाण्डवः ॥ 2 ॥

  3. सर्व एव महात्मानः सर्वामित्र विनाशनाः राज्यम अक्षैः पराकीर्य न शरूयन्ते कदा चन ॥ 3 ॥

  4. दरौपदी कव च पाञ्चाली सत्रीरत्नम इति विश्रुता जितान अक्षैस तदा कृष्णा तान एवान्वगमद वनम ॥ 4 ॥

  5. [अर्ज] अहम अस्म्य अर्जुनः पार्थः सभास्तारॊ युधिष्ठिरः बल्लवॊ भीमसेनस तु पितुस ते रसपाचकः ॥ 5 ॥

  6. अश्वबन्धॊ ऽथ नकुलः सहदेवस तु गॊकुले सैरन्धीं दरौपदीं विद्धि यत्कृते कीचका हताः ॥ 6 ॥

  7. [उत्तर] दश पार्थस्य नामानि यानि पूर्वं शरुतानि मे परब्रूयास तानि यदि मे शरद्दध्यां सर्वम एव ते ॥ 7 ॥

  8. [अर्ज] हन्त ते ऽहं समाचक्षे दश नामानि यानि मे अर्जुनः फल्गुनॊ जिष्णुः किरीटी शवेतवाहनः बीभत्सुर विजयः कृष्णः सव्यसाची धनंजयः ॥ 8 ॥

  9. [उत्तर] केनासि विजयॊ नाम केनासि शवेतवाहनः किरीटी नाम केनासि सव्यसाची कथं भवान ॥ 9 ॥

  10. अर्जुनः फल्गुनॊ जिष्णुः कृष्णॊ बीभत्सुर एव च धनंजयश च केनासि परब्रूहि मम तत्त्वतः शरुता मे तस्य वीरस्य केवला नाम हेतवः ॥ 10 ॥

  11. [अर्ज] सर्वाञ जनपदाञ जित्वा वित्तम आच्छिद्य केवलम मध्ये धनस्य तिष्ठामि तेनाहुर मां धनंजयम ॥ 11 ॥

  12. अभिप्रयामि संग्रामे यद अहं युद्धदुर्मदा नाजित्वा विनिवर्तामि तेन मां विजयं विदुः ॥ 12 ॥

  13. शवेताः काञ्चनसंनाहा रथे युज्यन्ति मे हयाः संग्रामे युध्यमानस्य तेनाहं शवेतवाहनः ॥ 13 ॥

  14. उत्तराभ्यां च पूर्वाभ्यां फल्गुनीभ्याम अहं दिवा जातॊ हिमवतः पृष्ठे तेन मां फल्गुनं विदुः ॥ 14 ॥

  15. पुरा शक्रेण मे दत्तं युध्यतॊ दानवर्षभैः किरीटं मूर्ध्नि सूर्याभं तेन माहुः किरीटिनम ॥ 15 ॥

  16. न कुर्यां कर्म बीभत्सं युध्यमानः कथं चन तेन देवमनुष्येषु बीभत्सुर इति मां विदुः ॥ 16 ॥

  17. उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे तेन देवमनुष्येषु सव्यसाचीति मां विदुः ॥ 17 ॥

  18. पृथिव्यां चतुरन्तायां वर्णॊ मे दुर्लभः समः करॊमि कर्म शुल्कं च तेन माम अर्जुनं विदुः ॥ 18 ॥

  19. अहं दुरापॊ दुर्धर्षॊ दमनः पाकशासनिः तेन देवमनुष्येषु जिष्णु नामास्मि विश्रुतः ॥ 19 ॥

  20. कृष्ण इत्य एव दशमं नाम चक्रे पिता मम कृष्णावदातस्य सतः परियत्वाद बालकस्य वै ॥ 20 ॥

  21. [वै] ततः पार्थं स वैराटिर अभ्यवादयद अन्तिकात अहं भूमिं जयॊ नाम नाम्नाहम अपि चॊत्तरः ॥ 21 ॥

  22. दिष्ट्या तवां पार्थ पश्यामि सवागतं ते धनंजय लॊहिताक्ष महाबाहॊ नागराजकरॊपम यद अज्ञानाद अवॊचं तवां कषन्तुम अर्हसि तन मम ॥ 22 ॥

  23. यतस तवया कृतं पूर्वं विचित्रं कर्म दुष्करम अतॊ भयं वयतीतं मे परीतिश च परमा तवयि ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 40

Previous: अध्याय 38